________________ भरह 1433 - अभिधानराजेन्द्रः - भाग 5 भरह सह पिता पुत्रेण सहाऽऽगतः इत्यादिवत् , लब्धाया-जन्मान्तराज्जितागः प्राप्तायाइदानीमुपस्थिताया अभिसमन्वागतायाः- भोग्यतां गताया उपरि आत्मना उत्सुको-मनसोत्कण्ठुलः परसम्पत्त्यभिलाषी पदव्यत्ययादुत्सुकाऽऽत्मा वा भवने निसृजति, इतिकृत्वा सिंहासनाद- 1 सुत्तिष्ठतीति। उत्थानानन्तरं यत्कर्त्तव्यं, तदाह- जेणेव से णाम० इत्यादि यत्रय स नामरूपोऽहतः- अखण्डितः अङ्कः-चिह्नं यत्र स तथा नामाङ्क इत्यर्थः, एवंविधः शरस्तत्रैवोपागच्छति, तं नामाहताङ्क शरं गृह्णाति नामकम् अनुप्रवाचयतिवर्णानुपूर्वीक्रमेण पठति, नामकमनुप्रवाचयतोऽयं वक्ष्य-माण एतद्रूपोवक्ष्यमाणस्वरूप आत्मन्यधि अभ्यात्म तत्र भव आध्यात्मिकः, आत्मविषय इत्यर्थः / सङ्कल्पश्च द्विधाध्यानाऽऽत्मकः, चिन्ताऽऽत्मकश्च। तत्र आद्यः स्थिराध्यवसायलक्षणरतथाविधदृढसंहमनाऽऽदिगुणोपेतानां द्वितीयश्वलाध्यवसायलक्षणस्तदितरेषामिति, तयोर्मध्येऽयं चिन्तितः-चिन्तारूपश्चेतसोऽनवस्थितत्वात, स चानभिलाषाऽऽत्मकोऽपि स्यादित्यत आह- प्रार्थितः- प्रार्थनाविषयः, अयं मम गनोरथः फलेग्रहिqयादित्यभिलाषाऽऽत्मक इत्यर्थः, मनोगतोमनस्रोव यो गतो न बहिर्वचनेन प्रकाशित इति, सङ्कल्पः समुदपद्यत. तमेवाऽऽहउत्पन्नः खलुःनिश्चये भो इत्यामन्त्रणे विचाराभिमुख्यकरणाय स्वात्मन एव, तेनेह मागधकुमारेति योज्य, जम्बूद्वीपे भरते वर्षे भरतो नाम राजा चातुरन्तचक्रवर्ती तत्- तस्माज्जीतमेतत् अतीतप्रत्युत्पन्नानागताना मागधतीर्थकुमाराणामिति मागधतीर्थस्याधिपतिः कुमारो मागधतीर्थकुमारः, मध्यपदलोपेन समासः, कुमारपदवाच्यत्वं चास्य नागकुमारजातीयत्वात्, तन्नामकाना देवानां राज्ञांनरदेवानाम् उपस्थानिकंप्राभृतं कर्तु तद् गच्छामि, णमिति प्रागवत्, अद्वमपि भरतस्य राज्ञ उपस्थानिक करोमि, इतिकृत्वा-इति मनसिकृत्य एवं-वक्ष्यमाणं निजर्द्धिसार संप्रेक्षतेपर्यालोचयति, ततः किं करोतीत्याह-संपेहेत्ता इत्यादि, सम्प्रेक्ष्य च हाराऽऽदीनि प्रतीतानि, चकारः सर्वत्र समुच्चये, शरं च भरतस्य प्रत्यपंणाय नामाऽऽहतं नामाऽऽहताङ्कमिति निर्देशे कर्तव्ये लाघवार्थमित्थमुपन्यासः, यदा-नाम आहतं लक्षणया लिखित यत्र स तथा त मागधतीर्थोदकं च राज्याभिषेकोपयोगि एतानि गृह्मातीति सम्बन्धः / तदनन्तर किं विदधे इत्याह- "गिण्हित्ता ताए उक्किट्ठाए' इत्यादि, गृहीत्वा च तया दिव्यया देवगत्या गत्यालापकव्याख्या प्राग्वत्, नवर सिंहयासिंहगतिसमानया अतिमहता बलेनाऽऽरब्धत्वात्, यच पूर्वम् ऋषभदेवनिर्वाणकल्याणाधिकारे गत्यालापककथनं यावत्पदेन अत्र च तत्कथनं विस्तरेण तद्विचित्रत्वात् सूत्रकारप्रवृत्तेरिति मन्तव्यं यत्रैव भरतो राजा तत्रैवोपागच्छति, उपागत्य चान्तरिक्षप्रतिपन्नोनभोगतो देवानामभूमिचारित्वात् सकिङ्किणीकानिक्षुद्रघण्टिकाभिः सह गतानि पञ्चवर्णानि च वस्त्राणि प्रवरं विधिपूर्वकं यथा स्यात् तथा परिहितः परिहितवान्, यथा पश्चवर्णानि वरवाणि परिहितवान् तथा किङ्किणीरपीत्यर्थः / किमुक्त भवति? किङ्किणीग्रहणेन तस्य नटाऽऽदियोग्यवेषधारित्वदर्शनन भृशं / तस्य भरते भक्तिः प्रकटिता, अथवा-किङ्किणीसमुत्थशब्देन सर्वजनसमक्ष सेवकोऽस्मिन तुछन्नमिति ज्ञापनार्थ तत्सहित उपागतः, अथवासङिकिणीकानिबद्धकिङ्किणीकानि, तगन्धश्च शोभातिशयार्थ, करतलपरिगृहीतं दशनखं शिरसावर्त मस्तकेऽञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयति, वर्द्धयित्वा चैवमवादीत, अत्र प्राग्वव्याख्यानमिति। किमवादीदित्याह- 'अभिजिएण' इत्यादि, अभिजितम्-आज्ञावशंवदीकृतं देवानुप्रियः-वन्द्यपादैः केवलकल्पसम्पूर्णत्वात् केवलज्ञानसदृश भरत वर्षभरतक्षेत्र पूर्वस्या मागधतीर्थमर्यादयामागधतीर्थ यावत्, तदहं देवानुप्रियाणां विषयवासीदेशवासी अत एवाहं देवानुप्रियाणामाज्ञप्तिकिङ्करः- आज्ञाकारी सेवकः, अहं देवानुप्रियाणां पौरस्त्यः पूर्वदिक्सम्बन्धी अन्तत्वदादेश्य-देशसम्बन्धिनं पालयतिरक्षयति उपद्रयाऽऽदिभ्य इत्यन्तपालः पूर्वदिग्देशलोकानां देवाऽऽदिकृतसमस्तोपद्रवनिवारक इत्यर्थः, 'अहण्णं देवाणुप्पिआणं' इत्यादिपदानां भिन्नभिन्नप्रकारेण योजनीयत्वादत्र न पौनरुक्त्य, तत्प्रतीच्छन्तु-गृह्णन्तु देवानुप्रियाः! मम इदम् - अग्रत उपनीतंएतद्रूपं प्रत्यक्षानुभूयमानस्वरूप प्रीतिदानसन्तोषदान प्राभृतरूपमित्यर्थः, इतिकृत्वाविज्ञप्य हाराऽऽदिकमुपनयतिप्राभृतीकरोतीति, 'तएण' इत्यादि, ततः स भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदमेतद्रूपंप्रीतिदानं तत्प्रीत्युत्पादनार्थमलुब्धतया प्रतीच्छति गृह्णाति, प्रतीष्य च मागधतीर्थकुमारं देवं सत्कारयति वस्त्राऽऽदिना, संमानयति तदुचितप्रतिपत्त्या, सत्कार्य संमान्य च प्रतिविसर्जयतिस्वस्थानगगनायानुमन्यते / अथ तदुत्तरकर्तव्यमाह'तएणं से भरहे राया रह' इत्यादि, ततः स भरतो राजा रथं परावर्त्तयतिभरतवर्षाभिमुखं करोति, परावर्त्य च मागधतीर्थेन लवणसमुद्रात् प्रत्यवतरति, प्रत्यवतीर्य च यत्रैव विजयस्कन्धवारनिवेशो यत्रैवच-बाह्या उपस्थानशाला तत्रैवोपागच्छति उपागत्य च तुरुगान् निगृह्णाति निगृह्य च रथं स्थापयति, स्थापयित्वा च रथात् प्रत्यवरोहति, प्रत्यवरुह्य च यवैव मजनगृहं तत्रैवोपागच्छति, उपागत्य च मज्जनगृहमनुप्रविशति, अनुप्रविश्य (जाव ति) यावत्करणात संपूर्णः स्नानाऽऽलापको वाच्यः, 'ससि व्व पिअदंसणे' इति विशेषणं यावत्, स च प्राग्वत्, नरपतिर्मज्जनगृहात प्रतिनिष्कामति, प्रतिनिष्क्रम्य च यत्रैव भोजनमण्डपस्तत्रैवोपागच्छति, उपागत्य च भोजनमण्डपे सुखाऽऽसनवरगतः सन्नष्टमभक्तं पारयति, पारयित्वा च भोजनमण्डपात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला यत्रैव च सिंहासनं तत्रैवोपागच्छति, उपागत्य च यावत्सिहाऽऽसनवरगतः पूर्वाभिमुखो निषीदति, निषध च अष्टादश श्रेणिप्रश्रेणी: शब्दयति, शब्दयित्वा चैवमवादीदिति / अत्र सूत्रे यावच्छब्दो लिपिप्रमादाऽऽपतित एव दृश्यते, संग्राहकपदाभावात्, अन्यत्र तद्माऽऽदावदृश्यमानत्वाच्चेति, अथ किमवादीदित्याह-(खिप्पामेव त्ति) सर्व प्राग्वत्, यथा राजाऽऽज्ञा पौरा विदधुस्तथा चाऽऽह- 'तएण' इत्यादि, व्यक्त, ततो मागधतीर्थकुमारदेवविजयाष्टाहिकामहामहिमानन्तरं चक्ररत्नं, कीदृशं क्व च सञ्चचारेत्याह- 'तए णं' इत्यादि, तत