________________ भरह 1432 - अभिधानराजेन्द्रः - भाग 5 भरह बद्धानि विह्रानिलाञ्छनानि यत्र तत्तथा, दर्दरमलयाभिधौ यो गिरी, तयोर्यानि शिखराणि तत्सम्बधिनो ये केसराः सिंहस्कन्धके शाः, चामरबालाः-चमरपुच्छकेशाः, एषां चोक्तगिरिद्वयसत्कानामतिसुन्दर- | त्वेनोपादानम्, अर्द्धचन्द्राश्वखण्डचन्द्रप्रतिबिम्बानि चित्ररूपाणि एतादृशानि चिह्नानियत्र तत्तथा, यस्य धनुषि सिंहकेसराः बध्यन्ते स महान् शूर इति शौर्यातिशयख्यापनार्थ , चमरबालबन्धनम् अर्द्धचन्द्रप्रतिबिम्वरूपं च शोभातिशयार्थमिति, कालाऽऽदिवायाः 'प्रहारुणि त्ति' स्नायवः शरीरान्तर्वर्धास्ताभिः सम्पिनद्धाबद्धा जीवाप्रत्यचा यस्य तत्तथा, जीवितान्तकरणं, शत्रूणामिति गम्यम्, ईदृशधनुर्मुक्तो वाणोऽ- | वश्यं रिपुजयीत्यर्थः, 'चलजीवमिति' विशेषणं त्वेतवर्णकवृत्तौ षष्ठाड़े श्रीअभयदेवसूरिभिर्न व्याख्यातमिति, न व्याख्यायते, यदि च-भूयस्सु जम्बूद्वीपप्रज्ञप्तिसूत्राऽऽदर्शेषु दृश्यमानत्वात् व्याख्यातं विलोक्यते तदा टङ्कारकरणक्षणे चलाचञ्चला जीवायस्य तत्तथा, पुनः किंकृत्येत्याह(उसु च त्ति) इषु च गृहीत्वा, तमेव विशिनष्टिवरवज्रमय्यौ कोट्यौउभयप्रान्तो यस्य स तथा, बहुव्रीहिलक्षणः कप्रत्ययः, वरवजवत सारम् - अभेद्यत्वेनाभड्गुरं तुण्डंमुखविभागो भल्लीरूपो यस्य स तथा तं, काञ्चनबद्धा मणयः-चन्द्रकान्ताऽऽद्याः कनकबद्धानि रत्नानिकतनाऽऽदीनि प्रदेशविशेषे यस्य स धोत इव धोतो निर्मलत्वात इष्टोधानुष्काप्यामभिमतः सुकृतो-निपुण-शिल्पिना निर्मितः पुङ्गपृष्ठभागो यस्य स तथा तम्, अनेकैर्मणिरत्लैर्विविधंनानाप्रकार सुविरचितं नामचिहिनिजनामवर्णपक्तिरूपं यत्र स तथा तं, पुनरपि किं कृत्वेत्याह - वैशाख वैशाखनामकं स्थानंपादन्यासविशेषरूपं स्थित्वा कृत्या, वैशाखस्थानकं चैवम्- ‘पादौ सविस्तरौ कार्या , समहस्तप्रमाणतः / वैशाखस्थानके वत्स ! कूटलक्ष्यस्य वेधने / / 1 / / इति। भूयोऽपि कि कृत्वेत्याह-इषुमुदारम उद्भटमायात-प्रयत्नवद्यथा भवत्येव कर्ण या, वदायातम्, आकृष्ट कृत्वा इमानि वचनान्यभाणीदिति, अन्वययोजनं तु | पूर्वमेव कृतं, कानि तानि वचननीत्याह-'हंदि' इति सत्ये, तेन यथाशयं बदामीत्यर्थः, अथवा- हन्दीति सम्बो-धने, शृण्वन्तु भवन्तः, शरस्यमत्प्रयुक्तस्य बहिस्तात् त्वगभागे ये देवा अधिष्ठायकास्तद्दाढ्याऽऽदिकारिणस्ते इत्यर्थः, खलु वाक्यालङ्कारे, ते के इत्याह-नागा असुराः सुपर्णागरुडकुमाराः तेभ्यः 'खुः' निश्चये, नमोऽस्तु विभक्तिपरिणामात् तान् प्रणिपतामिनमस्करोमि, नम इत्यनेन गतार्थत्वेऽपि प्रणिपतामीति पुनर्वचनं भक्त्यतिशयख्यापनार्थम्, अनेन शरप्रयोगाय साहाय्यक-र्तृणा बहिर्भागवासिनां देवानां सम्बोधनमुक्तम्, अथाभ्यन्तरभाग-वर्तिदेवानां / सम्बोधनायाऽऽह-हन्दीति प्राग्वत्, नवरमभ्यन्तरतो गर्भभागे शरस्य येऽधिष्ठायकास्तहादयाऽऽदिकारिण इत्यर्थः, तेऽत्र सम्बोध्या इत्यथः, सर्वे ते देवा मम विषयवासिनो-मम देशवासिन इत्यर्थः। सूत्रे चैकवचनं प्राकृतत्वात्, इदं च वचनं सर्वे एते देवा मदाज्ञावशंवदत्वेन मदिष्टस्य शरप्रयोगस्य साहायक करिष्यन्तीत्याशयेनेति, यथाऽत्राऽऽदिचरित्राऽऽदौ शरस्य पुङ्ग मुखरूपं देवाधिष्ठातव्यं स्थानद्वयमधिकमुक्तमस्ति तत्तयोः शरे प्राधान्यख्यापनार्थ, ननु यद्येते देवा आज्ञावशंवदास्तर्हि नमस्कार्यत्वमनुपपन्नम्? उच्यते-क्षत्रियाणां शस्त्रस्य नमस्कार्यत्वे व्यवहारदर्शनात् चक्ररत्नस्येव, तेन तदधिष्ठातृणामपि स्वाभिमतकृत्यसाधकत्येन नमस्कार्यत्वं नानुपपन्नमिति, इति कृत्वानिवेद्य इधुं निसृजतिमुवति। अथ भरतस्यैतत्प्रस्ताववर्णनाय पदद्वयमाह-(परिगर त्ति) परिकरणमल्लकच्छवन्धेन युद्धोचितवस्वबन्धविशेषेणेत्यर्थः, निगडितंसुबद्धं मध्यं यस्य स तथा, वातेन-प्रस्तावात् समुद्रवातेनोद्धृतम्उत्क्षिप्तं शोभमानं कौशेय-वस्त्रविशेषो यस्य स तथा, चित्रेण धनुर्वरण शोभते स भरत इत्यध्याहारः, इन्द्रइव प्रत्यक्षंसाक्षात्तत्प्रागुक्तस्वरूपं महाचापं चलायमानंसौदामिनीयमानं कान्तिझात्कारेणेत्यर्थः, आरोपितगुणत्वेन पञ्चमी-चन्द्रोपमं (छज्जइत्ति) राजते। 'राजेरग्घछज्जसहरीररेहाः // 814 / 100 / इति प्राकृतसूत्रेण रूपसिद्धिः, वामहस्ते नरपतेरिति, तस्मिन् विजये-मागधतीर्थेशसाधने इति। 'तएणं' इत्यादि, ततः स शरो भरतेन राज्ञा निसृष्टः सन् क्षिप्रमेव द्वादश योजनानि गत्वा मागधतीर्थाधिपतेर्देवस्य भवने निपतितः, ततः किं वृत्तमित्याह- 'तए ण' इत्यादि, ततः स मागधपतिर्देवो भवने अर्थात्-स्वकीये शरं निपतितं पश्यति, दृष्ट्वा च आशु-शीघ्रं सप्तः-क्रोधोदयाद्विमूढः, रुपलुप च विमोहने' इति वचनात्, स्फुरितकोपलिङ्गोवा, रुष्टः-उदितक्रोधः चाण्डिक्यितःसञ्जातचाण्डिक्यः, प्रकटितरौद्ररूप इत्यर्थः, कुपितः-प्रवृद्धकोपोदयः, (मिसिमिसेमाणे त्ति) क्रोधाग्निना दीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः, त्रिवलिकांतिस्रो वलयः-प्रकोपोत्थललाटरेखारूपा यस्यां सा तथा तां भृकुटि-कोपविकृत भूरूपां संहरतिनिवेशयति, संहृत्य च एवमवादीत्, किमयादीदित्याह- 'केसण' इत्यादि, (केस ति) कः अज्ञातकुलशीलसहजत्वादनिर्दिष्टनामकः, सकारः प्राकृतशैलीभवः 'मणसा वयसा कायसा' इत्यादिवत् णमिति प्राग्वत्, भो इति सम्बोधने, देवानाम् एषः-बाणप्रयोक्ता अप्रार्थितं -केनाप्यमनोरथगोचरीकृतं प्रस्तावात् मरणं तस्य प्रार्थक:-अभिलाषी। अयमर्थः- यो मया सह युयुत्सुः स मुमूर्षुरवेति, दुरन्तानि-दुष्टावसानानि प्रान्तानितुच्छानिलक्षणानियस्य स तथा, हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यचातु-दर्शः, तत्र चतुर्दशी किल तिथिर्जन्माऽऽश्रिता पुण्या पवित्रा, शुभा इति यावत् / भवति, सा च पूर्णाऽत्यन्तभाग्यवतो जन्मनि भवति, अत आक्रोशता इत्थमुक्तं, क्वचिद्- 'भिन्नपुण्णचाउद्दसे त्ति' तत्र भिन्ना परतिथिसङ्ग मेन भेदं प्राप्ता या पुण्यचतुर्दशी तस्या जात इति. हियालज्जया श्रियाशोभया चपरिवर्जितः यः णमिति पूर्ववत्, मम अस्याःप्रत्यक्षानुभूयमानाया एतद्रूपाया एतदेव समयान्तरेभड्गुरत्याऽऽदिरूपान्तरभाक् रूपं स्वरूपं यस्याः सा तथा तस्या दिव्यायाः-स्वर्गसम्भवायाः प्रधानाया वा देवानामृद्धिः-श्रीभवनरत्नाऽऽदिसम्पत्तस्याः, एवं सर्वत्र, नवरं द्युतिः-दीप्तिः शरीराऽऽभरणाऽऽदि सम्पत् तस्याः युतिर्वाइष्टपरिवाराऽऽदिसंयोगलक्षणा तस्याः दिव्येनप्रधानेन देवानुभावेनभाग्यमहिम्ना, अथवा- दिव्येनदेवसम्बन्धिनाऽनुभावेन अचिन्त्यवैक्रियाऽऽदिकरणमहिम्ना