________________ भरह 1420 - अभिधानराजेन्द्रः - भाग 5 भरह र जाव रज्जं पसासेमाणे विहरइ। बिइओ गमो रायवण्णगस्स इमो, तत्थ असंखेज्जकालवासंतरेण उप्पज्जए जसंसी उत्तमे अभिजाए सत्तवीरिअपरक्कमगुणे पसत्थवण्णसरसारसंघयणतणुगबुद्धिधारणमेहासंठाणसीलप्पगई पहाणगारवच्छायागइए अणेगवयणप्पहाणे तेअआउलवीरिअजुत्ते अज्झुसिरघणणिचिअलोहसंकलणारायवइरउसहसंघयणदेहधारी झस 1 जुग 2 भिंगार 3 वद्धमाणग 4 भद्दमाणग 5 संख 6 छत्त 7 वीअणि 5 पडाग 6 चक्क १०णंगल 11 मुसल 12 रह 13 सोत्थिअ१४ अंकुस 15 चंदा 16 इच 17 अग्गि 18 जूय 16 सागर 20 इंदज्झय 21 पुहवि 22 पउम 23 कुंजर 24 सीहासण 25 / दंड 26 कुम्म 27 गिरिवर 28 तुरगवर 26 वरमउड 30 कुंडल 31 णंदावत्त 32 धण 33 कोंत 34 गागर 35 भवणविमाण 36 अणेगलक्खणपसत्थसुविभत्तचित्तकरचरणदेसभागे उद्धामुहलोमजालसुकुमालणिद्धमउआवत्तपसत्थलोमविरइअसिरिवच्छच्छण्णविउलवच्छे देसखेत्तसुविभत्तदेहधारी तरुणरविरस्सिबोहिअवरकमलविबुद्धगम्भवण्णे हयपोसणकोससण्णिभपसत्थपिटुंतणिरुवलेवे पउमुप्पलकुं दजाइजू हियवरचंपगणागपुप्फसारंगतुल्लगंधी छत्तीसा-अहिअपसत्थपत्थिवगुणेहिं जुत्ते अव्वोच्छिण्णातपत्ते पागडउभयजोणी विसुद्धणि-अगकुलगयणपुण्णचंदे चंदे इव सोमयाए णयणमणणिव्युइकरे अक्खोभे सागरो व थिमिए धणवइ व्व भोगसमुदयसद्दव्वयाए समरे अपराइए परमविक्कमगुणे अमरवइसमाणसरिसरूवे मणुअवई भरहचकवट्टी भरहं मुंजइ पणट्ठसत्तू / (सूत्र 42) (तत्थ णमित्यादि) तत्र विनीतायां राजधान्यां भरतो नाम राजा, सच / सामन्ताऽऽदिरपि स्यादत आह चक्रवर्ती , स च वासुदेवोऽपि स्यादतश्चत्वारोऽन्ताः-पूर्वापरदक्षिणसमुद्रास्त्रयः चतुर्थो हिमवान् इत्येवंस्वरूपास्ते वश्यतयाऽस्य सन्तीति चातुरन्तः, पश्चाच्चक्रवर्तिपदेन कर्मधारयः समुदपद्यत, महाहिमवान् हैमवतहरिवर्षक्षेत्रयोविभाजकः कुलगिरिः स इव महान् शेषपृथ्वीपतिपर्वतापेक्षया मलयः-चन्दनद्रुमोत्पत्तिप्रसिद्धो गिरिः, मन्दरोमेरुः, यावत्पदात् प्रथमोपाङ्ग (ग)तः समग्रो राजवर्णको ग्राह्य, कियत्पर्यन्त इत्याह-- राज्यं प्रशासयन् पालयन् विहरतीति। नन्वेवमपि शाश्वती भरतनामप्रवृत्तिः कथं? तदभावे च 'सेत्तं' इत्यादि वक्ष्यमाण निगमनमप्यसम्भवीत्याशया प्रकरान्तरेण तत्तत्कालभाविभरतनामचक्रवर्युद्देशेन राजवर्णनमाह- 'विइओगमो' इत्यादि, द्वितीयो गमः-पाठविशेषोपलक्षितो ग्रन्थो राजवर्णकस्यायं, 'तत्र' तस्यां विनितायामसङ्गययः कालो यैर्वर्षे स्तानि वर्षाणि असङ्खयेयानीत्यर्थः, तेषामन्तरालेन-विधालेन, अयमर्थः-प्रवचने हि कालस्यासङ्ख्येयता असंख्येयैरेव च वर्षय॑वहियते, अन्यथा समयापेक्षयाऽसङ्ख्येयत्वे / ऐदंयुगीनमनुष्याणामसङ्ख्येयाऽऽयुष्कत्वव्यवहारप्रसङ्गः तेनासंख्येयवर्षाऽऽल्मकासङ्ख्येयकाले गते एकस्माद् भरतचक्रवर्तिनोऽपरो भरतचक्रवर्ती यतः प्रकृतक्षेत्रस्य भरते-ति नाम प्रवर्तते स उत्पद्यते इति क्रियाकारकसम्बन्धः, वर्तमाननिर्देशः प्राग्वत्। आवश्यकचूर्णी तु, "तत्थ य संखिज्जकालवासाउए'' इति पाठः-तत्र च-भरते सङ्ख्यातकालवर्षाणि आयुर्यस्य सः सङ्ख्यातकालवर्षाऽऽयुष्कः, तेनास्य युग्मिमनुष्यत्वव्यवहारो व्यपाकृतो द्रष्टव्यः, तेषामसङ्ख्यातवर्षाऽयुष्कत्वादिति / ननु भरतचक्रिणोऽसङ्ख्यातकालेऽतीतायुषि सगरचक्रयादिभिरिद सूत्र व्यभिचारि, तेषां भरतनामकत्याभावात् उच्यते-नहीद सूत्रमसङ्ख्येयकालवर्षान्तरेण सकलकालवर्तिनि चक्रवर्त्तिमण्डले नियमेन भरतनामकचक्रवर्तिसम्भवसूचक किन्तु कदाचित्तत्सम्भवसूचकं, यथा आगामिन्यामुत्सर्पिण्यां भरताऽऽख्यः प्रथमचक्री / यत आह-''भरहे अ दीहदंते, अगूढदंते असुद्धदंते / सिरिअंदे सिरिभूई, सिरिसोमे असत्तमे।।१।।" इत्यादिसमवायाङ्गतीर्थाद्वारप्रकीर्णकाऽऽदौ, सच कीदृश इत्याह- 'यशस्वी तिव्यक्तम्, उत्तसः शलाकापुरुषत्वात्, अभिजातः कुलीनः श्रीऋषभाऽऽदिवंश्यत्वात्. सत्त्वंसाहसं, वीर्यम् आन्तरं बलं, पराक्रमः शत्रुवित्रासनशक्तिरेते गुणा यस्य, एतेन राजन्योचितसर्वातिशायिगुणवत्त्वमाह, प्रशस्ताः-तत्कालीनजनापेक्षया श्लाघनीयाः वर्णः-शरीरच्छविः, स्वरोध्वनिः, सारः-शुभपुगलोपचयजन्यो धातुविशेषः शरीरदायहेतुः, संहननम्-अस्थिनिचयरूपं तनुकंशरीरं बुद्धिः-औत्पत्त्यादिका, धारणा-अनुभूतार्थवासनाया अविच्युतिः, मेधा-हेयोपादेयधीः, संस्थान-यथास्थानमङ्गोपाङ्गविन्यासः, शीलम्आचारः, प्रकृतिः-सहज, ततो द्वन्द्रे, प्रशस्ता वर्णाऽऽदयोऽर्था यस्य स तथा भवन्ति च विशिष्टाः वर्णस्वराऽऽदयः आत्रैश्वर्याऽऽदिप्रधानफलदाः, प्रधाना-अनन्यवर्त्तिनो गौरवाऽऽदयोऽर्था यस्य स तथा, तत्र गौरवंमहासामन्ताऽऽदिकृताभ्युत्थानाऽऽदिप्रतिपत्तिः, छायाशरीरशोभा, गतिः-सञ्चरणमिति, अनेकेषुविविधप्रकारेषु वचनेषुवक्तव्येषु प्रधानोमुख्यः, अनेकधावचनप्रकारश्चायं निजशासनप्रवर्त्तनाऽऽदौ "आदौ तावन्मधुरं, मध्ये रूक्षं ततः परं कटुकम्। भोजनविधिमिव विबुधाः, स्वकार्यसिद्ध्यै वदन्ति वचः॥१॥" अथवा"सत्य मित्रैः प्रियं स्वीभि-रलीकमधुरं द्विषा। अनुकूलं च सत्यं च, वक्तव्यं स्वामिना सह / / 2 / / " इति। तेजः-परासहनीयः पुण्यः-प्रतापः अभेदोपचारेण तद्वान, 'तेजसा हि न वयः समीक्ष्यते' इत्यादिवत्, आयुर्वलंपुरुषाऽऽयुषं तद् यावद्वीयं तेन युक्तः, तेन जरारोगाऽऽदिनोपहतवीर्यत्वं नास्येति भावः, पुरुषाऽऽयुषं चतदानीन्तनकाले प्राकृतजनानां पूर्वकोटिसद्भावेऽप्यस्य त्रुटिताङ्गप्रमाणं बोद्धव्यं, नरदेवस्येतावत एवाऽऽयुषः सिद्धान्ते भ