________________ भरह 1516 - अभिधानराजेन्द्रः - भाग 5 भरह तिना निर्मिता तद्ग्रन्थान्तरानुसारेण किश्चिद व्यक्तिपूर्वकमुपदर्श्यते"श्रीविभो राज्यसमये, शक्राऽऽदेशान्नवां पुरीम्। धनदः स्थापयामास, रत्नचामीकरोत्करैः / / 1 / / द्वादशयोजनाऽऽयामा, नवयोजनविस्तृता। अष्टद्वारमहाशाला, साऽभवत्तोरणोज्ज्वला।।२।। धनुषां द्वादशशतान्युच्चै-स्त्वेऽष्टशतं तले। व्यायामे शतमेकं स, व्यधाद्वप्रं सखातिकम् / / 3 / / सौवर्णस्य च तस्याङ्के, कपिशीषोवलिवेभो। मणिजाऽमरशैलस्थ-नक्षत्रालिरिवोद्गता // 4 // चतुरस्त्राश्च त्र्यसाश्च, वृत्ताश्च स्वस्तिकास्तथा। मन्दाराः सर्वतोभद्रा, एकभूमा द्विभूमिकाः॥५॥ त्रिभूमाऽऽद्याः सप्तभूम, यावत्सामान्यभूभुजाम्। प्रासादाः कोटिशस्तत्रा-भूवन् रत्नसुवणजाः।।६।। युग्मम्। दिश्यैशान्यां सप्तभूमं, चतुरस्रं हिरण्मयम्। सवप्रखात्रिकं वक्रे, प्रासाद नाभिभूपतेः।।७।। दिश्यैन्द्रयां सर्वतोभद्र, सप्तभूमं महोन्नतम्। वर्तल भरतेशस्य,प्रासादं धनदोऽकरोत् // 8 // आग्नेय्यां भरतस्यैव, सौधं बाहुबलेरभूत्। शेषाणां च कुमाराणा-मन्तरा ह्यभवत् तयोः / / 6 / / तस्यान्तराऽऽदिदेवस्य, चैकविंशतिभूमिकम्। त्रैलोक्यविभ्रम नाम, प्रासादं रत्नराजिभिः // 10 // सदप्रखातिक रम्यं, सुवर्णकलशाऽऽवृतम्। पञ्चध्वजषटव्याजा-न्नृत्यन्तं निर्मम हरिः।।११।। युग्मम्। अष्टोत्तरसहरनेण, मणिजालैरसौ बभौ। तावत्सङ्घयमुखैभूरि, ब्रुवाणमिव तद्यशः / / 12 / / कल्पद्रुमैर्वृताः सर्वे-ऽभूवन (से) भरहयौकसः। सप्राकारा बृहद्बास:-पताकामालभारिणः // 13 // सुधर्मसदृशी चारु, रत्नमय्यभवत्पुरी। युगाऽऽदिदेवप्रासादात, सभा सर्वप्रभाऽभिधा / / 14 / / चतुर्दिक्षु विराजन्ते, मणितोरणमालिकाः / पञ्चवर्णप्रभाड्कूर-पूरडम्बरिताम्बराः / / 15 / / अष्टोत्तरसहस्रेण, मणिबिम्बैर्विभूषितम्। गव्यूतिद्वयमुत्तुङ्गं , मणिरत्नहिरण्मयम् // 16 // नानाभूमिगवाक्षाऽऽन्य, विचित्रमणिवेदिकम्। प्रासादं जागदीशस्य, व्यधाच्छीदः पुरान्तरा।।१७।। युग्मम्। सामन्तमण्डलीकानां, नन्द्यावतोऽऽदयः शुभाः। प्रासादा निर्मितास्तत्र, विचित्रा विश्वकर्मणा // 15 // अष्टोत्तरसहस्र तु, जिनानां भवनान्यभूः। उच्चैर्ध्वजाप्रसंक्षुब्ध-तीक्ष्णांशुतुरगाण्यथ।।१६।। चतुष्पथप्रतिबद्धा, चतुरशीतिरुच्चकैः / प्रासादाश्चाहता रम्याः, हिरण्यकलशैर्बभुः / / 20 / / सौधानि हिरण्यरत्न-मयान्युच्चैः सुमेरुवत्। कोबेर्या सपताकानि, चक्रे स व्यवहारिणाम्॥२१॥ दक्षिणस्यां क्षत्रियाणां, सौधानि विविधानि च। अभूवन् साऽसाऽगाराणि, तेजांस्यवनिवासिनाम् / / 22 / / तद्प्रान्तश्चतुर्दिक्षु, पौराणां सौधनोटयः। व्यराजन्तद्युसद्यान-समानविशदश्रियः॥२३॥ सामान्यकारुकाणां च, बहिःप्राकारतोऽभवत। कोटिसड़ख्याश्चतुर्दिक्षु, गृहाः सर्वधनाऽऽश्रयाः॥२४।। अवाच्यां च प्रतीच्यां च, कारुकाणां बभुर्गृहाः। एकभूमिमुखारत्र्यस्रा-स्त्रिभूमिं यावदुच्छ्रिताः / / 25 / / अहोरात्रेण निर्माय, तां पुरी धनदोऽकिरत्। हिरण्यरत्नधान्यानि, वासांस्याभरणानि च / / 26 / / सरांसि वापीकूपाऽऽदीन, दीर्घिका देवताऽऽलयान्। अन्यच्च सर्व तत्राहो-रात्रेण धनदोऽकरोत्॥२७।। विपिनानि चतुर्दिक्षु, सिद्धार्थश्रीनिवासके। पुष्पाऽऽकारं नन्दनं चा-भवन् भूयांसि चान्यतः।।२८।। प्रत्येक हेमचैत्यानि, जिनानां तत्र रेजिरे। पवनाऽऽहृतपुष्पाऽऽलि-पूजितानि द्रुमैरपि / / 26 / / प्राच्यामष्टापदोऽवाच्या, महाशैलो महोन्नतः। प्रतीच्या सुरशैलरन्तु, कौवर्यामुदयाचलः / / 30 / / तत्रैवमभवन् शैलाः, कल्पवृक्षाऽऽलिमालिताः। मणिरत्नाऽऽकराः प्रोचे-जिनाऽऽवासपवित्रिताः // 31 // शक्राऽऽज्ञया रत्नमयी-मयोध्यापरनामतः। विनोतां सुरराजस्य, पुरीमिव स निर्ममे // 32 // यद्वास्तव्यजना देवे, गुरौ धर्मे च साऽऽदराः। स्थैयोऽऽदिभिगुणैर्युक्ताः, सत्यशैचदयाऽन्विताः॥३३॥ कलाकलापकुशलाः, सत्सङ्गातिरताः सदा। विशदाः शान्तसद्भावाः, अहमिन्द्रा महोदयाः // 34 // युग्मम्तत्पुर्यामृषभः स्वामी, सुरासुरनरार्चितः। जगत्सृष्टिकरो राज्य, पाति, विश्वस्य रञ्जनात्॥३५।। अन्वयोध्यमिह क्षेत्र-पुराण्यासन् समन्ततः। विश्वस्रष्ट्रशिल्पिवृन्द-घटितानि तदुक्तिभिः।।३६।।" इति। संक्षेपेण त्वेतत्स्वरूपं सूत्रकारोऽप्याह- 'चामोअरपागारे' त्यादि, चामीकरप्राकारा नानामणिकपिशीर्षपरिमण्डिता अभिरामा अलकापुरीलौकिकशास्त्र, धनदपुरी तत्संकाशातत्सन्निभा प्रमुदितजनयोगान्नगर्यपि 'तात्स्थ्यात् तद्व्यपदेशः' इति न्यायात् प्रमुदिता, तथा प्रकीडिताः-कीडितुमारब्धवन्तः क्रीडावन्तः इत्यर्थः; तादृशा ये जनास्तद्योगान्नगर्यपि प्रक्रीडिता, पश्चाद् विशेषणसमासः; प्रत्यक्ष प्रत्यक्षप्रमाणेन तस्यानुमानाऽऽद्याधिकेन विशेषप्रकाशकत्वात् तज्जन्यज्ञानस्य सकलप्रतिपत्तृणां विप्रतिपत्त्यविषयत्वात्, देवलोकभूतास्वर्गलोकसमाना 'ऋद्धस्तिमितसमृद्धे' त्यादिविशेषणानि प्राग्वत, इतिः परिसमाप्तौ, नवरं प्रमुदितजनजानपदेतिविशेषणं प्रमुदितप्रक्रीडितेतिविशेषणस्य हेतुतयोपन्यस्तं तेन न पौनरुक्त्यमाशङ्कनीयम्। नन्वेवं प्रस्तुतक्षेत्रस्य नामप्रवृत्तिः कथं जातेत्याहतत्थ णं विणीआए रायहाणीए भरहे णामं राया चाउरंतचक्कवट्टी समुप्पज्जित्था, महया हिमवंतमहंतमलयमंद