________________ भरह 1417 - अभिधानराजेन्द्रः - भाग 5 भरह पूर्वदिक्पालो, यमो दक्षिणदिक्पालो, वरुणः पश्विमदिक्पालो, वैश्रमण उत्तरदिक्पालः, तेषां कायो निकाय आश्रयणीयत्वेन येषां, ते तथा तेषां शक्रसम्बन्धिसोमाऽऽदिदिक्पाखपरिवारभूतानामित्यर्थः / आभियोग्यानां देवानां बहूनि भवनानि प्रज्ञप्तानि, तानि, सूत्रे पुंस्त्यनिर्देशः प्राकृतत्वात् णमिति प्राग्वत्। भवनानि बहिर्वृत्तानि बहिर्वृत्ताऽऽकाराणि अन्तश्चतुरस्राणि समचतुरस्राणि (वण्णउत्ति) अत्र भवनानां वर्णको वाच्यः, स च किंपर्यन्त इत्याह- (जाव अच्छरगणसंघविकिण्ण त्ति)ततोऽपि कियत्पर्यन्त त्याह (जाव पडिरूव त्ति) स च प्रज्ञापनास्थानाख्यऽऽद्वितीयपदोक्तो यथा- 'अहे पुक्खरकन्नियासंठाणसंठिया उक्किन्नतरविउलगंभीरखायफलिहा पागारट्टालयकवाडतोरणपडिदुबारदेसभागा जंतसबग्धिमुसलमुसंढिपरिवारिया अउज्झा सदाजया सदागुत्ता अड्यालकोट्ठगरइया अडयालकयवणमाला खेमा सिवा किंकरा मरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला उवचितचंदणकलसाचंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्घारियमलदामकलावा पंचयन्नसरससुरभिमुक्क पुप्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुद् धुयाभिरामा सुगंधवरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्ना दिव्यतुडियसद्दसंपणादिया सव्वरयणामया अच्छा सण्हा लण्हा घडा मट्ठा णीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया सउज्जोया पासादीया दरिसणिजा अभिरुवा पडिरूवा। (सूत्र४६ प्रज्ञा०२ पद) अत्र व्याख्या- अधस्तनभामे पुष्करकर्णिकासंस्थानस्थितानितथा उत्कीर्णमिवोत्कीर्णम् अतीव व्यक्तमित्यर्थः, उत्कीर्णमन्तरं यासां खातपरिखाणां ता उत्कीर्णान्तराः / किमुक्तं भवति? खातानां च परिखाणां च स्पष्टवेविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति उत्कीर्णान्तस्रः विपुलाविस्तीर्णा गम्भीराअलब्धमध्यभागाखातपरिखा येषां भवनानां परितस्तानि तथा-खातपरिखाणामयं विशेषः- परिखा उपरि उपरि विशाला अधः सङ्कुचिता, खात तूभयत्रापि सममिति, तथा प्राकारेषु वप्रेषु प्रतिभवनं अट्टालकाः। प्राकारस्योपरिवाश्रयविशेषाः- कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः- अन्यथा कपाटानामसम्भवात्, तोरणानि-प्रतोलीद्वारेषु प्रसिद्वानि, प्रतिद्वाराणिमूलद्वारापान्तरालवर्तिलघुद्वाराणि,एतद्रूपा देशभागा देशविशेषा येषु तानि तथा। यन्त्राणि नानाविधानि शतघ्न्यो-महायष्टयो माहासिला वा या उपरिष्टात् पातिताः सत्यः पुरुषाणां शतानि घ्नन्तीति, मुसलानिप्रतीतानि, मुसण्ढ्यः-शस्त्रविशेषास्तैः परिवारितानिसमन्ततो वेष्टितानि, अत एवायोध्यानिपरैर्वोद्धुमशक्यानि, अयोद्ध्यत्वादेव सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीति भावः। तथा सदासर्वकालं गुप्तानि प्रहरणैः पुरुषश्च योद्धभिः सर्वतो निरन्तरपरिवारिततया परेषामसहमानानां मनागपि प्रवेशासम्भवात्, तथा अष्टचत्वारिंशद्रेदभिन्नविच्छित्तिकलिताः कोष्ठकाः- अपवरका रचिताः- स्वयमेव रचना प्राप्ता येषु तानि तथा, सुखाऽऽदेदर्शनात् पाक्षिको निष्टान्तस्य परनिपातः। तथा अष्टचत्वारिंशद्भेदभिन्नविच्छित्तयः कृता वनमाला येषु तानि तथा / अन्ये त्वाभिदधति- 'अडयाल इति देशीशब्दः प्रशंसावाची। ततोऽयमर्थः-प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणिपरकृतोपद्रवरहितानि शिवानिसदामङ्गलोघेतानि, तथा किङ्कराः- किङ्करभूता येऽमरास्तैः दण्डैः कृत्वोपरक्षितानि, सर्वतः समन्ततोऽपि रक्षितानि, तथा लाइअमिय लाइअंछगणाऽऽदिना भूमेरुपलेपनमिव 'उलोइआ' उल्लोइयमिव उल्लोइयं सेटिकाऽऽदिना कुड्याऽऽदिषु धवलनमिव ताभ्यां महितानीव-पूजितानीव, तथा गोशीर्षण-चन्दन-विशेषेण सरसेनरक्तचन्दनेन च दद्दरणबहलेन दर्दराभिधानाद्रिजातश्रीखण्डेन वा दत्ताः-न्यस्ताः पञ्चाङ्गुलयस्तलाहस्तका येषु तानि तथा, उपचिता-निवेशिता वन्दनकलशामागल्यघटां येषुतानि तथा, बन्दनघटैः- माङ्गल्यकलशैः सुकृतानिसुष्टु कृतानि शोभनानीत्यर्थः, यानि तोरणानि तानि प्रतिद्वारदेशभागद्वारदेशभागे 2 येषु तानि तथा, देशभागाश्च देशा एव, तथा आ-सक्तो भूमौ लग्न उत्सक्तश्च-उपरि लग्नो, विपुलः-अतिविस्तीर्णो , वृत्तःअतिनिचिततया वर्तुलो (वग्धारिअ त्ति)-प्रलम्बितो माल्यदामकलापःपुष्पमालासमूहो येषु तानि तथा, पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताःकरप्रेरिताः पुष्पपुजास्तैर्य उपचारः- पूजा भूमेस्तेन कलितानि कालागरु' इत्यादि विशेषणत्रयं प्राग्वत्, अप्सरोगणानां सङ्घः- समुदायः तेन सम्यग् - रमणीयतया विकीर्णानिव्याप्तानि, तथा दिव्यानां त्रुटितानाम्आतोद्यानां ये शब्दास्तैः सम्यग- श्रोतृमनोहारितया प्रकर्षणसर्वकालं नदि-तानि-शब्दवन्ति। 'सव्वरयणामया' इत्यादि पदानि प्राग्वत्। तत्थ णं इत्यादि, गतार्थमेतत्। अथवैताव्यस्य शिखरतलमाह- 'तासिणं' इत्यादि, तयोः- आभियोग्यश्रेण्योर्बहुसमरमणीया भूमिभागाद्वैताट्यस्य पर्वतस्योभयोः पार्श्वयोः पञ्च पञ्च योजनान्यूर्द्धमुत्पत्त्यगत्वा अत्रान्तरे वैताढ्यस्य पर्वतस्य शिखरतलं प्रज्ञप्त, 'पाईण' इत्यादि प्राग्वत्, तच्च शिखरतलम्, एकया पद्मवरवेदिकया तत्परिवेष्टकभूतेन चैकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तम् / अयं भावः- यथा जगतीमध्यभागे पद्मवरवेदिकैकैव जगतीं दिक्षु विदिक्षु वेष्टयित्वा स्थिता,तथेयमपि सर्वतः शिखर-तलपर्यन्तेवेष्टयित्वा स्थिता, परमेषा आयतचतुरसाऽऽकारशिखरतलसंस्थितत्वेनाऽऽयतचतुरस्रा बोद्धव्या, अत एवैकसंख्याका, तत्परतो बहिर्वर्त्तिवनखण्डअप्येकं, न तु वैताळ्यमूलगतपद्मवरवेदिकावने इव दक्षिणोत्तरविभागेन द्वयरूपे इति। श्रीमलयगिरिपादास्तु क्षेत्रविचारबृहद्वृत्तौ- "तन्मध्ये पद्मवरवेदिकोभयपार्श्वयोर्वनखण्डौ'' इत्याहुः / प्रमाणविष्कम्भाऽऽयामविषयं, वर्णकश्च द्वयोरपि पद्मवरवेदिकाक्नखण्डयोः, प्राग्वद्ग-णितव्य इत्यध्याहार्यम्। अथ शिखरतलस्य स्वरूपं पृच्छति- (वेअड्डस्स णमित्यादि) एतत्सर्व जगतीगतपद्मवरवेदिकाया वनखण्डभूमिभागवव्याख्येयम्। जं०१ वक्ष०ा (कूटवक्तव्यता कूड शब्दे तृतीयभागे 618 पृष्ठे गता)