________________ भरह 1411- अमिधानराजेन्द्रः - भाग 5 भरह मणीण इमेयारूवे वण्णावासे पण्णते, से जहाणामए चंपेइ वा चंपगच्छलीइ वा हालिद्दाइ वा हलिद्दाभेदेति वा हलिद्दयलियाइ वा हरियालियालेइ वा हरियालभेदेति वा हरियालगुलियाइ वा चिउरेति वा चिउरंगरागेति वा / क्रकणएतिवावरकणगनिघसेइ वा सुवण्णसिप्पिएति वा वरपुस्सिवसणेति वा सल्लइकुसुमेति वा चंपाकुसुमेइ वा कुहंडियाकुसुमेइ वा तडउकुसुमेइ वा घोंसाडियाकुसुमेति वा सुवण्णजूहियाकुसुमेइ वा कोरिटवरमल्लदामेति वा सुहिरणियाकुसुमेति वा वीयगकुसुमेति वा पीयासोएति वा पीय - कणवीरेइ वा पीयबंधुजीवएति वा भवे एयालये सिया? णो इणढे समठे। तेणं हालिद्धा मणी एतो इट्टतरा चेव जाव वण्णेणं पण्णत्ता / तत्थ णं जे ते सुकिल्ला मणी, तेसि णं मणीण इमेयारूवे वण्णावासे पण्णत्ते, से जहाणामए अंकेइ वा संखेइ वा चंदेइ वा कुंदेइ वा दंतपंतीइ वा हंसावलीइ वा कोंचावलीति वा वलायावलीति वा हारावलीति वा चंदावलीइ वा सारयवलाहए तिवाधंतधोयरुप्पपट्टेइ वा सालिपिट्ठरासीइवा कुंदपुप्फरासीइ वा कुमुयरासीइ वा सुक्कछिवाडीइ वा पिहुणमंजियाइ वा भिसेइ वा मुणालीइ वा गयदंतेइ वा लवंगदलएवा पोंडरीयदलए वा सिंदुवारमल्लदामेति वा सेयाऽसोगेइ वा सेयकणयरे वा सेयबंधुजीएइ वा भवे एयारूवे सिया। णो इणढे समटे / ते णं सुकिल्ला मणी इत्तो इठ्ठयरा चेव०जाव वण्णेणं पण्णत्ता / तेसिणं मणीणं इमेयारूपे गंधे पण्णते, से जहाणामए कोट्टपुट्ठाणं वा तगरपुडाणं वा एलापुडाण वा चोयपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदणपुडाणं वा उसीरपुडाणं वा मरुयगपुडाणं वा जाइपुडाण वा जूहियापुडाणं वा मल्लियपुडाण वा केयइपुडाणं वा पाडलिपुडाण वा णोमालियापुडाण वा अगरुपुडाणं वा लवंगपुडाणं वा कपूरपुडाणं वा वा-सपुडाणं वा अणुवायंसि उम्भिज्जमाणाण वा कोट्टेजमाणाण वा निभिदिजमाणाण वारूविज्जमाणाण वा विकिरिज्जमाणाण वा परिभुज्जमाणाण या भंडातो वा भंडं साहरिज्जमाणाण वा ओराला मणुण्णा मणहरा घाणमणोनिवितिकरा सव्वतो समंता गंधा अभिनिस्सवंति भये एयारूवे सिया। णो इणडे समढे। तेसिणं मणीणं एतो इट्ठयराए चेव गंधेणं पण्णता।। तेसिणं मणीणं इमेयारूवे फासे पण्णत्ते। से जहानामए आइण्णेति वा रुएइ वा वूरेइ वा णवणीएइ वा हंसगब्भतूलीति वा सिरीसकुसुमणिचएति वा बालकुसुमपत्तरासीति वा भवे एयारूवे सिया / णो इणढे समढे / ते णं मणी एतो इट्टतराए चेव जाव फासेणं पण्णत्ता / / (रा०) "अथोभय श्रेण्योर्नगरसंख्यामाह-(तत्थणंदाहिणिलाए इत्यादि) तत्र तयोः श्रेण्योर्मध्ये दक्षिणस्यां विद्याधरश्रेण्यां गगनवल्लभप्रमुखाः पञ्चाशद्विद्याधरनगरावासाः प्रज्ञप्ताः; व्याख्यातो विशेषप्रतिपत्ति-रिति, तेन नगरावासा राजधानीरूपा ज्ञेयाः, स्वस्वदेशप्रतिबद्धाः। यदाह- "ते दसजोयणपिहुलेहि, सेढिसु जम्मुत्तरासु सजणवया / गिरिवरदीहासु कमा, खयरंपुरा पण्ण सट्ठी य // 1 // " इति। उत्तरस्यां विद्याधर श्रेण्यां रथनूपुरचक्रबालप्रमुखाः षष्टिविद्याधरनगरावासाः प्रज्ञप्ताः। दक्षिणश्रेणेः शकाशादस्या अधिकदीर्घत्वात् / ऋषभचरित्राऽऽदौ तु दक्षिणश्रेण्या | स्थनूपुरचक्रबालम् उत्तरश्रेण्यां गगनवल्लभमुक्तम्, तरचं तुसातिशयश्रुतधरगम्यम् / अनयोर्मुख्यता च श्रेण्यधिपराजधानीत्वेनेति / एवमेवेतिउक्तन्यायेनैव सह पूर्वेण यदपरं तत् सपूर्वापरं संख्यानं तेन दक्षिणस्यामुत्तरस्यां च विद्याधरश्रेण्यामेकं दशोत्तर विद्याधरनगरावासशतं भवतीति आख्यातं मया अन्यैश्च तीर्थकरैरिति। श्रेणिद्वयगतपञ्चाशत्षष्टिसङ्कलने यथोक्तसंख्याभवनादेषां च दशोत्तरशतसंख्यानगराणां नामानि श्रीहेमाऽऽचार्यकृतश्रीऋषभदेवचरित्रादवगन्तव्यानीति। (ते विज्जाहरेत्यादि) तानि विद्याधरनगराणि ऋद्धानि भवनाऽऽदिभिवृद्धिमुपगतानि स्तिभितानि निर्भयत्वेन स्थिराणि समृद्धानि धनधान्याऽऽदियुक्तानि। ततः पदत्रयस्य कर्मधारयः। तथा प्रमुदिता हृष्टाः प्रमोदवस्तूनां सद्भावाद् जना नगरीवास्तव्यलोका जानपदाश्च जनपदभवास्तत्राऽऽयाताः सन्तो येषु तानि तथा / यावत्करणात् सर्वोऽपि प्रथमोपाङ्गगतश्चम्पावर्णको ग्राह्यः / (जं०१ वक्ष०) सच इत्यम्मूलम्-"तेणं कालेणं ते णं समएणं चंपा नाम नयरी होत्था, रिद्धत्थिनियसमिद्धा पमुइयजणजाणवया आइण्णजणमणुस्सा हलसयसहस्ससंकिट्ठविकिट्ठलट्ठपण्णत्तसेउसीमा कुक्कुडसंडेअगामपउरा उच्छूजवसालिकलिया गोमहिसगवेलगप्पभूता आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया खेमाणिरुवद्दवा सुभिक्खा वीसत्थसुहावासा अणेगकोडिकुडुबियाइण्णणिव्यसुहा णडणट्टगजल्लमल्लमुट्ठियवलंबयकहगपवगलासगआइक्खगलंखमखतूणइल्लतुबवीणियअणेगतालायराणुचरिया आरामुज्जाणअगडतलागदीहियवप्पिणिगुणोववेया नंदणवणसन्निभप्पगासा।" अस्य व्याख्या-इह च बहवो वाचनाभेदा दृश्यन्ते, तेषु च यमे वाऽवभोत्स्यामहे तमेव व्याख्यास्यामः, शेषास्तुमतिमता स्वयमूह्याः। तत्रयोऽय' णं शब्दः स वाक्यालङ्कारार्थः, 'ते' इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो, यथा 'करेमि भंते!' इत्यादिषु, ततोऽयं वाक्यार्थो जातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी। अथ कालसमययोः कः प्रतिविशेषः? उच्यते-काल इति सामान्यकालो वर्तमानावसर्पिण्याश्चतुर्थविभागलक्षणः समयस्तु तद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव / अथवा-तृतीयैवेयं, ततश्च तेन कालेन अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभूतेन हेतुना चम्पा नाम नयरी (होत्थ त्ति) अभवद्, आसीदित्यर्थः / ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले? तत्कथमुक्तमासीदिति? उच्यते-अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा तदानीं नास्तीति। 'रिद्धस्थिमियसमिद्धा' ऋद्धाभवनाऽऽदिभिवृद्धिमुपगता, स्तिमिताभयवर्जितत्वेन स्थिरा, समृद्धाधनधान्याऽऽदियुक्ता, ततः पदत्रयस्य कर्मधारयः। 'पमुइय जणजाणवया' प्रमुदिताः- हृष्टाः प्रमोदकारणवस्तूनां सद्भावात्, जनाः-नगरीवास्तव्यलोका जानपदाचजनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा, पा