________________ भरह 1412 - अभिधानराजेन्द्रः - भाग 5 भरह ठान्तरे- ‘पमुइयजणुज्जाणजणवया / ' तत्र प्रमुदितजनान्युद्यानानि जनपदाश्च यस्यां सा तथा / 'आइण्णजणमणुस्सा' मनुष्यजनेनाऽ5कीर्णासङ्कीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्ताऽऽदिदर्शनादाकीर्णजनमनुष्येत्युक्तम्, आकीर्णो वा गुणव्याप्तो मनुष्यजनो यस्यां सा तथा / "हलसयसहस्ससंकिट्टविकिट्ठलट्टपण्णत्तसेउसीमा'' हलानालाङ्गलाना शतैः सहपैश्च शतसहालक्षैः संकृष्टाविलिखिता विकृष्टंदूरं यावद् अविकृष्टा वा-आसन्नालष्टामनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात्। "पण्णत्त ति" योग्यीकृता बीजयपनस्य सेतुसीमा मार्गसीमा यस्याः सा तथा, अथवा-संकृष्टाऽऽदिविशेषणानि सेतूनिकुल्याजलसेक-क्षेत्राणि सीमासु यस्याः सा तथा, अथवा-हलशतसहस्त्राणां संकृष्टन-संकषणेन विकृष्टाः-दूरवर्त्तिन्यो लष्टाः प्रज्ञपिताः-कथिताः सेतुसीमा यस्याः सा तथा, अनेन तज्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तम् / "कुक्कुडसंडेयगामपउरा" कुक्कुटाः- ताम्रचूडाः षण्डेयाः- षण्डपुत्रकाः तेषां ग्राभाः- समूहास्ते प्रचुरा:-प्रभूताः यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुक्कुटान् पोषयति षण्डांश्व करोतीति। "उच्छुजवसालिकलिया।'' पाठान्तरेण"उच्छुजवसालिमालिणीया।" एतद्व्याप्तेत्यर्थः, अनेन च जनप्रमोदकारणमुक्तम्, न ह्येवंप्रकारवस्त्वभावे प्रमोदो जनस्य स्यादिति / "गोमहिसगवेल-गप्पभूया।'' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम्, गवेलकाः-डरभ्राः। "आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला / " आकारवन्तिसुन्दराऽऽकाराणि आकारचित्राणि वा यानि चैत्यानिदेवताऽऽयतनानि युवतीनां च-तरुणीनां पण्यतरुणीना-मिति हृदयं, यानि विविधानि सन्निविष्टानिसन्निवेशनानि पाटकास्तानि बहुलानिबहूनि यस्यां सा तथा,"अरिहंत-चेइयजणवयविसण्णिविट्ठबहुले त्ति'' पाठान्तरं, तत्रार्हचैत्यानां जनानां वतिनां च विविधानि यानि सन्निविष्टानिपाटकास्तैर्बहुलेति विग्रहः। 'सुयागचित्तचेइयजूवसण्णिविट्ठब-हुला'' इति च पाठान्तरम्, तत्र च सुयागाः-शोभनयज्ञाः चित्रचैत्यानिप्रतीतानि, यूपचितयोयज्ञेषु यूपचयनानि, द्यूतानि वा क्रीडाविशेषाश्चितयः तेषां सन्निविष्टानिनिवेशास्तैर्बहुला या सा तथा / "उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया।" उत्कोटाउत्कोचा लञ्चेत्यर्थः। तया ये व्यवहरन्ति ते ओत्कोटिकाः गात्रात्- मनुष्यशरीरावयवविशेषात् कट्यादेः सकाशाद् ग्रन्थिम्-कार्षापणाऽऽदिपुट्टलिका भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदकाः। "उक्कोडियगाहगंठिभेय" इति च पाठान्तरं व्यक्त, भटाः-चारभटाः बलात्कारप्रवृत्तयः, तस्कराःतदेव-चौर्य कुर्वन्ती-त्येवंशीलाः, खण्डरक्षाः-दण्डपाशिकाःशुल्कपाला वा, एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणाममावमाह / "खेमा'' अशिवाभावात् / "निरुवद्दवा'' निरुपद्रवा, अविद्यमानराजादिकृतोपद्रवेत्यर्थः / "सुभिक्खा'' सुष्ठु मनोज्ञा प्रचुरा भिक्षा / भिक्षुकाणां यस्यां सा सुभिक्षा / अत एव पाषण्डिना गृहस्थानां च "वीसत्थसुहावासा'' विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखःसुखस्वरूपः शुभो वा आवासो यस्यां सा तथा / 'अणेगकोडिकुडुम्बियाइण्णनिब्बुयसुहा।"अनेकाः कोटयो द्रव्यसङ्घयानां स्वरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः- कुटुम्बिभिराकीसडकुला या सा तथा, सा चासो निर्वृता च-सन्तुष्टजनयोगात्सन्तोषवतीति कर्मधारयः, अत एव सा चासौ सुखा च शुभा वेति कर्मधारयः / 'नइनट्टगजलमलमुट्ठियवेलम्बयकहगपवगलासगआइक्खगलंखमंखतूणइज्जतुम्बवीणियअणेगतालायराऽणुचरिया / ' नटाः- नाटकानां नाटयितारो नर्तका ये नृत्यन्ति अङ्किल्ला इत्येके, जल्लाः-वरत्राखेलकाः, राज्ञः स्तोत्रपाटका इत्यन्ये, मल्ला:-प्रतीताः, मौष्टिकामल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः-विदूषकाः, कथकाः प्रतीताः, प्लवका ये उप्पलवन्ते नद्यादिकं वा तरन्ति, लासकाः- ये रासकान् गायन्ति, जयशब्दप्रयोक्तारोवा, भाण्डा इत्यर्थः, आख्यायकाः-ये शुभाशुभमाख्यान्ति, ललाः-महावंशानखेलकाः, मङ्खाः-चित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तूणाऽभिधानवाद्यविशेषवन्तः, तुम्बवीणिकाः-वीणावादकाः, अनेके च ये तालाचराः- तालादानेन प्रेक्षाकारिणस्तैरनुचरिताआसेविता या सा तथा।''आरामुज्जाणअगडतलायदीहियवप्पिणिगुणोववेया।" आरमन्ति येषु माधवीलतागृहाऽऽदिषु दम्पत्यादीनि क्रीडन्ति आरामाः, उद्यानानिपुष्पाऽऽदिमद् वृक्षसकुलान्युत्सवाऽऽदौ बहुजनभोग्यानि, "अगड त्ति' अवटाः-कूपाः तडागानि, प्रतीतानि दीर्घिकासारणी, "वप्पिणि ति" केदाराः, एतेषां ये गुणा रम्यताऽऽदयस्तैरुपपेतायुक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवति। क्वचित्पठ्यते- "नंदणवणसन्निभप्पगासा।'' नन्दनवनंमेरोद्धितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा, इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति। मूलम् - "उव्विद्धविउलगंभीरखायफलिहा चक्कगयभुसुंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवट्टरइयसंठियविरायमाणा अट्टालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा छेयायरियरझ्यदढफलिहइंदकीला।" अस्य व्याख्या- "उव्विद्धविउलगंभीरखायफलिहा'' उद्विद्धम् ऊर्द्ध विपुलंविस्तीर्णगम्भीरम् - अलब्धमध्यंखातम्-उपरि विस्तीणम् अधः सङ्कटं परिखाच-अध उपरिच समखातरूपा यस्यांसा।तथा- 'चायभुसुंढिओरोहसयग्धिजमलकवाडधणदुप्पवेसा!' चक्राणि-रथाङ्गानि अरघट्टाङ्गानि वा, गदाः-प्रहरणविशेषाः, भुसुण्डयोऽप्येवम्, अवरोधः-प्रतोलिद्वारेष्ववान्तरप्राकारः सम्भाव्यते, शतघ्न्योमहायष्टयो महाशिला वा या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां घ्नन्तीति, यमलानिसमसंस्थितद्वयरूपाणि यानि कपाटानिधनानि चनिश्छिद्राणि तैर्दुष्प्रवेशाया सातथा। "धणुकुडिलवंकपागारपरिक्खित्ता।" धनुः कुटिलंकुटिलधनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता य सा तथा। "कविसीसयवट्टरइयसंठिययिरायमाणा।" कपिशीर्षकैर्वृत्तरचितैः वर्तुलकृतैः संस्थितैः-विशिष्टसंस्था