________________ भरह 1408 - अमिधानराजेन्द्रः - भाग 5 भरह टावयवत्वनाऽऽत्मकशरीराऽऽकृतयो येषां ते तथा, बहवो ना नाविधा उच्चत्वस्य शरीरोच्छ्रयस्य पर्यवाः पञ्चधनुः शतसप्तहस्तमानाऽऽदिका विशेषा येषां ते तथा / बहव आयुषः पूर्वकोटिवर्षशताऽऽदिकाः पर्यवा विशेषा येषां ते तथा, बहूनि वर्षाणि आयुः पालयन्ति, पालयित्वा. अपिः संभावनायाम्। एके केचन निरयगतिगामिनः-नरकगतिगन्तारः एवमप्येकके तिर्यगतिगामिनः, अप्येकके मनुजगतिगामिनः, अप्येकके सिद्ध्यन्तिसकलकर्मक्षयकरणेन निष्ठितार्था भवन्ति, बुध्यन्ते केवलाऽऽलोकेन वस्तुतत्त्वं जानन्ति, मुच्यन्ते भवोपग्राहिकर्माशेभ्यः, परिनिर्वान्तिकर्मकृततापविरहाच्छीतीभवन्ति, किमुक्तं भवति?सर्वदुःखानामन्तं कुर्वन्ति, इदं च सर्वं स्वरूपकथनम् अरकविशेषापेक्षया नानाजीवानपेक्ष्य मन्तव्यम्, अन्यथा सुषमसुषमाऽऽदावनुपपन्नं स्यात्। अथाऽस्य सीमाकारी वैतादयगिरिः क्वारतीति पृच्छतिकहि णं भंते ! जंबुद्दीवे दीवे भरहे वासे वेयड्डे णामं पव्वए पण्णत्ते? गोयमा ! उत्तरड्डमरहवासस्स दाहिजेणं दाहिणभरहवासस्स उत्तरेणं पुरच्छिमलवणसमुहस्स पच्चच्छिमेणं पञ्चच्छिमलवणसमुदस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे भरहे वासे बेअड्डे णाम पव्वए पण्णत्ते, पाईणपडीणायए उदीण-दाहिणवित्थिपणे दुहालवणसमुई पुढे पुरच्छिमिल्लाए कोडीए पुरच्छि मिलं लवणसमुदं पुढे पच्चच्छिमिल्लाए कोडीए पच्चच्छिमिलं लवणसमुदं पुढे पणवीसं जोअणाई उद्धं उच्चत्तेणं छस्सकोसाई जोअणाई उव्वेहेणं पण्णासं ५०जोअणाई विक्खंभेणं, तस्स बाहा पुरच्छिमपच्चच्छिमेणं चत्तारि अट्ठासीए जोयणसए सोलस य एगणवीसइभागे जोअणस्स अद्धभागं च आयामेणं पण्णत्ता। कहिणं भंते ! इत्यादि / इदं प्रायः पूर्वसूत्रेण समयमकत्वात्कण्ठ्यम्। नवरम् उत्तरार्द्धभरतादृक्षिणस्यामित्यादिदिक्खरूपं गुरुजनदर्शितजम्बूद्वीपपट्टाऽऽदेः ज्ञेयम्, तथा पञ्चविंशतियोजनान्यू॰चत्वेन षट्सक्रोशानि योजनान्युद्वेधेन-भूमिप्रवेशेन, मेरुवर्जसमयक्षेत्रवर्तिगिरीणा निजनिजोत्सेधचतुर्थांशेन भूम्यवगाह-स्योक्तत्वात्, योजनपञ्चविंशतेश्चतुर्थाशे एतावत एव लाभात्, तथा-पञ्चाशद्योजनाति विष्कम्मेनेति। अत्र प्रस्तावादस्य शरः प्रदर्श्यते- स चाष्टाशीत्यधिके वे शते योजनानां कलात्रयं च-२८८३/१६ / अस्य च करणंदक्षिणभरतार्द्धशरे 238 / 3/ 16 इत्येवं रूपे वैताध्यपृथुत्वे पञ्चाशद् 50 योजनरूपे प्रक्षिप्ते यथोक्तं मानं भवति / आह- दक्षिणभरतार्द्धवदस्यापि विष्कम्भ एव शरोऽस्तु, मैवं, खण्डमण्डलक्षेत्रे आरोपितज्यधनुराकृतिः प्रादुर्भवति, तत्र चाऽऽयामपरिज्ञानाय जीवापरिक्षेपप्रकर्षपरिज्ञानाय धनुःपृष्ट, व्यासप्रकर्षपरिज्ञानाय शरः, सच धनुः पृष्ठमध्यत एवास्य भवति, प्रस्तुतगिरेश्च केवलस्य धनुराकृतेरभावेन धनुः पृष्ठस्याप्यभावात् शरोऽपि न सम्भवति, तेन दक्षिणधनुःपृष्ठेन सहैवास्य धनुः पृष्ठवस्वमिति प्राच्शरमिश्रितएवास्य विष्कम्भः शरो भवति, अन्यथा शरव्यतिरिक्तस्थाने न्यूनाधिकत्वेन प्रकृष्टव्यासप्राप्तेरेवानुपपत्तेरित्यलं प्रसङ्गेना इदमेव शरकरणं दक्षिणविदेहार्द्ध यावद्रोद्ध्यम्। एवमुत्तरतोऽपि ऐरावतवैताढ्यतः प्रारभ्योत्तरविदेहार्द्ध यावदिति। अथास्य बाहे आह-(तस्स बाह त्ति) तस्य-वैताव्यस्य बाहा दक्षिणोत्तरायता वक्रा आकाशप्रदेशपङ्क्तिः / (पुरच्छिमपच्च-च्छिमेण ति) समाहारात् पूर्वपिश्वमयोरेकै का अष्टाशीत्यधिकानि चत्वारि योजनशतानि षोडश चैकोनविंशतिभागान् योजनस्य एकस्यैकोनविंशतिभागस्य चार्द्धम् - अर्द्धकला, योजनस्याष्टत्रिंशत्तमं भागमित्यर्थः / आयामेन दैध्येण प्रज्ञप्ता। ऋजुबाहायास्तु पर्वतमध्यवर्तिन्याः पूर्वापरायताया मानं क्षेत्रविचाराऽऽदिभ्योऽवसेयम् / अत्र करणे यथा- गुरुधनुः पृष्ठालघुधनुः पृष्ठं विशोध्य शेषस्यार्द्ध कृते बाहा, यथा गुरुधनुः पृष्ठ वैताढ्यसत्कं कलारूपम् 204132 अस्माल्लघुधनुः पृष्ठ कलारूपम् 185555 शोध्यते, जातम् 19577, अर्द्ध कृते कलाः 6288, तासामेकोनविंशत्या भागे योजनानि 488 कलाः 16 कलार्द्ध चेति। एवं यावद्दक्षिणविदेहार्द्धबाहा, एवमुत्तरत ऐरावतवैताढ्यबाहा, यावदुत्तरविदेहाड़बाहा तावदिदं करणं भावनीयम्। अथाऽस्य जीवामाहतस्स जीवा उत्तरेण पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरच्छिमिलाए कोडीए पुरच्छिमिलं लवणसमुदं पुट्ठा पञ्चच्छिमिल्लाए कोडीए पञ्चच्छिमिलं लवणसमुदं पुट्ठा दस जोअणसहस्साइं सत्त य वीसे जोअणसए दुवालस य एगूणवीसइभागे जोअणस्स आयामेणं तीसे धणुपुढे दाहिणेणं दस जोअणसहस्साई सत्त य तेआले जोअणसए पण्णरस य एगूणवीसहभागे जोयणस्स परिक्खेवेणंरुअगसंठाणसंठिए सव्वरययामए अच्छे सण्हे लट्टे घटे मढे णीरए णिम्मले णिप्पंके णिवंकडच्छाए सप्पभे सस्सिरीए पासाईए दरिसणिज्जे अभिरूपे पडिरूवे उभओ पासिं दोहिं पउमववरेझ्याहिं दोहि अवणसंडेहिं सवओ समंता संपरिक्खित्ते / ताओ णं पउमवरवेइयाओ अद्धजोअणं उद्धं उच्चत्तेणं पंच धनुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ भाणियव्वो, ते णं वणसंडा देसूणाई दो जोअणाई विक्खंभेणं पउमवरवेइआसमगा आयामेणं किण्हा किण्होभासा०जाव वण्णओ। तस्य-वैतादयस्य जीवा उत्तरेण इत्यादि प्राग्वत् / नवरं दशयोजनसहस्राणि सप्त च विशानिविंशत्यधिकानि योजनशतानि द्वादश चैकोनविंशतिभागान् योजनस्याऽऽयामेनेति / अत्र करणभावना यथापूर्वोक्तकरणक्रमेण जम्बूद्वीपव्यासः कलारूप: 16 शून्यः 5 अस्माद्वैताळ्यशरकलाना 5475 शोधने जातम् 1864 525 अस्मिन् वैताढ्यशरे 5475 गुणेजातम् 10372524375 तस्मिन् पुनश्चतुर्गुणे जातम्