________________ भरह 1407 - अभिधानराजेन्द्रः - भाग 5 भरह - भिर्गुण्यते, इत्थं ससंस्कारो राशिर्विवक्षितक्षेत्रस्य जीवावर्ग इत्युच्यते। अस्माच्च मूले गृह्यमाणे यल्लभ्यते तज्जीवाकलामानं तस्य चैकोनविंशत्या भागे योजनराशिः, शेषश्च कलाराशिः। तत्र जीयाऽऽदिपरिज्ञानं चेषुपरिमाणपरिज्ञानाविनाभावि, तच न परिपूर्णयोजनसंख्याक किं तु / कलाभिः कृत्वा सातिरेकमिति विवक्षिततत्क्षेत्राऽऽदेरिषुः, सवर्णनार्थ कलीक्रियते, स चकलीकृतादेव जम्बूद्वीपव्यासात्सुखेन शोधनीय इति मण्डलक्षेत्रव्यासोऽपि १शून्य 5 रूपः कलीकरणायैकोनविंशत्या गुण्यते, जातः 16 शून्यः 5, ततो दक्षिणभरताऽर्द्धषोः साष्टत्रिंशद्विशतयोजनमित्यस्य कलीकृतस्य प्रक्षिप्तोपरितनकलात्रिकस्य 4525 रूपस्य शोधने जातः 1865475, ततश्च दक्षिणाद्धेषुणा 4525 रूपेण गुण्यते, जातः 8577024375, अयं चतुर्गुणः 34308067500 एष दक्षिणभरतार्द्धस्य जीवावर्गः, एतस्य वर्गमूलाऽऽनयनेन लब्धाः कलाः 185224, शेष कलांशाः 167324 छेदराशिरधः 370448 लब्धकलानां 16 भागे योजनः 6747 कलाः 12 इयं दक्षिणभरतार्द्धजीवा। एवं वैताळ्याऽऽदिजीवास्वपि भाव्यम्, यावद्दाक्षिणात्यविदेहार्द्धजीवा, एवमुत्तरैरावतार्द्धजीवा यावदुत्तरार्द्धविदेहजीवाऽपीति / अथ दक्षिणभरतार्द्धस्य धनुःपृष्ठं निरूपयति- (तीसे धणुपुढे इत्यादि) तस्या अनन्तरोक्ताया जीयाया दक्षिणतोदक्षिणस्यां दिशि, लवणदिशीत्यर्थः / धनुःपृष्ठमधिकारात् दक्षिणभरतार्द्धस्येति ।यद्वा-प्राकृतत्वाल्लिङ्गव्यत्यये (तीसे इति) तस्य दक्षिणार्द्धभरतस्येति व्याख्येयं, नव योजनसहस्राणि षट्षष्ट्यधिकानि सप्त च योजनशतानि एक चैकोनविंशतिभाग योजनस्य किञ्चिद्विशेषाधिकं परिक्षेपेण-परिधिना प्रज्ञप्तम् / अत्र करणभावना यथाविवक्षितेषौ विवक्षितेषुगुणे पुनः षशुणे विवक्षितजीवावर्गयुतेच यो राशिः स धनुः पृष्ठवर्ग इति व्यपदिश्यते, तस्माच वर्गमूलेन लब्धानां कलानाम् 16 भागे लब्धं योजनानि, अवशिष्ट कलाः। तथाहि- दक्षिणभरताद्धेषुकलाः 4525, अस्य वर्गः 20475625, अयंषड्गुणः 122853750 / अथ दक्षिणभरतार्द्धस्य जीवावर्गः 34308067500 / अनयोर्युतिः 34430651250 धनुःपृष्ठवर्गोऽयम् / अस्य वर्गमूले लब्धं कलाः 185555 शेषकलांशाः 263225 छेदकराशिरधस्तात् 371210 कलानां 16 भागे योजनं 9766 कला 1 ये च वर्गमूलावशिष्टाः कलाशास्तद्विवक्षया च सूत्रकृता कलाया विशेषाधिकत्वमभ्यधायि / आह-एवं जीवाकरणेऽपिवर्गमूलावशिष्टकलांशानां सद्भावात् तत्राप्युक्तकलानां साधिकल्वप्रतिपादनं न्यायप्राप्तं कथं नोक्तमिति? उच्यतेसूत्रगतेवैचित्र्यादविवक्षितत्वात् विवक्षाप्रधानानि हि सूत्राणीति / एवं वैतायाऽऽदिधनुः पृष्ठेष्वपि भाव्यं यावद्दाक्षिणात्यविदेहार्द्धधनुःपृष्ठम्। एवमुत्तरत उत्तरैरावतार्द्धधनुःपृष्ठ यावदुत्तरार्द्धविदेहधनुःपृष्ठमपीति, अत्र च दक्षिणभरतार्द्ध बाहाया असंभवः। अथदक्षिणभरतार्द्धस्वरूपं पृच्छन्निदमाहदाहिणवभरहस्स णं भंते ! वासस्स केरिसए आयारभावपडोयारे पण्णत्ते? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते। से जहाणामए आलिंगपुक्खरेइ वा० जाव णाणाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोभिए। तं जहा-कित्तिमेहिं चेव, अकित्तिमेहिं चेव। (दाहिणड्डेत्यादि) दक्षिणार्द्धभरतस्य भगवन् ! कीदृशः आकारस्यस्वरूपस्य भावाः पर्यायास्तेषां प्रत्यवतारः प्रादुर्भावः प्रज्ञप्तः, कीदृशः प्रस्तुतक्षेत्रस्य स्वरूपविशेष? इति भावः / भगवानाह- गौतम! भरतस्य बहुसमरमणीयो भूमिभागः प्रज्ञाप्तः / ‘से जहाणामए आलिंगपुक्खरेइ वेत्यादि' को बहुसमत्ववर्णकः सर्वोऽपि ग्राह्यः यावन्नानाविधपञ्चवर्णमणिभिस्तृणैश्चोपशोभितः। तद्यथेत्युपदर्शन। किंविशिष्टर्मणिभिस्तृणैश्च कृत्रिमैः क्रमेण शिल्पिकर्षकाऽऽदिप्रयोगनिष्पन्नः अकृत्रिमैः क्रमाद्रत्नखानिसंभूतानुपसंभूतैरुपशोभितो दक्षिणार्द्धभरतस्य भूमिभागः, अनेनास्य कर्मभूमित्वमभाणि। अन्यथा- हैमवताऽऽद्यकर्मभूमिष्वपि इदं विशेषणमकथयिष्यदिति। चकारी समुच्चयार्थी एवकाराववधारणार्थो। अथवा-चैवेत्यखण्डमव्ययं समुच्चयार्थम्, अपिचेत्यादिवत्। ननु अनेन सूत्रेण वक्ष्यमाणेनोत्तरभरतार्द्धवर्णकसूत्रेण च सह "खाणुबहुले विसमबहुले कंटगबहुले'' इत्यादिसामान्य भरतवर्णकसूत्रं विरुद्ध्यति। न चैते सूत्रे अरकविशेषापेक्षे, सामान्यभरतसूत्र तुप्रज्ञापककालापेक्षमिति न विरोध इति वाच्य मणीनां तृणानां च कृत्रिमत्वाकृत्रिमत्वमणनेनानयोरपि प्रज्ञापककालीनत्वस्यैवौचित्यात्, कृत्रिममणितृणानां तत्रैव संभवात्, प्रज्ञापककालवावसर्पिण्यां तृतीयारकप्रान्तादारभ्य वर्षशतोनदुःषमारकं यावदिति चेत् / उच्यते- अत्र "खाणुबहुले विसमबहुले" इत्यादिसूत्रस्य बाहुल्यापेक्षयोक्तत्वेन क्वचिद्देशविशेषे पुरुषविशेषस्य पुण्यफलभोगार्थमुपसंपद्यमानं भूमेबहुसभरमणीयत्वाऽऽदिकं न विरुयति, भोजकवैचित्र्ये भोग्यवैचित्र्यस्य नियतत्वात्। अनेनास्यैकान्तशुभैकान्ताशुभमिश्रलक्षणकालत्रयाऽऽधारकत्वमसूचि, एकान्तशुभे हि काले सर्वे क्षेत्रभावाः शुभाएव, एकान्ताशुभे हि सर्वे अशुभा एव, मिश्रे तु क्वचिच्छुभाः क्वचिदशुभाः, अत एव पञ्चमारकाद् यावद् भूमिभागवर्णक बहुसमरमणीयत्वाऽऽदिकमेव सूत्रकारेणाभ्यधायि, षष्ठेऽरके तु एकान्ताशुभेन तथेति सर्व सुस्थम्। अथ तत्रैव मनुष्यस्वरूपं पृच्छतिदाहिणड्डभरहे णं भंते ! वासे मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते? गोयमा! तेणं मणुआ बहुसंघयणा बहुसंठाणा बहुउच्चत्तपञ्जवा बहुआउपजवा बहूई वासाई आउयं पालेंति, पालित्ता अप्पेगइया णिरयगामी अप्पेगइया तिरियगामी अप्पेगइया मणुयगामी अप्पेगइया देवगामीअप्पेगइया सिज्झंति, बुज्झति, मुचंति, परिणिव्वायंति, सव्वदुक्खाणमंतं करेंति। (सूत्र-११) प्रश्नसूत्रं प्राग्वत् / निर्वचनसूत्रे भगवानाह- गौतम ! येषां स्वरूपं भवता जिज्ञासितं ते मनुजा बहूनि वज्र ऋषभनाराचाऽऽदीनि संहननानि वपुर्दृढीकारकारणास्थिनिचयाऽऽत्मकानि येषां ते तथा, तथा बहूनि समचतुरस्राऽऽदीनि संस्थानानि विशि