SearchBrowseAboutContactDonate
Page Preview
Page 1414
Loading...
Download File
Download File
Page Text
________________ भरह 1406 - अभिधानराजेन्द्रः - भाग 5 भरह ता ष्यते, त्रिधा पूर्वकोटिधनुःपृष्ठापरकोटिभिलवणसमुद्रं क्रमेण पूर्वदक्षिणाऽपरलवणसुद्रावयवंस्पृष्टधातूनामनेकार्थत्वाद् प्राप्तं, ग्रामप्राप्त इत्यादिवत् कर्तरि क्तप्रत्ययः / अयमर्थःपूर्वकोट्या पूर्वलवणसमुद्र धुनःपृष्ठेन दक्षिणलवणसमुद्रम्, अपरकोट्या पश्चिमलवणसमुद्रं संस्पृश्य स्थितमिति। अथेदमेव षट्खण्डविभजनद्वारा विशिनष्टिगङ्गासिन्धुभ्या महानदीभ्यां वैताढ्येन च पर्वतेन षट्सङ्ख्या भागाः षड्भागास्तैर्विभक्तम् / अयमर्थःअनन्तरोदितैस्त्रिभिर्दक्षिणोत्तरयोः प्रत्येकं खण्डत्रयकरणेन भरतस्य षट् खण्डानि कृतानीति। अथ यदि जम्बूद्वीपैकदेशभूतं भरतं. तर्हि विष्कम्भतः तस्य कतितमे भागे तदित्याह-(जबुद्दीवेत्यादि) जम्बूद्वीपद्वीपस्यजम्बूद्वीपविष्कम्भस्य नवत्यधिकशततमो वो भागस्तस्मिन् इति / अथ नवत्यधिकशततभागे कियन्ति योजनानीत्याह-पञ्च षडिशत्यधिकानि योजनशतानि, षट् च योजनस्यैकोनविंशतिभागान्। कोऽर्थः? यादृशैरेकोनविंशतिभागैः समुदितैोजनं भवति तादृशान् षड्भागान् इति विष्कभेनविस्तारेण शरापरपर्यायणेति। अत्राङ्कस्थापना यथा-५२६।६/१८अयं भावः-जम्बूद्वीपविस्तारस्यलक्षयोजनरूपस्य नवत्यधिकशतेन भागे हृते लब्धं५२६ योजनानि 6/18 / एतावानेव च भरतविस्तारः। ननु भाजकराशिनवत्यधिकशतरूपः, षड्भागास्तु योजनकोनविंशतिकलारूपा इति विसदृशमिव प्रतिभाति / उच्यतेगणितनिपुणानां सर्व सुज्ञानमेव। तथाहि-जम्बूद्वीप-व्यासस्य योजनलक्ष 100000 मितस्य नवत्यधिकशतभक्तस्यावशिष्टः षष्टिरूपो राशिर्भागदानाऽसमर्थ इति भाज्यभाजकराश्योर्दशभिरपवर्ते जाता भाज्यराशी षट् 6, भाजकराशौ 16 इति सर्वं सुस्थम्। ननुनवत्यधिकशतरूपभाजकाङ्कोत्पत्तौ किं बीजमिति? उच्यते-एको भागोभरतस्य, द्वौ भागौ हिमवतः, पूर्वक्षेत्रतो द्विगुणत्वात्, चत्वारो हैमवतक्षेत्रस्य, पूर्ववर्षधरतो द्विगुणत्वात्, अष्टौ महाहिभवतः, पूर्वक्षेत्रतो द्विगुणत्वात्, षोडश हरिवर्षस्य, पूर्ववर्षधरतो द्विगुणत्वात्, द्वात्रिंशन्निषधस्य, पूर्वक्षेत्रतो द्विगुणत्वात् सर्वे मिलिताः 63; एते मेरोदक्षिणतः, तथोत्तरतोऽपि 63. विदेहवर्ष तु 64 भागाः सर्वाग्रण; एतैर्भागैदक्षिणोत्तरतो जम्बूद्वीपयोजनलक्षं पूरितं भवति, तत एतावान् भाजकाङ्क: 160 नवत्यधिक शतं भागानामिति / अथ यदुक्तम्- 'गंगासिंधूहि महाणईहिं वेयड्डेण य पव्वएणं छब्भागपविभत्ते' इत्यत्र वैतादयस्वरूपप्ररूपणाय सूत्रमाह''भरहस्स णं'' इत्यादि। भरतस्य वर्षस्य बहुमध्यदेशभागे वैजयन्तद्वारात् त्रिकालाधिकसाष्टत्रिंशद्विशतयोजनातिक्रमे पञ्चाशद्योजनक्षेत्रखण्डे, अत्र वैताढ्यो नामपर्वतः प्रज्ञप्तः। यः ‘णमिति' प्राग्वत्। भरतं वर्ष द्विधा विभजन् २समांशतया चक्रवर्तिकाले च समस्वामिकतया तथाऽन्यैरपि प्रकारैर्द्वयोरपि तुल्यताद्योतनार्थमिति। तत्राऽऽदावासन्नत्वेन दक्षिणार्द्धभरतं वास्तीति प्रश्नयतिकहिणं भंते ! जंबुद्दीवे दीवे दाहिणड्वभरहे णामं वासे पण्णत्ते ? | गोयमा ! वेयड्डस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरच्छिमलवणसमुहस्स पञ्चच्छिमेणं पञ्चच्छिमलवणमुद्दस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे दाहिणड्डमरहे णाम वासे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे अद्धचंद संठाणसंठिए तिहा लवणसमुदं पुढे गंगासिंधूहिं महाणईहिं तिभागपविभत्ते दोणि अद्वतीसे जोअणसए तिण्णि अ एगूणवीसइभागे जोयणस्स विक्खंभेणं / / इदं च सूत्र पूर्वसूत्रेण समगमकतया विवृतप्राय, नवरम् अर्द्धचन्द्रसंस्थानसंस्थितत्वं तु दक्षिणभरतार्द्धस्य जम्बूद्वीपपट्टाऽदावालेखदर्शनाद् व्यक्तमेव / तथा त्रिसंख्या भागास्त्रिभागास्तैः प्रविभक्त, तत्र पौरस्त्यो भागो गङ्गया पूर्वसमुद्रं मिलन्त्या कृतः, पाश्चात्यो भागस्तु सिन्ध्वा पश्चिमसमुद्रं मिलन्त्या कृतः, मध्यमभागस्तुगङ्गासिन्धूभ्यां कृत इति द्वे अष्टत्रिंशदधिके योजनशते, त्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन / किमुक्तं भवति? षट्कलाधिकषइविंशपञ्चशतयोजन 5226/16 भरतविस्तारद्वैताढ्यविस्तारे 50 योजन मिते शोधितेऽवशिष्ट चत्वारि योजनशतानि षट्सप्तत्यधिकानि षट् च कलाः 476 / 6/8 एतदर्द्ध द्वेयोजनानां शते अष्टत्रिंशदधिके तिस्रश्चापराः कलाः 238 / 3/18 इत्येवं रूपं यथोक्तं मानं भवति, एतेनास्य शरप्ररूपणा कृता, शरविष्कम्भयोरभेदादिति। अथ जीवासूत्रमाहतस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुई पुट्ठा पुरच्छिमिल्लाए कोडीए पुरच्छिमिल्लं लवणसमुदं पुट्ठा पञ्चच्छिमिल्लाए कोडीएपञ्चच्छिमिल्लं लवणसमुदं पुट्ठा नवजोयणसहस्साई सत्त य अडयाले जोयणसए दुवालसए एगूणवीसइभाए जोयणस्स आयामेणं तीसे धणुपुढे दाहिणेणं णवजोयणसहस्साई सत्तछावढे जोयणसए य इक्कं च एगूणवीसइभागे जोयणस्स किंचि विसेसाहिअंपरिक्खेवेणं पण्णत्ते / (तस्स जीवेत्यादि) तस्यदक्षिणार्द्धभरतस्य जीवेव जीवा ऋज्वीसवन्तिमप्रदेशपतिः ,उत्तरेण-उत्तरस्यां मेरुदिशीत्यर्थ' : प्राचीने पूर्वस्या प्रतीचीने अपरस्यां चायता आयामवती द्विधा लवणसमुद्रं स्पृष्टा क्षुप्तवती / इदमेवार्थ द्योतयति-(पुरच्छिमिल्लाए इति) पूर्वया कोट्याऽग्रभागेन पौरस्त्यं लवणसमुद्रावयव स्पृष्टा पाश्चात्यया कोट्या पाश्चात्यं लवणसमुद्रावयवं च स्पृष्टा नवयोजनसहस्राणि अष्टचत्वारिंशानि-अष्टचत्वारिंशदधिकानि सप्तयोजनशतानि द्वादश चैकोनविंशतिभागान् योजनस्याऽऽयामेन६७४८ / 12/16 यच्च समवायाङ्गसूत्रे-"दाहिणड्डभरहस्सणं जीवा पाईणपडीणायया दुहओ लवणसमुदं पुट्ठा णवजोअणसहस्साई आयामेण / " इत्युक्तं, तत्सूचामात्रत्वात् सूत्रस्य शेषविवक्षा न कृता; वृत्तिकारेण तु अयमवशिष्टराशिरूपो विशेषो गृहीत इति / अत्र सूत्रे अनुक्ताऽपि जीवाऽऽनयनेकरणभावना दर्श्यते। तथाहि जम्बूद्वीपच्यासाद विवक्षितक्षेत्रेषु शोध्यते, ततो यज्जातंतत्तेनैवेषुणा गुण्यते, ततः पुनश्चतु
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy