________________ भत्तपाणपडियाऽक्खिय 1365 - अभिधानराजेन्द्रः - भाग 5 भत्ति भवति, यत्पुनः परिज्ञारूपं तपोऽनशनं तत् यावत्कथिकम् / तत इत्वरतपः प्रतिपादनान्तरं यावत्कथिकतपः प्रतिपादनार्थमधिकृतसूत्रम्। अनेन सम्बन्धेनाऽऽयातस्यास्य (12 सूत्रस्य) व्याख्या प्राग्वत्, नवरं भक्तपाने प्रत्याख्यायेते, यया सा तथोक्ता, तान्तस्य परनिपातः सुखाऽऽदिदर्शनात्। अत्र भाष्यम्अटुं वा हेउं वा, समीणं विरहिते कहेमाणे। मुच्छाएऽतिपडिजा, कप्पति गहणं परिणाए / / 205 / / श्रमणीनामन्यासां साध्वीना विरहिते अशिवाऽऽदिभिः कारणैरभावे एकाकिन्या आर्यिकाया भक्तपानप्रत्याख्याताया अर्थ वा हेतुं वा कथयतो निर्ग्रन्थस्य यदि सा मूर्छयाऽतिपतेत्ततो मूर्छाऽतिपतितायास्तस्याः (परिणाए त्ति) परिज्ञायामनशने सति कल्पते ग्रहणम्, उपलक्षणत्वादवलम्बनं वा कर्तुम्। इदमेव व्याचष्टेगीतत्थीणं असती, सव्वाऽसतिए व कारणे परिण्णा। पाणगभत्तसमाही, कहणा आलोचधीरवरणं / / 206 / / गीतार्थानामार्यिकाणामसत्यभावे, यदि वा-अशिवाऽऽदेः कारणतः सर्वासामपि साध्वीनामभावे, एकाकिन्या जाताया परिज्ञाभक्तप्रत्याख्यानं कृतम्। ततस्तस्याः कृतभक्तपानप्रत्ख्यानायाः सीदन्त्या योग्यपानकप्रदानेन चरमेप्सितभक्लप्रदानेन च समाधिरुत्पादनीयः कथनीयम् यथाशक्ति स्वशरीरमनाबाधया कर्त्तव्यम् / तथा आलोचम्• आलोचनां साहापियत्वा धिक् कथमपि चिरजीवतेन भयमुत्पद्यते, यथा नाद्यापि म्रियते, किमपि भविष्यतीति न जानीम इति तस्या धीरापना कर्तव्या। जति वा ण णिव्वहेजा, असमाही वा वि तम्मि गच्छम्मि। करणिज्जं अणत्थ वि, ववहारो पच्छ सुद्धो वा // 207 / / यदि वा-प्रबलबुभुक्षावेदनीयोदयतया कृतभक्तपानप्रत्याख्याना सा निर्वहेत यावत्कथिकमनशन प्रतिपालयितुं क्षमा इति यावत् असमाधिर्वा तस्मिन् गच्छे तस्या वर्तते ततोऽन्यत्र नीत्वा यद्धचितं तत्तस्याः करणीयमित्यर्थ-यावदनशनपत्याख्यानभइविषयास्तस्या व्यवहारः-प्रायश्चित दातव्यम्। अथ स्वगच्छाऽसमाधिमाशेणान्यत्रा गता ततः सा मिथ्यादुष्कृतप्रदान मात्रेण शुद्धेति। बृ०६ उ०। व्य०। प्रव०। भत्तपाणपत्थयण न० (भक्तपानपथ्यदन) भक्तपानरूपं यत्पथ्यदनं, तत्तथा / भक्तपानरूपे शबले, भ०१५ श०। भत्तपाणविउस्सग्गपुं० (भक्तपानव्युत्सर्ग) द्रव्यव्युत्सर्गभेदे, औ०। भत्तपाणवोच्छेय पुं० (भक्तपानव्यवच्छेद) भक्तमशन-मोदनादि, पानं पेयमुदकाऽऽदि, तयोर्व्यवच्छेदो निषेधोऽप्रदानं भक्तपानव्यवच्छेदः / अन्नपानाप्रदाने तदात्मके स्थूलप्राणातिपातविरमणस्य प्रथमाऽणुव्रतस्य प्रथमेऽतिचारे, उपा०१ अ०। श्रा०। पञ्चा०11०। आव०। भक्तपानव्यवच्छेदोन कस्याऽपि कर्त्तव्यः, तीक्ष्णबुभुक्षोह्येवं सत मियते, स्वभोजनवेलायां तुज्वरिताऽऽदीन् विना नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत, भक्तपाननिषेधोऽपि सार्थकानर्थकभेदभिन्नो बन्धवत् द्रष्टव्यः / नवरं सापेक्षो रोगचिकित्सार्थं स्यात् अपराधकारिणि च वाचैव वदेदद्य ते भोजना ऽऽदि कारयेत्। ध०२ अधि०। भत्तपाणसंकिलेस पु० (भक्तपानसंक्लेश) भक्तपानाऽऽश्रितः। संक्लेशो भक्तपानसंक्लेशः। संक्लेशभेदे, स्था० 10 ठा० / भत्तव्वभरण न० (भर्तव्यभरण) भर्त्तव्याना भर्तु योग्याना मातृपितृगृहिण्यपत्यसमाश्रितस्वजनलोकतथाविधभृत्यप्रभृतीनां भरणं पोषणम् / भर्त्तव्यानां मातृपित्रादीनां पोषणे, तत्रा त्रीण्य वश्यं भर्त्तव्यानि, मातापितरौ, सती भार्या, अलब्धबलानि चापत्यानि। यत उत्कम् - "वृद्धौ च मातपितरौ, सती भार्या सुतान् शिशून्। अप्यकर्मशतं कृत्वा भर्त्तव्या मनुखवीत्॥१॥"ध०१ अधि०। भत्तवेयण न० (भक्तवेतन) भक्तं भोजनलक्षणं वेतनं मूल्यं भक्तवेतनम्। भोजनलक्षणे मूल्ये, उपा०७ अ०। भत्ता पु० (भर्तृ) पोषणकर्त्तरि, "पई भत्ता।'' पाइ० ना० 253 गाथा / भत्ति स्त्री० (भक्ति) भज क्तिन्। सेवायाम्, भक्तिर्विनयः सेवेति / षो०६ विव० / भक्तिरभिमुखगमनाऽऽसनप्रदानपर्युपास्त्य अलिबन्धानुव्रजनाऽदिलक्षणेति। प्रव० 148 द्वार।" अब्भुट्ठाणदंडग्गहणपायपुंछणासणप्पदाणगहणादीहिं सेवा जा सा भत्ती भवइ / " नि० चू०१ उ०। आराधनायाम, वाच०। उचितप्रतिपत्त्या विनयकरणे, आ०म०१ अ०। विनयवथावृत्यादिरूपा प्रतिपत्तिभक्तिरिति। ध०२ अधि०। यथोचितबाह्या प्रतिपत्तौ, आ० म०१ अ०। ग०11०। भक्तिरुचितोपचार इति। दश० 6 अ० 1 उ० / अभ्युत्थानाऽऽदिरूपे बहुमाने, उत्त० पाई० 1 अ०। सूत्र०। "भत्ती आयरकरणं, जहोचियं जिणवरि-दसाहूणं / " संथा। अनुरागे, ध०१ अधि०। अन्तः-करणा-ऽऽदिप्रणिधाने, आव० 2 अ० / दर्श०। भक्तैस्वैविध्य विचारामृतसंग्रहे"सात्विकी राजसी भक्ति-स्तामसीति त्रिधाऽथवा। जन्तोस्तत्तदभिप्राय-विशेषादर्हतो भवेत् / / 1 / / अर्हत्सम्यग्गुणश्रेणि–परिज्ञानैकपूर्वकम्। अमुञ्चता मनोरङ्ग-मुपसर्गे ऽपि भूयसि // 2 // अर्हत्सम्बन्धिकार्यार्थ, सर्वस्वमपि दित्सुना। भव्याङ्गिना महोत्साहात्, क्रियते या निरन्तरम् / / 3 / / भक्तिः शक्त्यनुसारेण, निःस्पृहाऽऽशयवृत्तिना। सा सात्विकी भवेद्भक्ति-लोकद्वयफलावहा // 4 // " त्रिभिर्विशेषकम् - यदैहिकफलप्राप्ति हेतवे कृतनिश्चया। लोकरञ्जनवृत्त्यर्थ, राजसी भक्तिराच्यते // 5 // द्विषदां यत्प्रतीकार-भिदे या कृतमत्सरम्। दृढाशयं विधीयेत-सा भक्तिस्तामसी भवेत्।।६।। रजस्तमोमयी भक्तिः, सुप्रापा सर्वदेहिनाम्। दुर्लभा सात्त्विकी भक्तिः, शिवावधिसुखावहा / / 7 / / उत्तमा सात्विकी भक्ति-मध्यमा राजसी पुनः। जघन्या तामसी ज्ञेया, नाऽऽदृता तत्ववेदिभिः।। ध०२ अधि०॥