________________ भत्तपच्चक्खाण 1356 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण कवचाऽऽवरणात् पतितः ततः कोणिकेन तं तथाऽध्यवसायं वृक्षविलग्रमवलोक्य कोपाऽऽवेशात्तस्य शिरः क्षुरप्रेण छिन्नम्। दिद्रुतस्स उवणओ, कवयत्थाणी इह तहाऽऽहारो। सत्तू परीसहा खलु, आराहण रजथाणीया।।५३८|| एषः-अनन्तरोदितो दृष्टान्तोऽयं तस्योपनयः-कवचस्थानीय इह तथारूप आहारः, शत्रवः परीषहाः राज्यस्थानीया आराधना / यथा शत्रुपराजयाय कवचमारोप्यते सङ्ग्रामे तथा परीषहजयाय चरमकाले | दातव्य आहारः। अौव दृष्टान्तान्तरमाहजह वा उंचियपादे, पापं काऊण हत्थिणो पुरिसो। आरुहइ तह परिण्णी, आहारेणं तु झाणवरं / / 536 / / यथा वा कोऽपि पुरुषो हस्तिनमारोढुमशक्तो हस्तिनः पादमाकुञ्चापयति, आकुञ्चाप्य तस्मिन्यादे आत्मीय पादं कृत्वा हस्तिनमारोहति, तथा परिज्ञी-भक्तपरिज्ञावान् आहारेण ध्यानवरम्--उत्तमंध्यानमारोहति। उवकरणेहिं विहूणो, जह वा पुरिसो न साहए कजं / एवाऽऽहारपरिणी, दिलंता तत्थिमे हुंति // 540 // यथा पुरुष उपकरणैत्रादिभिर्विहीनो न साधयति लवनाऽऽदिकं कार्यम्, एवमाहारमन्तरेण परिशीभक्लपरिज्ञावान् परीषहपराजयम् / तत्रोमे वक्ष्यमाणा दृष्टान्ता भवन्ति। तानेवाऽऽह --- लावए पावए जोहे, संगामे पंथगे विय। आउरे सिक्खए चेव, दिर्सेतो कवए त्ति य॥५४१॥ दातेणं नावाए, आउहपहेणोसहेहिं च।। उवकरणेहिं च विणा, जहसंखमसाहगा सव्वे // 542|| यथा प्रथश्लोकोक्तालावकाऽऽदयः सर्वे यथासङ्ख्यं दात्रादिभिर्द्वितीयगाथोक्तैर्विना न साधकाः / तथाहि-लाक्को दावेण विना लवितुं न शक्नोति / प्लावको नावा विना नद्यादिक लययितुं न, सङ्गामे योधा आयुधैर्विना शत्रुपराजयं, पथिकः पन्थानं गन्तुम् उपानद्भ्यां विना, आतुरः प्रगुणीभवितुमोषधैर्विना, शिष्यको वादित्रकर्माऽऽदि 'वादित्रा दिभिरुपकरणैर्विना। एवाऽऽहारेण विणा, समाहिकामो ण साहसमाहिं। तम्हा समाहिहेऊ, दायय्वो तस्स आहारो॥५४३।। एवं समाधिकाम आहारेण विना समाधिं न साधयति तस्मात्समाधिहेतोस्तस्याऽऽहारो दातव्यः। अत्राऽऽक्षेपपरिहारावाह - सरीरमुज्झियं जेण, को संगो तस्स भोयणे? समाधिसंधणाहेउं, दिजए सो उ अंतए॥५४४।। अथ येन शरीरमुज्झितं, को भोजने तस्य संगो येन तत् याचते ? उच्यते-न च जीविताऽऽशानिमित्तमाहारं याचते, किं तु समाधिमसहमानस्तत एतदस्माभित्विा मा तस्य समाधिव्याघातो भूयादिति समाधिसन्धानहेतोराहारः अन्तसमये दीयते। - केन विधिनेत्यत आहसुद्धं एसित्तु ठावेंति, हाणीतो वा दिणे दिणे / पुव्वुत्ताए तु जयणाए, तं तु गोति अन्नहिं / / 545 / / शुद्धम्-उद्माऽऽदिदोषरहितमेषित्वागवेषित्वा स्थापयन्ति हानौ वा शुद्धालाभे दिने दिने पूर्वोक्ताया पञ्चकपरिहाणिलक्षणया यतनया गवेषयित्वा तत् अन्यत्रा गोपयन्ति, गोपयित्वा यदि प्रतिदिन संशुद्धस्य यतनया वा अलाभे पर्युषितमपि क्रियते,ततो यथावसरं प्रयच्छन्ति 22 // सम्प्रति (23) चिह्नकरणद्वारमाहनिव्वाधाएणेवं, कालगएँ विगिंचणा उ विहिपुव्वं / कायव्वं चिंधकरणं, अचिंधकरणे भवे गुरुगा / / 546 / / एवम्-उक्तेन प्रकारेण नियाघातेनव्याघाताऽभावेन कालगते तस्य विधिपूर्व विवेचनापरिष्ठाना कर्त्तव्या। तथा कर्त्तव्यं चिह्नकरणम्, अचिह्नकरणे-चिह्नकरणस्याऽभावे प्रायश्चितं चत्वारो गुरुकाः / तच चिहकरणं द्विधा-शरीरे, उपकरणे च। तत्र शरीरे-भक्तं प्रत्याख्यातुकामेन लोचः कर्तव्यो यदि प्रत्याख्यातेऽपि भक्ते परं जीवतो लोचं वर्द्धते तथाऽप्यवश्य लोचं करोति, कारयति वा, उपकरणे रजोहरणमस्य समीपे क्रियते, चोलपट्टश्चाग्रतो, मुखे च मुखपोत्तिका। चिहकरणाऽभावे दोषानाहसरीरे उवगरणम्मि ए, अचिंधकरणम्मि सो उ रातिणिओ। मग्गणगवेसणाए, गामाणं घायणं कुणइ / / 147 / / शरीरे उपकरणे च अचिह्न करणे चिहे अकृते अयमन्यो दोषः-स कालगतो रत्नाधिकः स्यात्, तं चाकृतचिहं भद्राकृतिं दृष्टवा केचित् गृहस्थाः। चिन्तयन्ति-केनाप्येष गृहस्थो बलात्कारेण मारयित्वा त्यक्तः ततस्तैर्दण्डिकस्य कथितं, सोऽपि दण्डिकः श्रुत्वा कैश्चिन्मारितो भवेदिति तेषां मार्गणगवेषणार्थ तत्प्रत्यासन्नग्रामाणां पञ्चानां दशानां वा घातनं दण्डनं कुर्यात् 23 / / __ सम्प्रति (24 अन्तर्बहिर्व्याघात इति द्वारमाहन पगासिज्ज लहुत्तं, परीसहउदएण हुज्ज वाघातो। उप्पन्ने वाघाते, जो गीअत्थाण उववातो // 548|| स भक्तप्रत्याख्याता गृहिणांन प्रकाश्यते यतः कदाचित्परीषहस्योदयेन प्रत्याख्यानस्य व्याघातो-विलोपः स्यात, ततः समस्तस्यापि प्रवचनस्य लघुता जायते, उत्पन्ने च व्याघाते यो गीतार्थानामुपायः स प्रयोक्तव्य इति वाक्यशेषः। को गीयाण उवाओ,संलेहमतो ठविञ्जए अन्नो। अच्छह ते जोवऽन्नो, इतरो उ गिलाणपडिकम्मं / / 546 / / वसभो वाठाविज्जति, अण्णस्सासतीए तम्मि संथारे। कालगओ त्तिय काउं संझाकालम्मि णीणंति / / 550 / / भक्तप्रत्याख्याता द्विविधः एकोऽनेकश्च / ते द्विविधाः, ज्ञाताः अज्ञाताश्च / ज्ञातो नामदण्डिकाऽऽदीनां, प्राकृतजनानां च विदित स्वरूपो यथा यावज्जीवमेव भक्तं प्रत्याख्यातवान, तद्विपरीतोऽज्ञातः। तत्रा यदि ज्ञातो भक्तपरिज्ञा न निस्तरति तदा को गीतार्थागामुपायः प्रयोक्तव्यः? उच्यते तदा स जवनिकान्त