________________ भत्तपच्चक्खाण 1357 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण रितः स्थापितो यो वाऽन्य उत्सहते स स्थाप्यते / इतरस्य तु भक्तपरिज्ञाव्याघातवतो ग्लानपरिकर्म क्रियते, अथान्त्य संलेखनगतो न विद्यते, नाप्यन्यः कश्चिदुत्सहते, तदाऽन्यस्यासत्य भावे वृषभः स्थाप्यते तस्मिन्पूर्वभक्तप्रत्यख्यायकसत्के संस्तारे। ततो जवनिकान्तरितया लोकवन्दापनाऽऽदियतनया स करोति / यस्तु भक्तपरिज्ञाविलोपवान् सोऽल्पसागारिक एकान्ते घ्रियते, मृतस्य च ग्लानपरिकर्मा तावत् क्रियते यावत् प्रथमालिका करोति, ततोऽत्र जनमध्ये रात्री स कालगत इति प्रकाशः, स्वयं गमनेन सहायप्रदानतो वा सन्ध्याकाले तं निष्काशयन्ति। एतदेव भावयतिएवं तू नायम्मी, दंडिगमादीहिँ होइ जयणा उ। सयं गमण पेसणं वा, खिंसण चउरो अणुग्धाया / / 551 / / एवम्-उक्तेन प्रकारेण दण्डिकाऽऽदिभिति भवति यतना ज्ञातव्या। प्रथमालिकाकरणे स्वयं सर्वेषां साधूनां गमनं भवति / यदि वाससहायस्य अन्यत्रा तस्य प्रेषणम्। यस्तु तं भक्त परिज्ञाव्याघातवन्तं खिंसयति-भक्तप्रत्याख्यानप्रतिभन एष इति, तस्य प्रायश्चित्तं चत्वारो मासा अनुद्घातां गुरुकाः यस्तुन ज्ञातः सयदिन निस्तरति तथामपिन प्रवचनस्योड्डाहः / गतं सपराक्रम भक्तप्रत्याख्यानम्। अपराक्रमयात्रामाह - सपरिक्कमे जो उ गमो, नियमा अपरक्कमम्मि सो चेव / नवरं पुण नाणत्तं, खीणे जंघावले गच्छे / / 552 / / सपराक्रमे भक्तप्रत्याख्याने यो गमोऽभिहितः स एवापराक्रमेऽपि नियमावेदितव्यो, नवरं पुनरिदं नानात्वमपराक्रमेक्षीणे जडावले भवति स्वगच्छे एव / तथाहि-क्षीणे जवावले वृद्धत्वेन मर्तुकामः स्थगच्छे भक्त प्रत्याचष्टे। संप्रति व्याघातिममाहएमेव आणुपुथ्वी, रोगायंकेहिं णवरि अभिभूतो। बालमरणं पिय सिया, मरिजउ इमेहिं हेऊहिं / / 553 / / एवमेव अनेनैव प्रकारेणाऽऽनुपूर्व्या क्रमेण व्याघातिमं प्रतिपत्तव्यं, नवरं रोगाऽऽतङ्केरभिभूतः स न तत् प्रतिपद्यते / एतावान विशेषः-यदि पुनरेभिर्वक्ष्यमाणैहे तुभिर्यत् तदा तत् व्याघातिम बालमरणमपि स्यात्। तानेव हेतूनाहबालऽच्छभल्ल विस विसू-इका य आयंकसन्नि कोसलए। ऊसास गिद्ध रजू, ओमऽसिवे घाएँ संबद्धो // 554 // व्यालो-गोनसाऽऽदिः, अच्छभल्ल, ऋक्षो, विषं, विशू (सू) चिका च प्रतीता, आतङ्क:-क्षयाऽऽदिय्याधिः, संज्ञिकोशलके-कोशल-श्रावके प्रत्यनीके संजाते, उच्छ्वास निरोधे, गृद्धपृष्ठकरणं रजवा उत्कलम्बनम्। अवमेदुर्भिक्षे अशिवेधातोविद्युदाऽऽदिभिरभिघातः, संबद्धं वा तेन हस्तपादाऽऽदि जातमेतैर्हेतुभिर्व्याघातिमं बालमरणमपि भवति। कथमित्याह - बालेण गोणसादी, खदितो हुजा सडिउमारद्धो। कन्नोट्ठनासिगादी, विभंगिया वऽच्छभल्लेहिं // 555 / / व्यालेन गोनसाऽऽदिना स खादितो भवेत्ततः शटितुमारब्धान बालमरणमपि कुर्यात् / यदि वा- अच्छभल्लेन- ऋक्षेणकर्णोष्ठनाशिकाउदीनि विभग्नानि भवेयुः ततो बालमरणमाश्रयेत। विषाऽऽदिहेतूनाहविसलद्धो होज्जा वा, विसूइया वा सें उट्ठिया होञ्जा। आयंको वा कोई, खयमादी उढिओ होज्जा / / 556 / / तिण्णि उवारा किरिया, तस्स कया हवेज नो उ उवसंतो। जह वोमें कोसलेणं, सण्णिणा पंच उ सयाई॥५५७।। साहूणं रुद्धाई, अह यं भत्तं तु तुज्झ दाहामो। लाभंतरं च नाउं, लुद्धणं धन्न विक्कीतं / / 558|| विषेण वा कश्चित् लब्धो भवेत् वि (सू) शूचिका वा (से) तस्य उपस्थिता, आतङ्कोवा कोऽपि क्षयाऽऽदिस्तस्योत्थितो भवेत, तस्य च त्रीन् वाराम् क्रिया कृता, परं नोपशमते, ततो बालमरणं प्रतिपद्यते / तथा वा अवमे-दुर्भिक्षे कोशलेन संज्ञिना श्रावके ण, साधूनां पञ्चशतान्यन्यत्र गच्छन्ति निरुद्धानि यथाऽहं भक्तं युष्माकं दास्यामि ; तेन च पापीयसा लुब्धन लाभान्तरं-लाभ विशेष ज्ञात्वा धान्यं विक्रीतम्। ततः किमित्याहतो णाउ वित्तिछेयं, ऊसासनिरोहमादीणि कयाई। अणहीयासे तेहिं, वेयण साहूहिँ ओमम्मि ||556 / ज्ञात्वा वृत्तिच्छेदंदुर्भिक्ष वेदनामनध्यासितैरसहमानरुच्छवा सनिरोधाऽऽदीनि कृतानि, केचिदुच्छ्वासनिरोधकरणतोऽपरे गृधपृष्ठकरणतोऽप्यन्ये रज्वा वैहायसविधानतो बालमरणं प्रति पन्नवन्तः / पडिघातो वा विज्जू, गिरि भित्तीकोणयाइ वा हुन्जा। संबद्ध हत्थपाया-दओ व वातेण होजाहि // 560 / / प्रतिघातो विद्युता गिरिभित्तेः पतन्त्या गिरिकोणकाद्वा पततो भवेत, ततो बालमरणम्। अथवा-हस्तपादाऽऽदयो वा तेन संबद्धा भवेयुः तत आश्रयते बालमरणम्। तथा चाऽऽहएएहिं कारणेहिं पंडियमरणं तु काउमसमत्थो / ऊसासगिद्धपिटुं, रज्जुग्गहणं च कुजाहि॥५६१।। एतैरनन्तरोदितालभक्षणप्रभृतिभिः कारणैः पण्डितमरणं यथोक्तप्रत्याख्यानरूपं कर्तुमसमर्था उच्छ्वासनिरोधंगृद्धपृष्ठरज्जुग्रहणं वा कुर्युः / अथ किमिति ते व्यालभक्षिताऽऽदय आत्मानं घातयन्ति? उच्यतेअणुपुव्वविहारीणं, उस्सग्गनिवाइयाण जा सोही। विहरंतए न सोही, भणिया आहारलोवेणं // 562|| ये व्यालाच्छ भल्लाऽऽदिकृतव्याघातरहितास्तेषामानुपू ऋतुबद्धे मासकल्पेन वर्षा वासे चतुर्मासकल्पेन विहारिणामत्सर्गनिपातिनामुत्सर्गेण संयममनुपालयतां या चारित्राशोधिर्भवति, सा व्यालाऽच्छभल्लाऽऽदिव्याघातवति विहरति नभ