________________ भत्तपच्चक्खाण 1355 - अमिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण सव्वे वि य तित्थयरा, पावोवगया उ सिद्धिगया / / 925 / / सर्वे सर्वज्ञाः सर्वासु कर्मभूमिषु सर्वस्यामद्धायामतीताना-गतरूपायां सर्वगुरवः वः सर्वमहिताः सर्वे मेरावभिषिक्ताः सर्वे आमर्पोषध्यादिभिलब्धिमिरुपेताः सर्वे च तीर्थकरा:-तीर्थ-प्रवर्तनशीलाः सर्वान्परीषहान पराजित्य पादपोपगताः सिद्धिं गताः।। अवसेसा अणगाराऽतीयपडुप्पन्नऽणागया सवे। केई पादोवगया, पचक्खाणं गिणिं केइ॥५२६।। अवशेषाः-सर्वेऽपि च अनगाराः अतीताः प्रत्युत्पन्ना अनागताश्च केचित्पथमसंहननोपेताः पादपोपगताः, केचित्प्रत्याख्यान-भक्तपरिज्ञां, केचिदिङ्गिनी प्रतिपन्नाः। सव्वाओ अज्जाओ, सव्वे विय पढमसंघयणवजा। सव्वे य देसविरया, पञ्चक्खाणेण उ मरेंति // 527 / / सर्वा अप्यार्यिकाः, सर्वेऽपिच प्रथमसंहननवर्जाः सर्वेऽपिच देशविरताः प्रत्याख्यानेन-भक्तपरिज्ञारूपेण नियन्ते। सव्वसुहप्पभवाओ, जीवियसारा उसव्वजणयाओ। आहाराओ रयणं, न विजइ हु उत्तमं लोए // 528|| सर्वस्य सुखस्य प्रभवः-उत्पादकारणं सर्वसुखप्रभवस्तस्मात्, जीवितसारात् "अन्नं वै प्राणा" इति वचनात्, सर्वस्य यतो जनकः, तस्मात् आहारमन्तरेण कस्याप्युत्पत्तेरभावात् इत्थंभूतादाहारादन्यदुत्तमं रत्नं लोके न विद्यते, कित्वाहार एव सर्वोत्तम रत्नम्। रक्षत्वमेवभावयतिविग्गहगइए सिद्धे, य मोत्तु लोयम्मि जेत्तिया जीवा। सव्वे सव्वावत्थं, आहारे हुंति उवउत्ता।।५२९।। विग्रहगतीन् विग्रहगत्यापन्नान सिद्धाँश्च मुक्त्वा शेषा यावन्तो लोके जीवास्ते सर्वे सर्वावस्थं सर्वास्ववस्थास्वाहारे उपयुक्ता भवन्ति–वर्तन्ते तत आहारः परमरत्नम्। तं तारिसयं रयणं, सारं जं सव्वलोअरयणाणं। सव्वं परिचइत्ता, पादोवगया पविहरंति॥५३०।। तत्सर्वलोकरत्नानां मध्ये सारं, तेषु सत्स्वपितृप्तेरभावात्। आहाररूपं रत्नं तत्तादृश सर्व परित्यज्य धन्याः पादपोपगताः प्रविहरन्ति। एयं पादोवगम, निप्पडिकम्मं जिणेहिँपण्णत्तं / जं सोऊणं खमओ, ववसायपरकम कुणइ // 531 / / एतत्पादपोपगम-मरणं जिनैर्निष्प्रतिकर्म प्रज्ञप्तं, यत् श्रुत्वा क्षपको व्यवसायपराक्रमं करोति। गतम् (21) उद्वर्तनाऽऽदिद्वारम्। अधुना (22) 'सारे (त्ति) ऊण य कवयं' इति __ द्वारव्याख्यानार्थमाह - कोई परीसहेहिं वाउलितो वेयणद्दिओ वावि। ओहासेज कयाई, पढमं वीअंच आसज्ज // 532 / / कश्चित् प्रथमद्वितीयपरीषहाभ्यां व्याकुलितो ध्यानाचालितो, यदिया वेदनया-पीडया अर्दितः-पीडितोऽवभाषेत-याचेत्कदाचित्प्रथममशन द्वितीयं वा पानकमासाद्याधिकृत्य। ततः किं कर्तव्यमत आहेगीयत्थमगीयत्थं, सारेउं मतिविबोहणं काउं। तं परिबोहय छठे, पढमे पगयं सिया विइए।।५३३।। स भक्तप्रत्याख्याता कदाचित्प्रान्तया देवतया अधिष्ठितोऽवभाषेत, ततः परिज्ञाननिमित्तं स्मरणं कारयितव्यः / भण्यते-कस्त्वं गीता र्थोऽगीतार्थो वा ? अथवा-दिवसो वर्तते, रात्रि। ता यदिसमस्तमवितथं ब्रूते, तदा ज्ञायते न प्रान्तदेवतयाऽधिष्ठितः, किंतु परीषहत्याजितो याचते, तदेवं गीतार्थमगीतार्थ चाऽत्मानं स्मारयित्वास्मरणीत्पादनेन यथावस्थितं मतिविबोधनं कृत्वा तं प्रतिबोध्य षष्ठे रात्रिभोजने प्रथमे अशने प्रकृतं स्यात्, द्वितीये या पानके। किमुक्तं भवति? अशने पानके चयाचिते तस्य भक्तपानाऽत्मकः कवचभूत आहारो दातव्यः / अथ किं कारण प्रत्याख्याय पुनराहारो दीयते ? तत आहहंदी ! परीसहचमू, जोहेयव्वा मणेण कारण। तो मरणदेसकाले, कवयम्भूओ उ आहारो॥५३४॥ हन्दीति चोदकाऽऽमन्त्राणे हे चोदक! परीषहचमू:-परीषहसेना, मनसा कायेन, उपलक्षणमेतत्, वाचा च योधेन-योधयितथ्या, ततस्तस्याः पराजयनिमित्तं मरणदेशकाले-मरणसमये योधस्य कवचभूत आहारो दीयते। एतदेव विभावयिषुरिदमाहसंगामदुर्ग महसिल-रहमुसले चेव तप्परूवणया। असुरसुरेंदावरणं, चेडय एगो गहं सरस्स॥५३५।। चेटकस्य-कोणिकस्य च परस्परं विग्रहे कोणिकपक्षे संग्रामद्वय मसुरेन्द्रः-अमरः कृतवान्। तद्यथा-महाशिलाकण्टकं, रथमुशलं च, तस्य प्ररूपणा, यथा व्याख्याप्रज्ञप्तौ तथा कर्तव्या। (विस्तरतः महाशिलाकण्टकसंग्रामस्वरूपम् 'महासिलाकंटय' शब्दे षष्ठभागे दर्शयिष्यते। रथमुसलसंग्रामस्वरूपं च 'रहमुसल' शब्दे तस्मिन्नेवभागे उदाहरिष्यते) असुरेन्द्रेण च शक्रेण कोणिकस्याऽऽवरणं कृतम्, कठिनवज्रमयप्रतिरूपके स क्षिप्त इत्यर्थः / ततः चेटकस्य एकः सारथिः कोणिकबधाय शरस्यकनकप्रहरण-विशेषरूपस्य ग्रह-ग्रहणं कृतवान्। एतदेव स्पष्टयतिमहसिलकंटे तहियं, वहृते कोणिओ उ रहिएण। रुक्खग्गविलग्गेणं, पिट्टे पहओ उ कणगेणं / / 536|| उप्फेडिउँ सो कणगो, कवयावरणम्मि तो तओ पडितो। तस्स पुण कोणिएणं, सीसं छिन्नं खुरप्पेणं // 537 / / तत्र महाशिलाकण्टके संग्रामे, वर्तमाने कोणिकश्चेटकस्यरथिकेन निरन्तरं शरमोक्षणत आच्छादितः, पर ते सर्वे ऽपि शराः कठिनप्रतिरूपकेऽभ्यट्य बहिः पतिताः, ततो वृक्षमारुह्य तद्विलनेन कोणिकः पृष्ठ कनकेन प्रहरणविशेषणप्रहतः,सोऽपिक्वचाऽऽवरणेकठिनप्रतिरूपकेउत्स्फिट्यततः,