________________ भत्तपचक्खाण 1352 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण अगाऽऽह-यदि तेन भावतस्त्यक्त आहारस्ततः कथं तस्य गृद्धिरुपजायते? तत आहभुत्तभोगी पुरा जो वि, गीयत्थो वि य भाविओ। संतेसाहारधम्मेसु, सोऽपि खिप्पं तु खुब्भए।४६०॥ योऽपि पुरा-पूर्व भुक्तभोगी गीतार्थो भावितोऽपिच सोऽपि सत्सु आहारधर्मेषु आहार ग्रहणधर्मेषु क्षिप्रंशीघ्रमाहारदर्शनतः क्षुभ्यतिस्वप्रतिज्ञा विलुप्याऽऽहारं याचते। तथापडिलोमा ऽणुलोमा वा, विसया जत्थ दूरतो। ठावेत्ता तत्थ से निचं, कहणा जाणगस्स वि / / 461 / / यत्र प्रतिलोमाऽनुलोमा वा विषया दूरतस्ता तं स्थापयित्वा (से) तस्य जानतोऽपि नित्यं कथना भवति। गत (14) वसतिद्वारम्। इदानीं (15) निर्यापकद्वारमाह - पासत्थोसन्नकुसी - लठाणपरिवजिया उ निजवगा। पियधम्मऽवज्ज भीरू, गुणसंपन्ना अपरितंता / / 462 / / पार्श्वस्थाऽवसन्नकुशीलस्थानपरिवर्जिताः प्रियधर्माणोऽद्यभीरवो / गुणसम्पन्ना अपरि (त्रा) तान्ता-अपरिश्रान्ता निर्यापकाः। अथ पुनस्ते निर्यापकास्तस्य कृतभक्तप्रत्याख्यानस्य किं कुर्वन्ति, कियन्तो वा ते इष्यन्ते? - उच्चत्त १दार 2 संयार 3 कहग : वादीअ५ अग्गदारम्मि 6 / भत्तं 7 पाण 8 विआरे 9-10 कहग 11 दिसा 12 जे समत्था य / / 463|| येतं-कृतभक्तप्रत्याख्यानम् उद्वर्त्तयन्ति परावर्तयन्ते ते चत्वारः 1, ये अभ्यन्तरमूले तिष्ठन्ति तेऽपिचात्वारः 2, संस्तारकारका अपि चत्वारः 3, येऽपि तस्य धर्म कथयन्ति तेऽपि चत्वारः 4 वादिनो लोकस्योल्लुण्ठवचनप्रतिकारिणः तेऽपि चत्वारः 5, अग्रद्वारे ये तिष्ठन्ति तेऽपि चत्वारः 6, ये योग्यं भक्तमानयन्ति तेऽपि चत्वारः 7, पानकस्यापि तद्योग्यस्याऽऽनेतारश्चत्वारः८, उच्चारपरिष्ठाश्चत्वारः प्रश्रवणपरिष्ठापका अपि चत्वारः 10, बहिर्लोकस्य धर्मकथकाश्चत्वारः 11, चतसृष्यपि दिक्षु साहस्रकमल्लाश्चत्वारः 12 / एते द्वादश च तुष्कका अष्टाचत्वारिशद्भवन्ति। कीदृशाः पुनरेते निर्यापकाः? इत्यत आहजो जारिसओ कालो, भरहेरवएसु होइ वासेसु / ते तारिसया तइया, अडयालीसं तु निञ्जवगा / 464|| यो यादृशः कालो भरतेष्वरवतेषु च वर्षेषु भवति ते तादृशा स्तरकालानुरूपिणो निर्यापका अष्टचत्वारिंशदवसातव्याः। एए खलु उक्कोसा, परिहायंता हवंति तिन्नेव / दो गीयत्था तइए, असुम्नकरणं जहन्नेणं // 465|| एते-अनन्तरोदितसङ्ख्याकाः खलु उत्कर्षाउत्कृष्टास्तथैक कपरि हान्या परिहीयमानास्तावद्भवन्ति यावज्जघन्येन कृतभक्तप्रत्याख्यानेन सह त्रयः / तत्रा द्वौ गीतार्थी निर्यापकौ, तृतीयो भक्तप्रत्याख्याता / तत्राय विधिः-एकस्य गीतार्थस्य भक्तपान मार्गणया गमनं, द्वितीयेन तृतीये तृतीयस्य भक्तप्रत्याख्यातुरशून्यकरणम्, एकः तत्पाघे तिष्ठति, अपरो भक्तपाने मार्गणाय गच्छतीति भावः / गतं (15) निर्यापकद्वारम्। व्य० 10 उ०। ध०। (भक्तप्रत्याख्यानवक्तव्यता 'परिहार' शब्देऽरिस्मन्नेव भागे 673 पृष्ठे विरतो गता) अधुना 'दव्वदायणा चरिमे" इत्यस्य (16) द्वारस्य व्याख्यानार्थमाहतस्स य चरिमाऽऽहारो, इट्ठो दायव्वों तण्हछेयट्ठा। सव्वस्स चरिमकाले, अतीव तण्हा समुप्पज्जे / / 466 / / भक्त प्रत्याख्यायकस्य सर्वस्यापि चरमकाले अतीव तृष्णाआहारकासा समुप्पद्यते, तेन तस्य भक्तप्रत्याख्यातु-कामस्य तृष्णाच्छेदार्थम्-आहारकाङ्क्षाव्यवच्छेदाय, इष्टश्चरमाऽऽहरो दातव्यः / नव विगति सत्त ओयण, अट्ठारस वंजणुच पाणं च। अणुपुग्विविहारीणं,समाहिकामाण उवहरिउं॥४६७|| नव विकृतयः-अनवगाहिमदशमाः शाल्यादिभेदतः, सप्तविध ओदनोऽष्टादश व्यञ्जनानि शास्त्रप्रसिद्धानि, उच्चम्-अत्तिप्रशस्यं, पानं द्राक्षापानाऽऽदि, एतत्सर्वमनुपूर्वी विहारिणामानुपूा शनैराहारमोचनेन भक्तप्रत्याख्यानं प्राप्तवतां समाधिकामानां समाधिमभिलषतां समाधिकरणनिमित्तमुपहृत्य दत्त्वा तस्य तृष्णाव्यवच्छेदः क्रियते। अथवाकालसहावाणुमतो, पुव्वं जुसितो सुओ व दिट्ठो दा। झोसिज्जइ सो से तह, जयणाएँ चउव्विहाहारो॥४६८|| कालानुमतः स्वभावानुमतश्च तेन यः पूर्वमाहारो योषितः सेवितः स कथं साधुभितिव्यः, ईदृश एतस्य कालस्वभावानुमतः आहारः श्रुतो वा कस्यापि कथनतो, दृष्टो वा कदाचित्साक्षाद्दर्शनात्परिज्ञातो यथैतस्य ईदृश आहारो रोचत इति। स चतुर्विधः अशनपानखादिमस्वादिमरूपो यतनया प्रथमत उद्माऽऽदिशुद्धास्यालाभे पञ्चकपरिहाण्या याचित्वा (से) तस्य भक्तं प्रत्याख्यातुकामस्य जोषिष्यते-दीयत इत्यर्थः / अथ को गुणस्तस्य चरमाहारेण दत्तेनेत्य? तत् आह -- तण्हाछेयम्मि कए, न तस्स तहियं पवत्तए भावो। चरिमं च एस भुंजइ, सद्धाजणणं दुपक्खे वि ||469ll तेन चरमाऽऽहारेण प्रदत्तेन तृष्णाछेदः-आहारकासाव्यवच्छेदे, कृते न भूयस्तत्राऽऽहारविषये तस्य भावः-इच्छा प्रवर्त्तते, वक्ष्यमाणवैराग्यभावनाप्रवृत्तेः। तथा चरमाहारमेष भुङ्क्ते इति श्रद्धाजननं द्विपक्षेऽपिभक्तप्रत्याख्यातुर्निर्यापकाणां चेत्यर्थः / तथाहि-भक्तप्रत्याख्याता इदं चिन्तयति-अयमभ्युद्यतमरण-समुद्रस्य तीरं प्राप्तो, दुर्लभमेतत्, निस्तीर्णोऽहं संसारादिति गाढतरंध्यानमुपगतो भवति। निर्यापका अप्येवं चिन्तयन्ति, वयमप्येवमभ्युद्यतमरणस्य तीरे प्राप्ता भविष्यामः / यस्मादेतस्य चरमाहारदाने गुणास्तस्मादवश्यं स दातव्यः /