________________ भत्तपञ्चक्खाण 1351 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण यान्ममापराधान येषु येषु स्थानेषु जिनाः-केवलिनो-भगवन्तो-- जानन्ति तानह सर्वभावेनसर्वाऽऽत्मना आलोचयितुमुपस्थितः परं न स्मरामीति वचसा च प्रकटीकर्तुं शक्नोमि, तस्माजिनदृष्टान्तमेव प्रमाणमित्यालोचयितव्यम् / यद्यपि एवं-संमुग्धाऽकारमालोचयति तथापि स गौरवप्रतिकुञ्चनारहितो विशुद्धेन भावपरिणामेन संयुक्त एवमालोचयेत् आराधकः प्रतिकुञ्चनानाममाया / गतमालोचनाद्वारम् (12) अधुना (13) प्रशस्तस्थानद्वारमाहठाणं पुण केरिसमं, होति पसत्थं तु तस्स जं जोग्गं ? भण्णति जत्थ न होजा, झाणस्स उ तस्स बाघातो।।४८३।। तस्य भक्तप्रत्याख्यातुः यत्प्रशस्तं-योग्यं स्थानं तत्कीदृशं भवति? सूरिराह-भण्यते, या तस्य-कृतभक्तप्रत्याख्यानस्य ध्यानस्य व्याघातो न भवति। तानुपदर्शयतिगंधव्व नट्ट जडु-ऽस्स चक्क जंतऽग्गिकम्म फरुसे य। णंतिकरयगदेवड-डोम्बपाडहिगरायपहे॥४५४|| चारग कोट्ठग कल्ला-ल कारऍ पुप्फफलदगसमीवम्मि। आरामे अध वियडे, णागघरे पुष्वमणिए य / / 485|| गन्धर्वशालायां यत्रा गान्धर्विकाः संगीतं कुर्वन्ति तत्र, गन्धर्व शालासमीपे वा न स्थातव्यम्, ध्यानव्याघातभावात् / तथा वृत्तशालायां, वृत्तशालासमीपे वा तत्राप्युक्तदोषसंभवात्। तथा जड्डो-हस्ती, अश्वःतुरङ्गमो, हस्तिशालाय हस्ति-शालासमीपे वा, अश्वशालायां अश्वशालासमीपे वा, हस्तिकाऽऽदिविरूपशब्दश्रवणतो ध्यानव्याघातभावात्। तथा चक्रशालायां तिलपीडनशालायां, तिलपीडनशालासमीपे वा। (जंतंति) इक्षुयन्त्रशालायाम्, इक्षुपीडनशालासमीपे वा, तिलाऽऽदिदर्शनः कर्मकरगानशब्दश्रवणतो या ध्यानभङ्गोपपत्तेः। अनिकर्मलोहकारकर्मतच्छालायाम्, अग्निकारशालासमीपे वा / अग्रिपरितापतो लोहकुट्टनाऽऽदिशब्द श्रवणतो वा ध्यानव्याघातसंभवात् / तथा नंतिक्ताः-छिपास्तच्छालायाम, तस्याः समीपे वा। राजकशालायाम, राजकशालासमीपे वा / देवड शालायां, तच्छालासमीपे वा। जुगुप्सादोषात् / डोम्बालंङ्ग कास्तेऽपि गायन्ति। अथवा-चण्डालविशेषगायना डोम्बा स्तेषां शालाया, तच्छालासमीपे वा, जुगुप्सादोषात् गानशब्दश्रवणतोध्यानव्याघातभावाच। तथा पाडहिकशालायां, पाडहिकशालासमीपेवा, वादिाशब्दश्रवणतोध्यानव्याघातः 1राजपथ, राजपथसमीपे वा, राज्ञ आगच्छता गच्छता वा समृद्धिदर्शनेनिदानकरणप्रशक्तेः / / 484 / / तथा चारकं गुप्तिगृहं तत्र, तस्य समीपे वा यातनाशब्दश्रवणतो ध्यान-व्याघातभावात् / को (ष्ट्र) ष्ठकानामवट्टानां शाला, कोष्ठके, कोष्ठकसमीपे वा, वट्टाअपि गायन्ति विरूपरूपाणि च भाषन्ते, ततो ध्यानव्याघातः / तथा कल्पपालाः सुराऽऽदिविक्रयकारिणो, मद्यपा वा तेषां शालायां, तच्छालासमीपे वा यतस्ता मद्यप्रमत्ता गायन्ति फूत्कुर्वन्ति ततो ध्याने व्याघातसंभवः / तथा क्रकचक्रे-या काष्ठानि क्रकच्यन्ते, तत्रा ककचशालासमीपे वा। काष्ठक्रकचशब्द-श्रवणतःकारपत्रिकगानशब्दश्रवणतो ध्यानभ्रंशोपपत्तेः (पुप्फफलदगसमीवम्मि त्ति) पुष्पसमीपे फलसमीपे उदकसमीपे वा पुष्पाऽऽदिदर्शनतः तद्विषयाभिलाषोपपत्तेः। तथा आरामे, तत्राप्यनन्तरोदितदोषप्रसङ्गात् यथा विकटं नाम-असंगुप्तद्वारं तापानके-पाने कायिक्यादिपरिस्थापने च सागरिक (दोष) संभवात्। तथा नागगृहे. उपलक्षण मेतत्, यक्षगृहाऽऽदिषु, तत्रापि भूपसां लोकानां नानाविधकुर्वितवेषाणामागत्यागत्य गाननर्तनकरणात, तथा च सति ध्याने व्याघातसंभवः / यदि वानागाऽऽदयोऽनुकम्पया प्रत्यनीकतया, विमर्शेन वा अनुलोमान् प्रति लोमान् वा उपसर्गान् कुर्युः। पूर्व भणिते च प्राक्कल्पाध्ययनाभिहितेच भक्तप्रत्याख्यातुकामे। तदेव भावयतिपढम विइएसु कप्पे, उद्देसेसु उवस्सया जे उ। विहिसुत्ते य निसिद्धा, तविवरीए गवेसेज्जा / / 486|| कल्पे-कल्पाध्ययने द्वितीयतृतीयोरुद्देशयोर्विधिसूत्रो च, आचाराने शय्याध्ययने अवग्रह प्रतिमास्थाननिषीदनके च ये उपाश्रया निषिद्धाः, तेषु न स्थातव्यम्, किं तु तद्विपरीतान् देशान् गवेषयेत्। तथाउज्जाण रुक्खमूले, सुन्नघर अनिसट्ट हरियमग्गे य / एवंविहे न ठायइ, होज समाहीऍ वाघातो। 487 / / उद्याने, वृक्षमूले, शून्यगृहे, अनिसृष्ट-अननुज्ञाते, हरिते हरिताऽऽकुले, मार्गे च अन्यस्मिन्नपि च एवंविधे स्थाने न तिष्ठति भक्तप्रत्याख्याता, यतस्तत्र समाधेाघातो भवति। गतं (13) प्रशस्तस्थानद्वारम्। अधुना (14) प्रशस्तवसतिद्वारमाह - इंदियपडिसंचारो, मणसंखोभकरणं जहिं नत्थि। चाउस्सालाऽऽइ दुवे, अणुन्नवेऊण ठायंति॥४८५|| यत्रा इन्द्रियप्रतिसंचारो न भवति। किमुक्तं भवति? या अनिष्ठा इष्टा वा शब्दा न श्रूयन्ते, नापीष्टाऽनिष्टानि रूपाणि / एवं गन्धाऽऽदिष्वपि भावनीयम् / मनः संक्षोभकरणं च यत्र नास्ति तत्र चतुःशालाऽऽदिके द्वे वसती अनुज्ञाप्य प्रतिग्राह्ये आदि शब्दात्-त्रिशालाद्विशालाऽऽदिपरिग्रहः / वसतिद्वयं च गृहीत्वा एकत्र भक्तप्रत्याख्याता स्थाप्यते; अपरत्रा च गच्छसाधवः। किं कारणमिति चेत् ? उच्यते-अशनाऽऽदीनां गन्धेन भक्तप्रत्याख्यातुरभिलाषो माभूदिति हेतोः। पाणग जोग्गाहारे, ठवेति से तत्थ जत्थ ण उवेति। अपरिणया व सो वा, अप्पच्चयगेहि रक्खट्ठा।।४८६|| पानकं, योग्यमाहारं च (से) तस्य भक्तप्रत्याख्यातुः तत्रा प्रदेशे वृषभाः स्थापयन्ति, यत्रा (न) नैव अपरिणताः साधवः, सवा भक्तप्रत्याख्याता समागच्छन्ति / किं कारणं तत्र स्थापयन्तीन्यत आह -- अप्रत्ययगृद्धिरक्षार्थ कृतभक्तप्रत्याख्यानस्य दीयमानं दृष्ट्वा मा भूदपरिणतानामप्रत्ययो, भक्त प्रत्याख्यातुस्तु तत् दृष्ट्या गृद्धिरिति हेतोः /