SearchBrowseAboutContactDonate
Page Preview
Page 1358
Loading...
Download File
Download File
Page Text
________________ भत्तपच्चक्खाण 1350- अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण सम्प्रति मायानिर्घातने उपदेशमाह - उप्पन्ना उप्पन्ना, माया अणुमग्गतो निहंतव्वा। आलोयणनिंदणगरि-हणेहिं न पुणो अ वितियं तु / / 472 / / उत्पन्ना उत्पन्ना माथा अनुमार्गतः-पृष्ठतो लग्नेन आलोचन-निन्दनगर्हणैर्निहन्तव्या / कथमित्याह-न पुनरेव द्वितीयं वारं करिष्यामीति प्रतिपत्त्या। संप्रत्यालोचनायां दत्तायां ये गुणा भवन्ति तानुपदर्शयतिआयरविणयगुण क-प्पदीवणा अत्तसोहि उजुभावो। अज्जवमद्दवलाघव-तुट्ठी पल्हायजणणं च // 473 / / आलोचनायां दत्तायामाचारः पञ्चविध आसेवितो भवति, विनयगुणश्च प्रवर्तितो भवति, कल्पदीपनानामअवश्य-मालोचयितव्यः, अतीचार इत्यस्य कल्पस्य प्रकाशनम्-अन्वेषामुपदर्शनं, ततस्तेऽप्यन्ये एवं कुर्वन्ति / तथा आत्मनो विशोधिः-निःशल्यता कृता भवति, तथा ऋजुसंयमस्तस्य भावो-भवनं तत् कृतं भवति, तथा आर्जवभवनमार्यत्वम्, मार्दवम्-अमानत्वम्, लाघवम्-अलोभत्वमेतानि कृतानि भवन्ति / तथा आलोचिते सति निःशल्यीभूतोऽहमिति तुष्टिरुपजायते। तथा अनालोचिते अतीचारे सशल्योऽहमिति या मनस्यधृतिःपरिदाहस्तस्थापगमात् प्रहादजननं-प्रह्लादोत्पादः शीतीभवनं भवति / कः पुनः सोऽतिचारः, कुतो वा प्रभृत्त्यालोचयितव्यमत-- आहपव्वजादी आलो-यणा उतिण्हं चउक्कगविसोही। जह अप्पणो तह परे, कायव्वा उत्तमट्ठम्मि।।४७४।। त्रायाणां-ज्ञानदर्शनचारित्राणामतीचारेषु प्रव्रज्याऽऽदेरारभ्ययावदुत्तमार्थाऽभ्युपगमस्तावदालोचना दातव्या / कथ-मित्याह-चतुष्कविशोध्या-एकैकस्मिन् द्रव्यतः क्षेत्रात कालवो भावतश्चातीचारविशुद्ध्या। पुनः कथमित्याह-यथाऽऽत्मना सम्यग् ज्ञेयतया तिष्ठति तथा परस्मिन् आलोचना कर्तव्या / देशतः, सर्वतो वा न किञ्चिदपि गृहितव्यमिति भावः। उत्तमार्थे -उत्तमार्थप्रतिपत्ती-कर्त्तव्यतायाम् / तत्र ज्ञान - निमित्त द्रव्यतोऽतीचाराऽऽलोचनामाह - नाणनिमित्तं आसे-वियं तु वितह परूवियं वावि। चेयणमचेयणं दा, दव्वं सेसेसु इमगं तु // 475|| ज्ञाननिमित्तं-सवित्तम्, अचित्तं द्रव्यमुद्गमाऽऽद्यशुद्धं, तथा सचेतन- 1 मचेतनं वा वितर्थ प्ररूपितं भवेत्। तद्यथा-सचित्तमचितम्वा सचित्तमिति एतत् द्रध्यतोऽतीचाराऽऽ लोचनम्। शेषेषु तु क्षेत्राऽऽदिष्विदमतीचाराऽऽलोचनम्। तदेवाऽऽहनाणनिमित्तं अद्धा--णमेति ओमे वि अत्थति तदट्ठा। नाण व आगमिस्सं, ति कुणइ पडिकम्मणं देहे // 476 / / पडिसेवति विगतीओ, मेज्झे दव्वे व एसता पिवता। वायंतस्स वि किरिया, कया उ पणगाइहाणीए / / 477|| ज्ञाननिमित्तमध्वान-पन्थानमेति-प्रतिपद्यते, अध्वानं प्रतिपन्ने च यत्सचित्तमकल्पिकमयतनया यतनया वा तदालोचयति, इदं क्षेत्रतोऽतीचाराऽऽलोचनम्, तथा ऽवमेऽपिदुर्भिक्षेऽपितदर्थ ज्ञानार्थ तिष्ठति। तत्र च तिष्ठता यदकल्पिकम् आसेवितमयतनया यतनया वा तदालोचयति। इदं कालतोऽतीचाराऽऽलोचनम् / भावत आह - (नाणं चेत्यादि) ज्ञानमहमाग मिष्यामिग्रहीष्यामीति हेतोदेहे-शरीरस्य परिकर्म करोति। यथा व्याख्याप्रज्ञप्तेः-महाकल्पश्रुतस्य वा योगं वोदुकामो घृतं पियति, प्रणीत वाऽऽहारमुपभुङ्क्ते तत्रा या अयतना कृता। अथवा-कश्चिद्रोग आसीत् नष्टोऽपि मा सः तत्काले उद्रेकं यायादिति परिकर्म करोति तच कुर्वता या अयतनाकृता निर्विकृता विकृती नानाप्रकारा निरन्तर प्रतिसेवते तत्राऽपि या अयतना कृता मेध्यानि द्रव्याणि नाम यैर्मेधा उपक्रियते, तानिद्रव्याणि एषयता-परिमार्गयता पिवतावा या अयतना व्यधायि। तथा वाचयतो वाचनाऽऽचार्यस्य पञ्चकाऽऽदिहान्या क्रिया कृता; अपिशब्दात्पञ्चकाऽऽदिहान्यातिक्रमेण वा या कृता क्रिया, तामप्यालोचयन्ति / तदेवं ज्ञाननिमित्तं द्रव्याऽऽधतीचाराऽऽलोचनमुपदर्शितम्। अधुना दर्शननिमित्तं चारित्रानिमित्तं चाऽऽह - एमेव दंसणम्मि वि, सद्दहणा नवरि तत्थ नाणत्तं / एसण इत्थीदोसे, वते वि चरणे सिया सेव / / 478|| एवमेव -अनेनैव ज्ञानगतेन प्रकारेण दर्शनेऽपि दर्शननिमित्तमपि द्रव्याऽऽद्यतीचारजातमालोचयितव्यं नवरं तत्रा नानात्वम्, दर्शनं नाम-- श्रद्धानं चरणेऽपिचारित्रोऽपि स्यादिय--मतीचारता सेविता / तद्यथाएषणामायाम-एषणाविषये (स्त्री) दोषोपेतवसतिविषये व्रतविषये वेति। सम्प्रति “तिण्हं चउक्कगविसोहि (474) इत्यस्यान्यथा व्याख्यातुमाहअहवा तिगसालंवे-ण दव्वमादी चउक्कमाहच। आसेवितं निरालं-बको च आलोअए तं तु // 476 / / अथवेति प्रकारान्तरे त्रिकसालम्बनोपतेन द्रव्याऽऽदिचतुष्कं द्रव्यक्षेत्रकालभावलक्षणमाहत्य कदाचित् अकल्पनीयमयतनयायतनया चा आसेवितम् अथवानिरालम्बको ज्ञानाऽऽद्यालम्बरनरहितो द्रव्याऽऽदिचतुष्कमकल्पिकमासेवितवान् / एतेनैतत् ख्यापितं यत्प्रतिसेव्यते किञ्चिदकल्पिक तद् दर्पतः कल्पतः भावतः परमपर प्रकारान्तरमस्तीति / एतत् आलोचयेत्। प्रेकरः पृच्छतिपडिसेवणाऽतिचारा, जइ वीसरिया कहं वि होज्जा णु। तेसु कह वट्टियव्वं, सल्लुद्धरणम्मि सभणेणं ? ||480 // प्रतिसेवनातिचारा यदि कथमपि विस्मृता भवेयुः, तेषु शल्योद्धरणे कर्तव्ये कथं श्रमणेन वर्तितव्यम्। सूरिवर्तनप्रकारमाह - जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु / तं तह आलोएउं, उवट्ठितो सव्वभावेणं॥४८१।। एवं आलोयंतो, विसुद्धभावपरिणामसंजुतो। आराहओ तह वि सो, गारवपडिकुंचणारहितो।।४५२||
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy