________________ भत्तपच्चक्खाण 1346 - अभिधानराजेन्द्रः - भाग 5 भत्तपच्चक्खाण स आचार्येण प्रष्टव्यः-किमत्र संलिखितं त्वया न वेति ततः स चिन्तयतिपश्यति मे अस्थिधर्मावशेषं शरीरं तथाऽपि प्रश्नयति-संलिखितं न वेति। एवं चिन्तयित्वा क्रोधे दर्शित क्षिप्रमङ्गलिं भक्त्वा दर्शयति-पश्य यत्र किञ्चिन्मज्जा (रक्तं) मांसं वा द्रक्ष्यसि. भवति संलिखितं किं वा नेति? एव मुक्ते गुरुराह-न ते द्रव्यसंलेख परच्छामि, कृशशरीर प्रत्यक्षत एवोपलभ्यमानत्वात् किं तु भावसंलेखे, स चाद्याऽपि न विद्यते इति तं भावसंलेखं कुरु श्रूयतां चाऽा दृष्टान्तोऽमात्यः कोकणक विषये। साम्प्रतमेनामेव गाथां व्याख्यातुं गच्छपरीक्षामाह - कलमोयणपयक्कढियाऽऽदि दव्वें आणेह झत्ति इति उदिते। भावे कसाइज्जती, तेसि सगासे ण पडिवज्जे ||15|| कलमौदनं-कलमशालिकूर, पयो-दुग्धं क्वथितम्, आदिशब्दादन्यस्याप्यभीष्टस्य भोजनस्य परिग्रहः / मम योग्यमानयतेति झटिति द्रव्ये उदिते, यदि भावे भावतः कषायन्तिकषायं कुर्वन्ति ततस्तेषां समीपे भक्तपरिज्ञान प्रतिपद्यते, अयोग्यत्वात्। अह पुण विरू वरूवे, आणीए दुगुंछिए भणंतेऽन्नं / आणेतु झत्ति ववसिएँ, पडिवज्जति तेसि तो पासे // 460|| अथ पुनर्विरूपरूपे अनेकप्रकारे आहारे आनीते जुगुप्सिते भणन्तेभणन्ति अन्यमाहारमानयामः तथैव चाऽऽनेतु झटिति व्यवसितस्ततस्तेषां पार्चे प्रतिपद्यते, यथाऽभिलषितवस्तुसम्पादकतया तेषां योग्यत्वात्। सम्प्रति गच्छस्य तत्परीक्षामाहकलमोदणे अपयता, अन्नं च समावअणुमयं जस्स। उवणीयं जो कुच्छइ, तं तु अलुद्धं पडिच्छंति // 461 / / कलमौदन कलमशालिकूरं पयसा सहोपनीतमिति, अन्यद्वा-यद्यस्य स्वभावतोऽनुमतं तस्य तदुपनीतं,सतयः। कुत्सते-निन्दति-कि ममतेन कार्यमिति? तमलुब्धमिति ज्ञात्वा प्रतीच्छन्ति / यस्तु कलमौदनाऽऽदिके उपनीते अहो सुन्दरमहं भुजे इति वदति, सलुग्ध इति न प्रत्येषणीयः। आचार्यस्य तत्परीक्षामाह - अञ्जो ! संलेहो ते, किं कतो न कवो त्ति एव उदयम्मि। मंतुं अंगुलि दावे, पेच्छह किं वा कतो न कतो // 462|| आर्य ! त्वया संलेखः, किं कृतः कि वा न कृत इत्येवमुदिते अङ्गुलि भक्त्वा दर्शयति-प्रेक्षस्व किं कृतः किं वा न कृत इति। __ तत आचार्य आहेनहु ते दव्वसंलेह, पुच्छे पासामि ते किमं। कीस ते अंगुली भग्गा, भावसंलेहमाउरे // 463 / / (नह) नैव (ते) तवद्रव्यसलेखपृच्छामि, यतः पश्यामि ते कृशंशरीरम्, तस्मात्किमित त्वया अडलिर्भग्ना? पृच्छामि भावसंलेखं, माऽक्रोधवशादातुरो भव। संप्रति "दिलृतोऽमच्चकों कणए"(४५८ गा०) इत्येतद्भावयतिरण्णा कोंकणगोऽपच्चो, दो वि निव्विसया कया। दोदिए कंजियं छोड़े, कोंकणे तच्छणा गतो // 464 // भंडी वइल्लए काए, अमच्चो जा भरेति उ। ताव पुन्नं तु पंचाहं, णलिए णिहणं गतो / / 465 / / केनाऽपि राज्ञा एकः कोङ्कणकोऽपरोऽमात्य एतौ द्वविपि कस्मिंश्चिदपराधे समकमाज्ञप्तौ-यदि पञ्चाहाभ्यन्तरे निर्विषयौन व्रजतस्ततोऽवश्य वध्याविति। तत्र कोकणको दोग्धिके तुम्बके काञ्जिकं-काञ्जिकपयांसि क्षिप्त्वा तत्क्षणात् गतः / अमात्यः पुनर्यावत् भण्डीन्थीर्बलीवदीन कायान् कापोतीर्विमर्ति तावत्पूर्ण पञ्चाहमिति नलिके शूलिकामारोपितो निधनं गतो विनाशं प्राप्तः / यथाऽसौ अमात्यः कुटुम्बोपकरणप्रतिबद्धो विनाशमुपगतः, एवं त्वमपि भावप्रतिबद्धो नाऽऽराधनाजीवितं प्राप्स्यसि / तस्मात् - इंदियाणि कसाए य, गारवे य किसे कुरु। न चेयं ते पंससामो, किसं साहुसरीरगं / / 466|| इन्द्रियाणि- चक्षुरादीनि, कषायान्-क्रोधप्रभृतीन् गौरवाणि ऋद्धिगौरवप्रमुखाणि कृशानि कुरु; न चेदं ते साधोः कृशं शरीरकं प्रशंसामो, भावसंलेखव्यतिरेकेण द्रव्यसंलेख्यस्यापिं अकिञ्चिकरत्वात् / गतं संलेखनद्वारम् / गतं (11) परीक्षाद्वारम्। इदानीम् (12) आलोचनाद्वारमाहआयरियपायमूलं, गंतूणं सइ परक्कमे ताहे। सव्वेण अत्तसोही, कायव्वा एस उवएसो॥४६७।। ततो-द्रव्यसंलेखना भावसंलेखनाऽनन्तरं भक्तं प्रत्याख्यातुकामेन सर्वेण स्वयं शोधिं जानता अजानता च सति पराक्रमे आचार्यपादमूले गत्वा शोधिः कर्तव्या, एष तीर्थकृतां गणभृतां चोपदेशः। तत्रा शोधि जानन्तः प्रत्याहजह सुकुसलो विवेजो, अन्नस्स कहेइ अप्पणो बाहिं। वेजस्स य सो सोउं, तो पडिकम्मं समारभते / / 468 / / जाणतेण वि एवं, पायच्छित्तविहिमप्पणो निउणं / तह वि य पागडतरयं, आलोएयव्वयं होइ॥४६६।। यथा सुकुशलोऽपि वैद्योऽन्यस्याऽऽत्मनो व्याधि कथयति, सोऽपि वैद्यस्य श्रुत्वा व्याधिकथनं ततः प्रतिकर्म समारभते / एवं प्रायश्चितविधिमात्मसो निपुणं जानताऽपि तथाऽपि प्रकटतरमालोचयितव्य भवतीति कृत्वा अन्यस्य समीपे आलोचयित-व्यम्। ततोऽप्यनेन कि कर्तव्यमत आहछत्तीसगुणसमन्ना-गएण तेण वि अवस्स कायव्वा / परपक्खिया विसोही, सुद वि ववहारकुसलेणं // 470 / / तेनाप्यजेनाऽऽचार्येण षट्त्रिंशद्गुणसमन्वागतेन, षट् त्रिशद्गुणाः "अडविहा गणिसंपय' इत्यादिना प्रागेवाभिहिता। सुष्टु अपि व्यवहारकुशलेन परपक्षिकापरपक्षे गता विशोधिर वश्यं कर्त्तव्या। कथं पुनरात्मनः शोधिजातमप्याणलोक्येदित्याह - जह वालो जंपतो, कज्जमकजं च उजुयं भणइ। तं तह आलोएज्जा, मायामयविप्पमुक्को उ॥४७१।। यथा बालो जल्पन कार्यमकार्य च ऋजुकम्-अमाय भणति, तथा मायामदविप्रमुक्तस्तत्कार्यमकार्य वा गुरो पुरतः आलोचयेत्।