________________ भत्तपञ्चक्खाण 1348 - अभिधानराजेन्द्रः - भाग 5 भत्तपच्चक्खाण इदानीम् (6) अन्यद्वारमाह - एगो संथारगतो, वितिओ संलेहि तइय पडिसेहो। अपहुचंतऽसमाही, तस्स व तेसिं व असतीए।।४५२।। यदि तत्र द्वौ जनावग्रे स्तः / तद्यथा-एकः संस्तारगतः। संस्तारगतो नाम-संलिख्य कृतप्रत्याख्यानः द्वितीयः संलिखति संलेखनां करोति, तथा तृतीयो यद्यन्य उपतिष्ठति तर्हि तस्य-तृतीयस्य प्रतिषेधः कर्तव्यः / किं कारणमिति चेत्? अत आह (अपहुचंतेत्यादि) न प्रभवन्ति-न प्राप्यन्ते त्रयाणामपि योग्या निर्यापका न च संस्तरन्ति, ततोऽप्रभवःअप्राप्यमाणेषु तेषु संस्तारणस्यास्य वाऽसति तस्य तृतीयस्य, तयोर्वाडग्रेतनयोस्तेषां वा निर्यापकारणम्, असमाधिरुपजाय ते. प्रथम सन्ति यदि बहवो निर्यापकाः संस्तरन्ति चतदानकश्चिदनन्तरो दोषः प्रसजतीति तृतीयमपि प्रतीच्छन्ति। हवेज जइ वाघातो, वितियं तत्थ ठावए। चिलिमिली अंतरा चेव, वहिं वंदावए जणं / / 453 / / यदि तस्य कृतभक्तप्रत्याख्यानस्य भवेत् व्याघातः / व्याघातो नामप्रत्याख्यानेनाऽसंस्तरण, सच बहिः सर्वत्रा ज्ञातो, दृष्टश्च भूयसा लोकेन एव कृतभक्तप्रत्याख्यान इति, तत एषा य तना कर्त्तव्यायोऽसौ द्वितीयः संलेखनां कुर्वन् तिष्ठति स तत्रा स्थाप्यते, तस्यान्तरा चिलिमिली कर्तव्या, ततो यदि यैातो दृष्टः ते वन्दकाः समागच्छेयुः तदाः स तेषां न दर्शयितव्यः, किं तु ते भक्ष्यन्ते-बहिः स्थिता यूयं वन्दध्वमिति, एवं बहिः स्थितं जनं वन्दापयेत। गतम् (6) अन्यद्वारम्। इदानीम् (10) अनापृच्छाद्वारमाहअणापुच्छाएँ गच्छस्स, पडिच्छे तं जती गुरू। गुरुगा चत्तारि विन्नेया, गच्छमणिच्छंते तं पावे / / 454|| गच्छस्यानापृच्छाया यदि तं भक्तप्रत्याख्यातुकाम गुरुः प्रतीच्छतिअभ्युपच्छति तदा तस्य-प्रायश्चित्तं चत्वारो गुरुका विज्ञेयाः / गच्छे चानिच्छति स भक्तप्रत्याख्याता यत्प्राप्नोति असमाधिप्रभृतिक तन्निमित्तमपि तस्य प्रायश्चितं ततः गच्छ आपृष्टव्यः / किं कारणमिति चेत्? उच्यते स गच्छसाधवः सर्वं परिभ्रमन्तो जानते, यथा-एतस्मिन् क्षेत्रे मुलभम् एतत् दुर्लभं ततो मुखः पृच्छति किमेतस्मिन् क्षेत्रो यानि कृतभत्तप्रत्याख्यानस्य समाधिकारणानि द्रव्याणि तानि सुलभानि, किं वा दुर्लभानि तत्रा यदि सुलभानि ततः भक्तप्रत्यख्यान प्रतिपाद्यते। अथ दुर्लभानि तर्हि प्रतिषिध्यते, अन्यत्रा गत्वा प्रतिपद्यस्वेति। अनापृच्छाया दोषानाहपाणगाऽऽदीणि जोग्गाणि,जाणि तस्स समाहिय। अलंभे तस्स जा हाणी, परिक्वेसो य जायणे / / 455 / / असंथरे अजोग्गा वा, तत्थ निजावगा भवे। एसणाएपरिकेवो, जा वा तस्स विराहणा।।४५६।। गणस्थानापृच्छायां यानि तस्य–कृतभक्तभक्तप्रख्यानस्व समाहिते-- समाधाननिमित्तानि पानकाऽऽदीनि योग्यानि आदिग्रहणेनभक्तपरिग्रहः / तेषामलाभे तस्य-भक्तप्रत्यख्यातुः सा हानिः समाधि परिभ्रंश उपजायते / यश्च गच्छसाधूनां योग्यपानकाऽऽदेर्याचनेपरिमार्गणे परिक्लेशः // 455 / / तथा असंस्तरे-संस्तरणाभावे यः परिक्लेशोऽयोग्या वा तत्र निर्यापका भवेयुः / योगवाहिनोऽप्येते तत्रा योगवाहिनां समाधिकारकाणि पानकाऽऽदीन्युद्गमानि शुद्धानि मृगयमाणानां यः परिक्लेशः, या वा अयोग्यानिर्यापकसंपर्कतः तस्य कृतप्रत्याख्यानस्य विराधना-अनागाढाऽऽदिपरितापनाअसमाधिमरणाऽऽदिकं तत्सर्वं तन्निमित्तमतो गच्छस्य पृच्छा कर्त्तव्या / गतम् (10) अनापृच्छाद्वारम्। अधुना (11) परीक्षाद्वारमाह - अपरिच्छणम्मि गुरुगा, दोण्ह वि अण्णोण्णयं जहाकमसो। होइ विराहण दुविहा, एक्को एक्को व जं पावे / / 457 / / यो भक्तं प्रत्याख्यातुकामस्तेन गच्छसाधवः परीक्षितव्याः, किमेते भाविता इति? गच्छसाधुभिरपि स परीक्षणीयः, विमेष निस्तारको भवेत्, किं वा नेति? आचार्येणापि स परीक्षितव्यः / अन्योन्य पुनर्यथाक्रमशो वक्ष्यामाणक्रमेणापरीक्षणे द्वयोरपिगच्छस्य भक्तप्रत्याख्यातुकामस्य च, प्रायश्चित्तं प्रत्येक चत्वारो गुरुकाः / तथा अपरीक्षणे भवति द्विविधा विराधना-आत्मविराधना, संयमविराधना च / तत्रा गच्छस्यात्मविराधना असमाधिमरणतः प्रत्यवायसंभवात् भक्तप्रत्यख्यातुः आत्मविराधना असामध्युत्पादात् संमयविराधना गच्छस्याभावितत्वेन एषणाया असंभवात् (एको एको वजं पावे त्ति) एको गच्छेयमनर्थं प्राप्नोति, एको वा-सभक्तप्रत्याख्याता, तन्निमित्त मपि तस्य प्रायश्चित्तमापद्यते। तम्हा परिच्छणं तू, दव्वे भावे य होइ दोण्हं पि। संलेह पुच्छ दायण, दिटुंतोऽमनकोंकणए / / 458|| यत एवमपरीक्षणे प्रायश्चित्तं, दोषाश्च तस्माद् द्वयोरपि परस्परं द्रव्ये भावे च भवति परीक्षणम्। तचैवम् भक्तं प्रत्याख्यातुकामेन परीक्षानिमित्त गच्छसाधवो भणिताः। यथा-आनयत मम योग्यं कलमशालिकूरं कथित क्षीर, ततो भक्ष्ये। अथवा अन्यद्भोजनं प्रणीतं यत्स्वभावतो रुचिकर तत आनयतेति याचते / तत्रैव याचने यदि ते हसन्ति कृष्णमुखा वा जायन्ते, तदा ज्ञेयम्-अभाविता एते इति, तेषां समीपे न प्रत्याख्यातव्यम् / अथ ते दुवते-यगणसि तत् कुर्म इति तदा ज्ञेयम्-योग्या एते इति। तथा गच्छसाधुभिः परीक्षानिमित्तं कलमशालिकूरप्रभृतिकमुत्कृष्ट द्रव्यमानेतव्यं तस्मिन्नानीते यदि स बूते-अहो सुन्दरमानीतं, भुजेऽहमिति तदा ज्ञातव्यमेष आहारलुब्ध इति न निस्तरिष्यति, वक्तव्यश्च सः, यदात्वमाहारगृद्धित्यक्ष्यसि तदा ते भक्तपरिज्ञायां योग्यता भविष्यति, नान्यदा / अथ स तमुपनीतमाहारं जुगुप्सते-किं ममैतेनाऽऽहारितेन, पर्याप्त, नाहमाहारयामिति तदा ज्ञातव्यमेष मिस्तरिष्यति, तस्मिन् वक्तव्यं प्रत्याख्याहि वयं ते निर्यापका इति / इह तमुयाचितस्य द्रव्यसंपादनमसंपादनंच सा गच्छस्य द्रव्यतः परीक्षा। यत्पुनः सकषायित्वमकषायित्वं वा ज्ञायते तद्भावपरीक्षणम् / तथा भक्तप्रत्याख्यातुरप्युपनीतं सुन्दरस्य ग्रहणमग्रहणं वा द्रव्यतः परीक्षणम भावतो गृद्ध्यद्धिपरिज्ञानामिति। आचार्यस्य तत्परीक्षणमाह-(संलेहपुच्छ इत्यादि) यदास आचार्यामुपस्थितो भवति भक्तप्रत्याख्यानेनाऽहं तिष्ठामि, तदा