________________ भत्तपचक्खाण 1347 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण यस्मादेवं क्षेत्रातः कालतश्व मार्गणायामादरः कृतःतम्हा संविग्गेणं, पवयणगहियत्थसव्वसारेणं / निजवगेण समाही, कायव्वा उत्तमट्ठम्मि॥४४४|| गाथाचतुष्टयमपि प्राग्वत्। गत संवितरद्वारम्। इदानीम् (7) एकद्वारम्। एको निर्यापको न कर्तव्यः / किं तु बहवः अन्यथा विराधनाऽदिदोषप्रसङ्गात्। तमेवोपदर्शयतिएक्कम्मि उ निजवए, विराहणा होइ कज्जहाणीय। सो सेहा विय चत्ता, पायवण्णं चेव उड्डाहो // 445|| एकस्मिन् निर्यापके संयमविराधना, आत्मविराधना च भवति / तथाहि-कृतभक्तप्रत्याख्याननिमित्तं पानकग्रहणायाऽ टन् यदा क्वापि न लभते तदा मा भूत्पश्चात् ग्लानस्यासमाधिरित्याधाकर्मिकमपि तं पानक गृह्णीयात् इति संयमविराधना, निरन्तरमेकस्य क्लिश्यमानस्याऽऽत्मविराधना, तथा कार्यहनिश्च भवति तथाहि-मरणसमये समाध्युत्पादनाय सोऽपेक्षते, स च कदाचित्समये पानकाऽऽदिनिमित्तमन्यत्र गतो भवेत, तथा स भक्तप्रत्याख्याता व्यक्तः, क्षैक्षा अपि च त्याक्ताः प्रवचनं त्यक्तमुड्डाहश्चोपजायते। एतद्विभावनार्थमाहतस्सऽट्ठगतोभासण, सेहादि अदाणे सो परिचतो। दाउंब अदाउंवा, भवंति सेहा वि निद्धम्मा // 446 // तस्य-प्रत्याख्यातृभक्तस्यार्थाय पानकाऽऽदीना मार्गणाय गतो निर्यापकस्तस्य समीपे शैक्षकः अपरिणतो वा मुक्तस्तस्य समीपे (ओभासण त्ति) भक्तं याचितं ते च शैक्षकाऽऽदयो-न कल्पते एतस्य च भक्तं. कृत प्रत्याख्यानत्वादिति न ददति, अदा न च सोऽसमाधिना मरणं प्राप्नुयादिति स परित्यक्तः। ते च शैक्षा दत्त्वा अदत्त्वा वा निर्धाणो भवन्ति / तथाहि-तेषामेवं चित्तमुपजायते, यथा स्थापनामात्रा प्रत्याख्यानं यथा चैतदेवमेव हिंसाऽऽदिप्रत्याख्यानान्यपि ततः कल्पन्ते हिंसाऽऽदयोऽपीति निर्धर्माणो जायन्ते। कूयइ अदिजमाणे, मारेंति बल त्ति पवयणं चत्तं / सेहा य जं पडिगया, जणे अवण्णं पयासेंति॥४४७|| तैः-शैक्षकैरेवादीयमाने भक्ते स महता शब्देन कूजति, यथा मामेते बलान्मारयन्ति, इत्येवमुक्तेन-प्रकारेण प्रवचनं त्यक्तं, तथा शैक्षा ये प्रतिगताः--प्रतिभग्नाः सन्तो जने अवज्ञा प्रकाशयन्ति, एष उड्डाहः / गतम् (7) एकद्वारम्। अथ (8) आभोगनद्वारमाहपरतो सयं व नचा, पारगमिच्छंति अपारगे गुरुगा। असती खेमसुभिक्खे, निव्वाघाएण पडिवत्ती।।४४८|| भक्तं प्रत्याख्यातुकामः कोऽपि समागतस्तत आचार्येणा-ऽऽभोगः कर्त्तव्यो, यावदस्य भक्तप्रत्याख्यानं समाप्तिमुपयाति तावदशिवाऽद्युपद्रवो नगराऽऽदीनां वोत्थानं भविष्यति किं वा नेति, तच कथं ज्ञातव्यं? ते (तत्) स्वयमाचार्यस्यातिशयो ऽस्ति तेन ज्ञातव्यं, यदि वा निमित्तमासोगमीम, अथवा- स्वयं देवता कथयति, यथा-'कंचणपुर' गाथा (450) इत्यादि। अथ स्वतोऽतिशयो निमित्तं वा नास्ति तर्हि येषां ते सूरयः स्वयं प्रष्टव्याः, एवं स्वतः परतोवा अशिवाऽऽदीना नगरोत्थनादीनों वा भावमव-बुध्य पुनरिदं ज्ञातव्यं, किमेष प्रत्याख्यानस्य पारगो भविष्यति, किंवा नेति? तत्र यदि पारगतो ज्ञायते ततस्तपारगमिच्छन्ति। अथ चाऽपारग नेच्छन्ति तथा अपारगे इष्यमाणे प्रायश्चित्तं चत्वारो गुरुकाः / अथ स्वस्य परस्य वाऽतिशया ऽऽदिर्न विद्यते ततोऽसतिअविद्यमाने आभोगे यदि क्षेमं सुभिक्षं च तदा निर्याघातेन प्रतिपत्तिः कारायितव्याः, वर्षाकाले प्रतिपत्तिः कार्यते इत्यर्थः / एतदेवाऽऽहसयमेव चिरं वासो, वासावासे तवस्सिणं / तेण तस्स विसेसेण, वासासु पडिवजणा!|४४६॥ वर्षारात्रो वर्षोदककर्दमाऽऽदिकारणतश्चतुरः पञ्च षड् वा मासान् ग्रामाऽऽदीनामुत्थानं न भवति, क्षेमं सुभिक्षं च स्वभावेन वर्तते, तपस्विनां च वर्षावासे चिरं वासः स्वयमेव प्रवृत्तः, तेन कारणेन तस्य भक्तप्रत्याख्यातुकामस्य विशेषतो भक्तप्रत्यख्यान-प्रतिपादनके कर्तव्या। पूर्वमिदमुक्तं स्वयं देवता कथयति तन्निदर्शनमाहकंचणपुर गुरु सण्णा, देवयरुयणा य पुच्छ कहणा य। पारणगखीररुहिरं, आमंतण संघाऽणसणता / / 450 / / कलिङ्गेषु जनपदेषु काञ्चनपुरे नगरे बहुश्रुताः-बहुशिष्यपरिवाराः केचिदाचार्या विहरन्ति, ते अन्यदा शिष्येभ्यः सूत्रा--पौरुषीम्, अर्थपौरुषी च दत्त्वा संज्ञाभूमौ गताः, ते च गच्छन्तोऽपान्तरालेऽतिशये महापादपस्याधः काञ्चिद्देवतां स्त्रीरूपेण रुदन्तीं पश्यन्ति, एवं द्वितीयतृतीयदिनेऽपि / ततो गुरुभिर्यात-शत्रैः पृष्टम्-कस्मात्त्वं रोदिषि ? तस्याः कथनमहमेतस्य नगरस्याधिष्ठात्री, एतच सर्व नगरमचिराज्जलप्रवाहेण विनड्-क्ष्यति, अत्र च बहवः स्वाध्यायवन्तो वर्तन्ते, ततो रोदिमि। कोऽत्र प्रत्यय इति पृष्ट सा प्राऽऽह-अमुकस्य क्षपकस्य पारणके क्षीर रुधिर भविष्यति, तच यत्र गतानां स्वभावीभूतं भविष्यति, ता क्षेमंवसितव्यमिति / एवमुक्तवा सा गता। द्वितीयदिने क्षपकस्य पारणके क्षीरं रुधिरीभूतं ततः समस्तस्यापि सङ्घप्रधानवर्गस्याऽऽमन्त्रण, पर्यालोचन च, ततोऽनशनं समस्तस्यापि सङ्घस्येति। यदि पुनरशिवाऽऽद्युत्थाने विज्ञाते यदि भक्तं प्रत्याख्यापयति तदा स गच्छः, साधव, प्रवचनंचतेन त्यक्तम्। कथमित्याहअसिवादीहिँ वहंता, तं उवकरणं च संजया चत्ता। उवहिं विणा य छडणे, चत्तो सो पवयणं चेव // 451 / / यदि अशिवाऽऽद्युपद्रवं ग्रामाऽऽद्युत्थानं च ज्ञात्वा भक्तं प्रत्याख्यापयति, तदा तस्मिन्निा पिते एवाशिवाऽऽद्युत्थाने जाते यदि संयतास्तत्प्रतिबन्धतो न निर्गच्छन्ति, गच्छन्तो वा यदितं कृतभक्तप्रत्याख्यानं, तस्योपकरण च वहन्ति, तदा ते संयता अशिवाऽऽदिभिः कारणेस्तमुपकरणं च वहन्तस्त्यक्ताः अथोपधिं विनिर्वहन्ति, त्यक्त्वा वा सर्वथा पलायन्ते, तदा सभक्तप्रत्याख्याता परित्यक्तः, सच त्यक्तः सन् उड्डाहं कुर्यात्, मां त्यक्त्वा ते गता इति तदा प्रवचनस्य महती हीलनेति प्रवचनं त्यक्तं, तस्मादशिवाऽऽद्युत्थाने अपारगे च तरिमन् ज्ञाते स भक्तं न प्रत्याख्यातयितव्यः / गतम् (8) आभोगनद्वारम्।