________________ भत्तपच्चक्खाण 1346 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण अहवा वि सव्वरीए, मोयं देज्जाहि जायमाणस्स। सो दंडियाएँ हुज्जा, रुट्ठो साहे निवादीणं / / 426 / / कुज्जा कुलादिपत्था-रं सो रुट्ठो व गच्छे मिच्छत्तं / तप्पच्चयं च दीहं, भमेज्ज संसारकंतारं / / 430 / / अथवा --- शर्वर्यां पानीयं याचमानस्य रात्रौ पानीयं नास्तीति मोकप्रश्रवणं सोऽगीतार्थो दद्यात्, सचदण्डिकाऽऽदीनां सम्बन्धी निष्क्रान्तः स्यात् ततः स धातुवैषम्येण राष्टः सन् अवधावेत, अवधाव्य च नृपाऽऽदीना कथयेत्ततः प्रवचनस्य महानुडाहः / यदि वा-स राजाऽऽदिस्तत्पक्षपतितः, सोऽपि वा स्वयं रुष्टः कुलाऽऽदिप्रस्तारंकुलस्य गणस्य वा विनाशं कुर्यात्। यद्यपि च एवमादयो दोषा न भवन्ति तथाऽपि प्रथमद्वितीयपरीषहाभ्यां परितप्यमानोऽसमाधिना मृतो दुष्करमपि कृत्वाऽन्तक्रियांकल्पविमानोपपत्तिं वा न प्राप्नुयात्, किंतुवाणमन्तराऽऽदिषूपपद्येत। यदि वा-क्रषायपीडितो दृष्टिविषः सर्पो जायेत / (गच्छे मिच्छतमिति) इह भवे वा मिथ्यात्वं गच्छेत्. तत्प्रत्ययं च मिथ्यात्वप्रत्ययं च दीर्घ संसारकान्तारं भ्रमेत्। सो उ विगिंचिय दिट्ठो, संविग्गेहिं तु अन्नसाहूहिं। आसासियमणुसिट्ठो, अब्भुयमरणं वि पडिवन्नं / / 431 / / स प्रत्याख्यातभक्तो भक्तं याचमानोऽगीतार्थः साधुभिर्विविक्तः परित्यक्तः अन्यैः संविग्नः गीतार्थसाधुभिर्द्दष्टः ततस्तैराश्वासितः; आश्वास्य य अनुशिष्टः-अतिशयेन दूरमुत्साहितस्ततो यत् अभ्युद्यतमरणं त्यक्तं, तत्पुनरपि तेन प्रतिपन्न, ततः सुगतिभागी जातः / एए अन्ने य तहिं, बहवे दोसा य पञ्चवाया य / एएहि कारणेहिं, अगियत्थे न कप्पति परिण्णा / / 432|| यरमादेते-अनन्तरोदिता अन्ये च - अनुक्ता बहवो दोषाः-प्रत्यवायाश्च अगीतार्थस्य समीपे भक्तपरिज्ञाप्रतिपत्तौ, तस्मादेतैः कारणैरगीतार्थस्य समीपे परिज्ञाभक्तपरिज्ञा न कल्पते, संविग्न-गीतार्थाना च समीपे बहवो गुणाः तस्मात्तन्मार्गणा कर्त्तव्या। सा च द्विधा-क्षेत्रातः, कालतश्च। तत्र क्षेत्रतस्तामाहपंच छ सत्त सए वा, अहवा एत्तो वि सातिरेगतरे। गीयत्थपायमूलं, परिमग्गेज्जा अपरितंतो।।४३३।। पच्च षट् सप्त वा यो जनशतानि / अथवा इतोऽपि सातिरेकतराणि योजनशतानि गत्वा संविग्रपादमूलपरि (त्रा)तान्तोऽनिर्विणो मृगयेत / उक्ता क्षेत्रतो मार्गणा। कालत आहएग व दो व तिन्नि व, उक्कोसं वारसेव वासाणि। गीयत्थपायमूलं, परिमग्गेज्जा अपरितंतो / / 434|| एको द्वे त्रीणि वा उत्कर्षतो द्वादश वर्षाणि यावदपरिता -(त्रा)न्तोऽनिर्विण्णो गीतार्थपादमूलं परिमृगयेत। गीयत्थदुल्लभं खलु, पडुच कालं तु मग्गणा एसा। ते खलु गवेसमाणा, खेत्ते काले य परिमाणं / / 435 / / गीतार्थो दुर्लभो यस्मिन् काले तं गीतार्थदुर्लभं काल प्रतीत्यआश्रित्य एषा-अनन्तरोदिता क्षेत्रतः कालतश्च मार्गणाऽभिहिता। ते खलु गीतार्थ गवेषमाणा क्षेत्राविषये कालविषये च परिमाणमुत्कृष्टमेतावत् कुर्वन्ति। तम्हा गीयत्थेणं, पवयणगहियत्यसव्वसारेणं / निज्जवगेण समाही, कायव्वा उत्तमट्ठम्मि // 436|| यस्मात् क्षेत्रातः कालतश्च गीतार्थमार्गणायामेतावानादरः कृतस्तस्मात्तेन गीतार्थेन प्रवचनगृहीतार्थसर्वसारेण प्रवचनस्य गृहीतोऽर्थस्य सर्वसारो येन स तथा तेन, निर्यापकेण उत्तमार्थे व्यवस्थिस्यतेन समाधिः कर्तव्यः / गतमगीतार्थद्वारम् / अथ (6) असंविग्रद्वारमाहअस्संविग्गसमीवे, पडिवजंतस्स होइ गुरुगा उ। किं कारणं तु तहियं, जम्हा दोसा हवंति इमे // 437 / / असंविग्नसमीपेऽपि भक्तपरिज्ञा प्रतिपद्यमानस्य भवन्ति चत्वारो गुरुकाः प्रायश्चितम्। किं कारणं तत्रा यस्मादिमे वक्ष्यमाणा दोषा भवन्ति / तानेवाऽऽह - नासेति असंविग्गो, चउरंगं सव्वलोयसारंगं ! नट्ठम्मि य चउरंगे, न हु सुलभं होति चउरंग / / 438|| नाशयत्यसंविग्नश्चतुरङ्ग–मानुषत्वाऽदिरूपं सर्वलोकसाराङ्ग सर्वलोकप्रधानतराङ्गं चतुरङ्गे नष्ट (न हु) नैव सुलभंसुप्रापं भवति चतुरङ्गम्। कथं नाशयतीत्यत आह - आहाकम्मिय पाणग, पुप्फा सेया बहुजणे णायं / सेज्जा संस्थारो विय, उवही वि य होइ अविसुद्धो।।४३६॥ असंविग्नो बहुजनस्य यथा तथा वा ज्ञातं करोति, यथा-एष कृतभक्तप्रत्याख्यानः, ततः स आधाकर्मिकंपानमानयति पुष्पाणि चढौकयति, सेचन च चन्दनाऽऽदिना करोति, तथा शय्यासंस्तारक उपधिश्च तेनाऽऽनीतः अविशुद्धो भवति। एते अन्ने य तहिं, बहवे दोसा य पचवाया य। एतेण कारणेणं, अस्संविग्गे न कप्पइ परिन्ना / / 440 / / एते-अनन्तरोदिता अन्येऽयनुक्ता बहवो दोषाः, प्रत्यवायाश्च / तत्र प्रत्यवायाः प्रागिवासमाधिमरणतो वाणमन्तरेषूत्पादितो, नृपाऽऽदिकथनतो वा वेदितव्याः / एतेन कारणेनाऽसंविग्ने-असंविग्नस्य समीपे परिज्ञा न कल्पते, किंतु संविग्नस्याऽन्तिके। ततः क्षेत्रतो कालतश्च मार्गणामाह - पंचे व छ सत्त सया, अहवा एत्तो वि सातिरेगा य। संविग्गपायमूलं, परिमग्गिजा अपरितंतो॥४४१॥ इयं क्षेत्रातः, कालत आहएकं व दो व तिणि व, उक्कोसं बारसेव वासाणि / संविग्गपायमूलं, परिमग्गिजा अपरितंतो।।४४२।। संविग्गदुल्लभं खलु, कालं तु पडुन मग्गणा एसा। ते खलु गवेसमाणा, खेत्ते काले य परिमाणं / / 443||