________________ भत्तपञ्चक्खाण 1345 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण किमित्याहआयंबिल उसुणोदे-ण पारि हावेंतों आणुपुव्वीए। जह दी तेल्लवत्ति-क्ख ओ समं तह सरीराऽऽयू / / 418|| आयामेन उष्णोदकेन पारयति। अयमत्रा संप्रदायः-द्वादशे वर्षे कोटीसहितं प्रत्याख्यानं चतुर्थविषयं कृत्वा प्रथमं पाणकमायामेन उष्णोदकेन करोति, द्वितीयं पारणकं निर्विकृतिकेन, तृतीयं पुनरायामेन यथोक्तरूपेण, चतुर्थ निर्विकृतिकेन। एवमकान्तरितंपारणकेष्वायाम करोति। कोटीसहितं नामप्रथमदिवसे पुनरभक्तार्थं कृत्वा पारयति, एतचचतुर्थे कोटीसहितं प्रत्याख्यानम्। एवं षष्ठाष्टमाऽऽदिकोटीसहितान्यपि भावनीयानि / अथवा--अयम् अन्यो-द्वितीयः प्रकार:- एकस्मिन् दिने चतुर्थ कृत्वा द्वितीये दिवसे पारयति, तृतीय दिवसे पुनश्चतुर्थ करोति। चतुर्थे दिवसे पारयति। एतचतुथ-कोटीसहितं, षष्ठकोटीसहितमेवं षष्ठं कृत्वा पारयति, पुनः षष्ठं करोति. ततः पारयति। एवमष्टमाऽऽदिकोटीसहितान्यपि भावनीयानि। (हावेतो आणुपुष्वीए इति) तस्मिन् द्वादशे वर्षे पारणकेषु यथाकममेकैकं कवलं हापयन् पारयति, यावदेकं कवलं, ततः (शेषेषु) शिक्थेषु पारणकेषु क्रमश एकेन सिक्थेनानमेकं कवलमाहारयति, द्वाभ्यां सिक्थाभ्यां, त्रिभिः सिक्थैरेवं यावदन्ते एक सिक्थमाहारयति / कस्मादेव करोतीति चेदत आह-यथा दीपे सममेककालं तैलवर्तिक्षयं भवति, तथा शरीराऽऽयुषः समकं क्षयः स्यादिति हेतोः। पच्छिल्ले हायणे तू, चउरो धारेत्तु तेल्लगंडूसं। निसिरेन खेल्लमल्ले, किं कारण गल्लधरणं तु ?||416 / / लुक्खत्ता मुहजंतं, मा हु खुभेज त्ति तेण धारे।। मा हु नमोक्कारस्स, अपचलो सो हवेजाहि॥४२०॥ तस्मिन्यपश्चिमेद्वादशे हायने ये अन्तिमाश्चत्वारोमासास्तेष्वेकैस्मिन् पारणके एकान्तरितं तैलगण्डूषं चिरकालं धारयति, धारयित्वा खेलमल्लकेसक्षारे निसृजतित्यजति ततो वदनं प्रक्षालयति / / 416 / / किं कारणं गल्ले गण्डूषस्य धारण क्रियते? उच्यते-मा मुखयन्त्रां रूक्षत्वाद्वातेन क्षुभ्यते-एकत्रा संपिण्डी भूयते, तथा च सतिमा स नमस्कारस्य भणने अप्रत्यलः-असमर्थो भवेदिति हेतोगल्ले तैलधारणं करोति। उक्कासेगा उ एसा, संलेहा मज्झिमा जहन्ना या। संवच्छर छम्मासा, एमेव य मासपक्खेहिं / / 421 / / एषा--अनन्तरोदिता संलेखा--संलेखना उत्कृष्टा भण्णिता, मध्यमा संलेखना संवत्सरप्रमाणा, एवं प्रागुक्तेन प्रकारेण द्वादशभिर्मासैः परिभावनीया, जघन्या एषा षण्मासा द्वादशभिः पक्षैः वर्षस्थाने मासान् पक्षाँश्च स्थापयित्वा तपोविधिःप्रागिव निरवशेष उभयत्राऽपि भावनीय इति भावः। एत्तो एगतरेणं, संलेहेणं खवेत्तु अप्पाणं। कुज्जा भत्तपरिणं, इंगिणि पाओवगमणं वा / / 422 / / एतेषामुस्कृष्टमध्यमजघन्यानां संलेखनानामेकतरेण संलेखनेनाssत्मानं क्षपयित्वा कुर्यात् भक्तपरिज्ञाम, इङ्गिनीमरणं, पादपोपगमनं वा। गत (4) संलेखनाद्वारम्। अधुना (5) अगीतद्वारमाह -- अण्मीयसगासम्मी, भत्तपरिणं तु जो करेजाहि। चतुगुरुगा तस्स भवे, किं कारण जेणिमे दोसा? ||423 / / गीतार्थस्य समीपे भक्तं प्रत्याख्यातव्यं, यस्त्वगीतस्य-अगीतार्थस्य सकाशे-समीपे भक्तपरिज्ञांभक्तप्रत्याख्यानं करोति तस्य प्रायश्चित्तं चत्वारो गुरुकाः। कि कारणम्? उच्यते- येन कारणेन इमे वक्ष्यमाणा दोषास्तेन कारणेन। तत्रा तानेव दोषानाह - नासेती अग्गीतो, चउरंगं सव्वलोयसारंग। नट्ठम्मि य चउरंगे, न हु सुलभं होइ चउरंग // 424 / / अगीत:-अगीतार्थो निर्यापकस्तस्य कृतभक्तमत्याख्यास्य चतुरङ्ग चतुर्णामङ्गानां समाहारश्चतुरङ्ग वक्ष्यमालम् / कथं भूतमित्याहसर्वलोकसाराङ्गम्-अङ्गवरं, प्रधानमित्यनान्तरम् / सर्वेषामपित्रयाणामपि लोकानां यानि अङ्गानि तेषां सारमिति विशिष्टमङ्गं प्रधानं सर्वलोकसारङ्गम्। नष्टे च चतुरङ्गे न पुनः सुलभंसुप्रापं भवति चतुरङ्ग, किं तु चुल्लक ऽऽदिदृष्टान्तरतिशयेन दुष्प्रापं, ततोऽगीतस्य समीपे भक्तं न प्रत्याख्येयम्। किं पुण तं चउरंग, भं नटुं दुल्लभ पुणो होइ। माणुस्सं धम्मसुती, सद्धा तवसंजमे विरियं // 425 / / किं पुनः तचतुरङ्ग यन्नष्ठं सत् पुनर्दुर्लभं भवति ? सूरिरामानुष्यंमानुषत्वं, धर्माश्रुतिः, धर्मश्रवणं, श्रद्ध तपसि संयमे य वीर्यमिति। किह नासेति अगीतो, पढमबितिएहिं अद्वितो सो उ। ओभासे कालियाए, ते णिद्धम्मो त्ति छड्डेजा // 42 // कथं-केन प्रकारेण सोऽगीतार्थः तस्व चतुरङ्गं नाशयति? सूरिराहप्रथमद्वितीयाभ्यां क्षुत्पिपासालक्षणाभ्यां परीषहाभ्यामर्दितः-पीडितःस भक्तप्रत्याख्याता कदाचित् कालिकायां रात्रौ भक्तं च पानं च अवभाषेतयाचेत, ततः सोऽगीतार्थो न कल्पते इति कृत्वा न दद्यात्, चिन्तयति च - भक्तं प्रत्याख्याय पुनर्याचते भक्तं, तत्रापि रात्रौ, तत एष निर्धर्मा असंयतीभूत इति कृत्या तंत्यजेत्, त्यक्त्वा गच्छेत्। अंतो वा बाहिं वा, दिवा य रातो व सो विवित्तो उ। अट्टहट्टवस हो, पडिगमणाऽऽदीणि कुजाहे / / 427 / / अन्तरुपाश्रयस्य बहिरुपायश्रयस्य वा, दिवा रात्रौ वा, तेनाऽमीतार्थन विविक्तः सन् आर्त्तः-दुःखात वशातः सन् प्रतिगमनाऽऽदीनि प्रतिगमनं नामप्रतिभञ्जनं, व्रतमोक्षमित्यर्थः / आदिशब्दात्-मृत्वा कुगतिविनिपातान् वा कुर्यात्। तांश्च कुगतिविनिपातानेवाऽऽह - मरिऊणऽट्टज्झाणो, गच्छे तिरिएसु वंतरेसुं वा। संभरिऊण य रुट्ठो, पडिणीयत्तं करेजाहि // 428|| स आर्तध्यानो मृत्वा तिर्यक्षु तिर्यग्योनिषु गच्छेत् यदिवाव्यन्तरेषुवानमन्तरेषु मध्ये स समुत्पद्येत्, तव च जाति स्मृत्वा त्यक्तोऽहं तस्यामवस्थायामिति रुष्टः सन् बहुविधं प्रत्यनीकत्वं कुर्यात्।