SearchBrowseAboutContactDonate
Page Preview
Page 1352
Loading...
Download File
Download File
Page Text
________________ भत्तपचक्खाण 1344 - अभिधानराजेन्द्रः - भाग 5 मत्तपच्चक्खाण मित्त गणभेदं दृष्ट्वा उपलभ्य, तथा बालाऽऽदीना बालवृद्धाऽसहग्लानाऽऽदीनां स्थविराणां चाा विकरणे उचितकरणाऽदर्शनेऽप्रीतिरुपजायते, तया चाप्रीत्या ध्यानव्याघातः। अयं च परगणे प्रतिपन्ने गुणःसिणेहो पेलवो होइ, निग्गते उभयस्स उ। आहवा चावि वाघाते, नो सेहादि विउग्गमे / / 407 / / स्वगणान्निर्गतस्योभयस्यापि-गणस्य, आचार्यस्य वा स्नेहः परस्पर पेलवः-प्रतनुर्भवति, अन्यच्च (आहच) काचित्प्रथमपरीषहेण त्याजितस्य भक्तपरिज्ञा, तस्यां यो व्याघातो-विलोपः-स्यात् तस्मिन् व्याघातेन स्वगणादशैक्षकाऽऽदीना व्युद्गमो जायते, आघातपरिज्ञानाभावात् / अथवा-विपरिणामोऽपि स्यात् / तथाहि-स्वगणे स्थितं भनप्रतिज्ञ जानन्ति, ज्ञात्वा च सर्वा अपि प्रतिज्ञा एतेषामीदृश्य एवेति विपरिणामं गत्वा संयम लोपयन्ति। सम्प्रति (3) 'सिति' द्वारमाह - दव्वसिती भावसिती, अणुओगधराण जेसिमुवलद्धा। नहु उड्डगमणकट्ठा, हेट्ठिल्लपयं पसंसंति॥४०८|| संजमठाणाणं कं-डगाण लेसाठितीदिसेसाणं / उवरिल्लपयक्कमणं, भावसिती केवलं जाव।।४०९।। सितिर्नाम-ऊर्द्धमधो वा गच्छतः सुखोत्तारावतारहेतुः काठाऽऽदिमयः पन्थाः। सा द्विधा-द्रव्ये, भावे च। ता द्रव्येशितिनिःश्रेणिः, सा द्विधाऊर्द्धगमने, अधोगमने च / ता ययाऽधस्तात् भूमिगृहाऽऽदिष्वतीर्यते सा अधोगमने। यया चोर्द्धपरिमाणे आरुह्यतेसा ऊर्द्धगमने। भावसितिरपि द्विधा-प्रशस्ता, अप्रशस्ता च / तत्र यैहेतुभिस्तेषामेव संवमस्थानानांसंयमकण्डकानां लेश्यापरिणाम विशेषाणां वा याऽधस्तनेष्वधस्तनेष्वपि संयमस्थानेषु गच्छति साऽप्रशस्ता भावशितिः। यैः पुनर्हेतुभिस्तेषामेव संयमाऽऽदिस्थानानामुपरितनेषूपरितनेषु विशेषेष्यध्यारोहति सा प्रशस्तोच्वोपरितन एव क्रमेण भावसितिस्तावद्रष्टव्यं यावत् केवलज्ञानम्।ता येषामनु-योगधराणा माचार्याणा मेय द्रव्ये भावे च शितिरुपलब्धा भवति ते (न हु) नैव ऊर्ध्वगमने कार्य कर्तव्ये अधस्तनपदं प्रशंसन्ति, न तासुसपदि गमनायाशुभाध्यवसायप्रवृत्तिमातन्वते, किंतु शुभेष्यध्यवसायेष्वारोहन्ति / गतं सितिद्वारम्। संप्रति (4) संलेखनाद्वारमाह - उक्कोसा य जहन्ना, दुविहा संलेहणा समासेण / छम्मासा उजहण्णा, उक्कोसा बारससमा उ||४१०॥ संलेखना समासेन द्विविधा प्रज्ञप्ता / तद्यथा-उत्कृष्टा जघन्या च / चशब्दात्-मध्यमा च। तत्र जघन्या षण्मासा, उत्कृष्टा द्वादशसगाद्वादशवर्षाः। चिट्ठ उताव जहन्ना, उक्कोसं तत्थ जाव वुच्छामि। जं संलिहिऊण मुणी, साहेती अत्तणो अत्थं / / 411 / / तत्रा तयोर्जघन्योत्कृष्टयोर्मध्ये जघन्या यावत्तिष्ठतु, पश्चाद्वक्ष्यमाण त्वात, उत्कृष्टां तावद् वक्ष्यामि, यदित्यव्ययं यथा मुनय आत्मनं संलिख्याऽऽत्मनोऽर्थ साधयन्ति। तमेवाऽऽह - चत्तारि विचित्ताई, विगईनिजूहियाइं चत्तारि। एगतरमायामे-नातिविगिट्टे विगिट्टे य॥४१२। चत्वारि वर्षाणि विचित्तााणि विचित्रतपांसि करोति। किमुक्लं भवति ? चत्वारि वर्षाणि यावत्कदाचिचतुर्थ कदाचित् षष्ट कदाचिदष्टममेव दशद्वादशादीन्यपि करोति, कृत्वा च पारणक सर्वकामगुणितेनाऽऽहारेण पारयति। ततः परमन्यानि चत्वारि वर्षाण्युक्तप्रकारेण विचित्रतपांसि करोति विकृतिनिhहितानि। किमुक्तं भवति? विचित्रां तपः कृत्वापारणके निर्षिकृतिकं भुङ्क्ते उत्कृष्टरसवर्जं च, ततः परतोऽन्ये द्वेवर्षे एकान्तरमायामं करोति, एकान्तरं चतुर्थ कृत्वा आयामेन पारयति, एवभेतानि दश वर्षाणि गतानि, एकादशस्य वर्षस्याऽऽदेशान् नातिविकृष्टं तपः कृत्वा आयामेन परिमितं भुङ्क्ते, नातिविकृष्ट नाम तपश्चतुर्थ षष्ठं यावदवगन्तव्यम्। ततः परमन्यान् विकृष्ट तपः कृत्वा मा शीघ्रमेव मरण यायासमिति कृत्वा पारणके परिपूर्ण घ्राण्या आयामं करोति, विकृष्ट नामाऽऽष्टमादिकम्। साम्प्रतमेतदेव व्याचिख्यासुराहसंवच्छराणि चउरो, होति विचित्तं चउत्थमादीयं / काऊण सव्वगुणियं, पारेइ उ उग्गमविसुद्धं // 413 / / आदिमानि चत्वारि संवत्सराणि विचिा तपश्चतुर्थाऽऽदिकं भवति, तच कृत्वा पारयति भुङ्क्ते सर्वगुणितंसर्वगुणेन संयुतमाहारमुदगमविशुद्धम्। पुणरवि चउरण्णे तू, विचित्त काऊण विगतिवज्जं तु! पारेइ सो महप्पा, गिद्धं पणियं च वज्जेइ॥४१४॥ पुनरप्यन्यानि चत्वारि वर्षाणि विचित्रां तपः कृत्वा स महात्मा विकृतिवर्ज पारयति, तत्रापि स्निग्धं प्रणीतं चोत्कृष्टरसं वर्जयति। अन्नाओ दोण्णि समा, चउत्थ काऊण पारि आयामं / कंजीएणं तु ततो, अण्णेकसम इमं कुणइ / / 415 / / अन्ये द्वेसमे-वर्षे चतुर्थंकृत्वा आयामं पारयति, एवंदश वर्षाणि गतानि, ततः परमन्यामेकां समावर्षमिमा वक्ष्यमाणां काञ्जिकेनायामपारणकेन करोति। कथमित्याह - तस्थिक्क छम्मासं, चउत्थ छटुं तु काउ पारेइ / आयंबिलेण नियमा, बिइए छम्मासिएँ विगिट्ठ॥४१६|| अम दसम दुवालस, काऊणाऽऽयंबिलेण पारे। अन्नेक्कहयणं तू, कोडीसहियं तु काऊण 1417 / / ता एकादशे वर्षे, एकमाद्य, षण्मासं यावत् चतुर्थ षष्ठ वा कृत्वा नियमादायामेन पारयति, द्वितीये षण्मासे विकृष्टमष्टमं दशमं द्वादशं वा कृत्वा आयामाम्लेन पारयति / एवमेकादश वर्षाणि गतानि। अन्यमेक द्वादशहायन कोटीसहितं कृत्वा।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy