________________ भत्तपच्चक्खाण 1343 - अभिधानराजेन्द्रः - भाग 5 भत्तपचक्खाण एतदेव व्याचष्टे - भिक्खवियारसमत्थो, जो अन्नगणं च गंतु वाएइ। / एस सपरक्कमो खलु, तविवरीतो भवे इयरो।।३६७।। यः स्वस्य परस्य वा निमित्तं भिक्षायां विचारे च गन्तुं समर्थो , यदिवाअन्यगणं गत्वा वाचयति, स भक्तप्रत्याख्यानं प्रतिपित्सुः सपराक्रमः तविपरीतोभिक्षाऽऽदावसमर्थो भवति इतर:-अपराक्रमः, तद्गतं मरणमपि यथाक्रममं सपराक्रमम, अपराक्रमं च। एकेक तं दुविहं, निव्वाघायं तहेव वाघायं। वाघातो विय दुविहो, कालाऽतियरो य इयरो वा // 368 / / तत्-सपराक्रमम, अपराक्रमं च मरणमेके कं द्विविधमनियाघातं, व्याघात च। तत्र व्याघातोनाम यथा अच्छभल्लेन कालादोष्ठौ च खादितौ / अथवा अवर्म व्याघातः, ततो मरणं प्रतिपद्यते। नियाघात यथोक्तव्याघातरहितं व्याघातोऽपि च द्विविधः कालातिचारः, इतरश्च / कालमतिचरति अतिक्रममतीति कालातिचारः कालसहो, यतपिचरेण मरण तथा पूतिगोनशेन दष्टस्य तं दष्टकालमतीत्य विंशतिराभिन्दिवाऽऽदिषुमरणम्, इतरः कालानतिचारो यत्तदिवसमेव मर्तुकामो भक्तं प्रत्याचष्ट इति। तं पुण अणुगंतव्वं, दारेहिं इमेहिँ आणुपुव्वीए। गणनिस्सरणादिएहिय, तेसि विभागं तु वोच्छमि||३६६॥ तेन पुनर्नियाघातदिभिर्वक्ष्यमाणैर्गणनिः सरणाऽऽदिद्वारैरानुपूर्त्या क्रमणानुगन्तव्यं, तेषां च द्वाराणां विभागं वक्ष्यामि। तमेव वक्तुकाम आहगणनिस्सरणे परगणे, सिति संलेह अगीयऽसंविग्गो। एगाऽऽभोगण अण्णे, अणापुच्छ परिच्छ आलोए।।४००।। ठाण वसहीए सत्थे, णिज्जवया दव्वदायणा चरिमे। हाणीय अपरियंत, निजर संद्यारुवत्तणादीणि // 401 // सारेत्तण य कवयं, निव्वाघाएणा चिंधकरणं तु। अंतो वहि वाघातो, भत्तपरिन्ना' कायव्वो / / 402 / / गणात्-स्वगणाद् निःसरणा वक्तव्या, तथा परगणगमनं तथा (सिति त्ति) द्रव्यभावरूपा निभेणिर्वक्तव्या, तथा संखेलना, तथा अगीतस्यअगीतार्थस्य समीपे न भक्तं प्रत्याख्यातव्यम् / तथा (असंविग्गे त्ति) असंविग्नस्याऽपि समीपे न प्रत्याख्यातव्यम् / तथा (एग त्ति) एको निर्यापको न कर्त्तव्यः, किंतु बहवः परतो वा भक्तं प्रत्याख्यातुकामस्य विषये आभोगन कर्तव्यम्। तथा अन्यो यदि भक्तं प्रत्याख्यातुमुद्यातस्तर्हि यदि निर्यापकाः पूर्यन्ते तदास प्रतीष्यते,शेषकालं नेति। तथा आचार्येण गच्छरम्यानापृच्छाया स भक्तप्रत्याख्यान न प्रतिपादयितव्यः। तथा तेन भक्तं प्रत्याख्यातुकामेन गच्छस्य, गच्छेनाऽपि तस्य परीक्षा कर्तव्या। तथा भक्तपरिज्ञा प्रतिपत्तुकामेव नियमत आलोचना दातव्या / / 400 / / तथा प्रशस्ते स्थानेप्रशस्तायां वसतौ भक्तपरिज्ञा प्रतिपत्तव्या / तथा निर्यापकाः गुण सम्पन्नाः समर्पणीयाः / तथा चरमकाले तस्यभक्तगत्याख्यातुकामस्य द्रव्यदर्शन प्रधानसमस्ताऽऽहारद्रव्योपदर्शनं विधेयम्। (हाणि त्ति) भक्तं प्रत्याख्यातुकामस्य प्रतिदिनवरामाहारस्य हानिर्विधेया। तथा अपरिश्रान्तः सर्वकर्माणि प्रतिचारका वर्तन्ते। (निज त्ति) निर्जरा वक्तव्या। तथा संस्तारको याद्दशो भवति कृतभक्तप्रत्याख्यानस्य कर्त्तव्यस्तादृशो वक्ष्यते। तथा तस्य कृतभक्तप्रत्याख्यानस्याद्वर्त्तनाऽऽदीनि यथासमाधि करणी यानि / / 401 / / तथा प्रथमद्वितीयपरीषहाभ्या त्याजित स्मारयित्वा स्वं स्वरूपमनर्थत्वा ऽऽदिलक्षणं कवच-कवचभूतमशनं प्रयोक्तव्यम् / तथा जीववतो मृतस्य च तस्य चिह करणं विधेयम् / एतं नियाघातेन भक्तपरिज्ञाव्याघाताभावेन प्रतिपत्तव्यम्। अथान्तः–ग्रामाऽऽदिषु बहि:-उद्यानाऽऽदिषु भक्तपरिज्ञाया व्याघातः संजातः, ततो गीतार्थनामुपायो भवति कर्तव्यः / एष द्वारगाथाऽर्थः। साम्प्रतमेतदेव विवरीषुः प्रथमतो (1) गणनिस्सरण द्वारमाहगणनिस्सरणम्मि विही, जो कप्पे वण्णितो समासेणं / सो चेव निरवसेसो, भत्तपरिण्णाएँ दसमम्मि॥४०३।। गणनिस्सरणे यो विधिः कल्पे-कल्पाध्यय्ने सप्तविधः सप्तप्रकारो वर्णितः, स एव व्यवहारे दशमे उद्देशके भक्तपरिज्ञायां भक्तपरिज्ञाधिकारे निरवशेषी वक्तव्यः (स च विधिः 'उपसंपया' शब्दे द्वितीयभागे 1008 पृष्ठादारभ्य दर्शितः।) गणनिस्सरणद्वारं गतम्। इदानीं (2) परगणद्वारम् / परगणे गत्वा भक्तप्रत्याख्यानं कर्तव्यम् - किं कारणं चंकमणं, थेराण इहं तवोकिलंताणं / अब्भुञ्जयम्मि मरणे, कालुणियाझाण वाघातो // 10 // किं कारणं स्वगणादपक्रमणं क्रियते ? सूरिराहस्थविराणाम् आचार्याणां संलेखनातपोभिः क्लान्तानामिह स्वगणे अभ्युते भक्तपरिज्ञालक्षणमरणे समुपस्थितानां शिष्याणाम् आचार्यानुरागेण रोदनक्रन्दनाऽऽदीनि कुर्युः रोदनाऽऽदिकं च तेषामा-काश्रुतपातं दृष्ट्वा तेषाममुपरि कारुण्यमुपजायते, ततो ध्यानध्याघातः। अन्यच्चसगणे आणाहाणी, अप्पत्तिय होइ एवमादीयं / परगणे गुरुकुलवासो, अप्पत्तियवजितो होइ।।४०५|| यो गणधरः स्थापितः तस्याऽऽज्ञा केचित् न कुर्वन्ति, तथा केपाञ्चिदुपकरणनिमित्तमप्रीतिः, आदिशब्दात् गणभेदो, बालाऽऽदीनामुविताऽऽध करणदर्शनमित्यादिपरिग्रहः। तत एवं स्वगणे आज्ञाहानिरप्रीतिरसेवनाऽऽदिकं ध्यानव्याघातकारणमुपतिष्ठते, ततः परगणे गत्वा भक्तप्रत्याख्यानं प्रतिपद्यते / यत एवं गुरुकुलवास आसेवितो भवति / किंविशिष्ट इत्याह प्रीति वर्जितोऽप्रीतिश्च समस्ताऽपि परिहता भवतीति भावः। अप्रीत्यादिक यथा स्वगणे भवति तथा प्रदर्शयतिउवगरणनिमित्तं तु, वुग्गहो दिस्स वावि गणभेयं / बालादी थेराण व, उचियाकरणम्मि बाघातो॥४०६|| उपक रणनिमित्तं साधूनामाचार्य कृ तभक्त प्रत्याख्याने व्युद् गह:-कलहो भवति / अथवा-तं गणधरं के चिन्न मन्यन्ते, ततः स्वस्वपक्षपरिगहतो गणभेदः, तत एवमुपकरणनि -