________________ पचक्खाण 110- अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण यव्यापारम्याऽभावात् / अथैतङ्ख्यापारमन्तरेणाऽपि कार्यबन्ध इष्यते, एवं च सति मुक्तानामपि कर्मबन्धः स्यात्, न चैतदिष्यते, तस्मात नैव स्वप्रान्तिकमविद्योपचितं कर्मबध्यत इति / तत्र यद्येवं भूतैरेव मनोवाकायव्यापारैः कर्मबन्धोऽभ्युपगम्यते तदेवं -व्यवस्थिते सति येते एवमुक्तवन्तः, तद्यथा-अविद्यमान-रेवाशुभैोगैः पापकर्म क्रियते, मिथ्या त एवमुक्तवन्त इति स्थितम् / / 2 / / तदेवं चोदकेनाऽऽचार्यपक्षं दूषयित्वा स्वपक्षे व्यवस्थापिते सत्याचार्य आहतत्थ पन्नवए चोयगं एवं बयासी-तं सम्मं जं मए पुग्वे वुत्तंअसंतएणं मणेणं पावएणं असंतियाए वत्तियाएपावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयकायवकस्स सुविणमवि अपस्सओ पावे कम्मे कजति, तं सम्म। कस्स णं तं हेतुं ? | आयरिय आह-तत्य खलु भगवया छज्जीवणिकायहेऊपण्णत्ता तंजहा-पुढविकाइया०जावतसकाइया, इचेएहिं छहिं जीवणिकाएहिं आया अपडिहयपचक्खायपावकम्मे निचं पसढविउवातचित्तदंडे / तं जहा-पाणातिवाए०जाव परिग्गहे, कोहे०जाव मिच्छांदसणसल्ले / / 3 / / तत्राऽऽचार्यः स्वमत्तमनू द्य तस्योपपत्तिकं साधयितुमाह-(तं सम्ममित्यादि) यदेतन्मयोक्तं प्राग् यथा स्पष्टा ऽव्यक्तयोगानामपि कर्मवध्तये, तत्सम्यक् शोभनं युक्तिसङ्तमिति / एवमुक्ते पर आहकस्य हेतो : केन कारणेन तत्सम्यगिति चेत ? / आह-(तत्थ खलु इत्यादि) तत्रेति वाक्योपभ्यासार्थम् / खलुशब्दो वाक्यालडकारे। भगवता वीरवर्द्धमानस्वामिना षड्जीवनिकायाः कर्मबन्धहेतुत्वेनोपन्यस्ताः। तद्यथा-पृथ्विीकायिका इत्यादि, यावत्रसकायिका इति / कथमेते षड् जीवनिकायाः कर्मबन्धस्य कारणमिति ? आह(इचेएहिमित्यादि) इत्येतेषु पृथिव्यादिषु षड्जीवनिकायुषु. प्रतिहतं विघ्नितं प्रत्याख्यातं नियमितं पापं कर्म येन स तथा / पुनर्नसमासेनाऽप्रतिहतप्रत्याख्यातपापकर्मा य आत्मा जन्तुः, तथा तद्वत्वादेव नित्यं सर्वकालं प्रकर्षण शटः, ति तथा व्यपाते प्राणव्यपरोपणे चित्तं यस्यस व्यतिपातचित्तः, स्वपरदण्डहेतुत्वाद्दण्डः, प्रशठश्वासौ व्यतिपातचित्तदण्डश्चेति कर्मधारयः / इत्येतदेव प्रत्येक दर्शयितुमाह- (तं जहेत्यादि) तद्यथा-प्राणातिपात विधेये प्रशठचित्तदण्डः। एवं मृषावादादत्ताज्ञानमैथुनपरिग्रहेष्वपि वाच्यम्।यावन्मिथ्यादर्शनशल्यमिति, तेषामिहैकन्द्रियविकलेन्द्रियाऽऽदीनामनिवृत्तत्वाम्मिथ्यात्वाविरतिप्रभादकषाययोगानुगतत्वं द्रष्टव्यम्। तद्भवाच ते कथं प्राणातिपाताऽऽदिदोषवत्तया व्यक्तिविज्ञाना अपि खप्नाऽऽद्यवस्थायामिति ते कर्मबन्धका एव ? / तदेव व्यवस्थिते यत्प्रागुक्तं परेण-यथा नाव्यक्तविज्ञानानामघ्नताममनस्कानां कर्मबन्ध इत्येतत्प्ल वते / / 3 / / __साम्प्रतमाचार्यः स्वपक्षसिद्धये दृष्टान्तमाहतत्थ खलु भगवया वहए दिटुंते पण्णत्ते / से जहाणामए वहए सिया गाहावइस्स वा गाहावइपुत्तस्स वा रण्णो वा रायपुरिसस्स वा खणं निद्दाणं निदाए पविसिस्सामि, स्वणं लभूणं बहिस्सामि | पहारेमाणे, से किं तु हु नाम से बहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वा रण्णो वा रायपुरिसस्स वा खणं निदाए पविसिस्सामि, खणं लखूणं बहिस्सामि, पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभुते मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवति, एवं वियागरेमाणे समियाए वियागरे चोयए हंता ! भवति॥४॥ (तत्थ खलु भगवया इत्यादि) तत्रेति वाक्योपन्यासार्थः / खलुशब्दो वाक्यालड कारे। भगवतैश्वर्याऽऽदिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृता वधकदृष्टान्तः प्रज्ञप्तः प्ररुपितः। तत् यथानाम वधक्रः कश्चित्स्यादिति / कुतश्चिन्निमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति / यस्याऽसौ वधकस्तं विशेषेण दर्शयितुमाह(गाहावइस्स वा इत्यादि) गृहस्य पतिगृहपतिस्तत्पुत्रो वा / अनेन सामान्यतः प्राकृतपुरुषोऽभिहितः, तस्योपरि कुतश्चिन्निमित्ताद्वधकः कश्चित्सवृतः, स च वधपरिणामपरिणतोऽपि करिमश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति / तथा- राज्ञः, तत्पुत्रस्योपरि कुपित एतत्कुर्यादित्याह- (खणं निहाय इत्यादि) क्षणमवसरम् (णिद्दाय त्ति) प्राप्य तथाविधस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति / तथाक्षणमवसर छिद्राऽऽदिक वध्यस्य लब्ध्वा तदुत्तरकालं तंवध्यं हनिष्यामीत्येवं संप्रधारयति। एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य, राज्ञो वा विशिष्ठतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वाऽपरकार्यक्षणे सति / तथा-वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी किश्चित्कालमुदारते, स चतत्रोदासीम्यं कुर्वाणोऽपरकार्ये प्रति व्यग्रचेताः सख्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति / स चैवंभृतोऽपि तथा तं वध्य प्रति नित्यमेव प्रशछव्यतिपातचित्तदण्डो भवति / एवमविद्यमानैरपि प्रव्यक्तैरशुभैयोगैरेकेन्द्रियविकलेन्द्रियाद्यादवोऽस्पष्टविज्ञाना अपि मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वात्प्राणातिपाताऽऽदिदोषवन्तो भवन्ति / य च तेऽवसरन्नपेक्षमाणा उदासीना अप्यवैरिणो न भवन्तीति / अत्र च वध्यवधकयोः क्षणापेक्षया चत्वारो भङ्गाः। तद्यथावध्यख्याऽनवसरो, वधकस्य च, उभयोर्वाऽनवसरो, द्वयोरप्यवसर इति। नागार्जुनीयास्तु पठन्ति- "अप्पणो अक्खाणया एतस्स वा पुरिसस्स छिड़ अलभमाणे णो वहेर, तं जया मे अणो भविस्सइ तस्सं पुरिसस्स छिई लभिस्तामि, तया मे स पुरिते अवस्सं वहयव्वे भविस्सइ, एवं मणो पहारेमाणे।" इति सूत्रं निगदसिद्धम्। साम्प्रतमाचार्य एव स्वाभिप्रेतमर्थ परप्रयत्नपूर्वकमाविर्भावयन्नाह-(से किंतुहु इत्यादि) आचार्याः स्वतो हि निर्णीतार्थेऽसूयया परं पृच्छति-किमिति ? तुरिति वितर्के, हुशब्दो वाक्यालङ्कारे। किमसौ वधकपुरुषावसरापेक्षी छिद्रमवसर प्रधारयन् पर्यालोचयनहर्निशं सुप्तो जाग्दवस्थो वा तस्य गृहपतेज्ञो वा वध्यस्यामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोस्विन्नेत्येवं पृष्टः परः समतया माध्यस्थ्यमवलम्बमानो यथाऽवस्थितमेवं व्यागृणीयात्। तद्यथा- हन्त ! आचार्य ? भवत्यसावमित्रभूत इतीत्यादि // 4 // तदेवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं दर्शयितुमाहजहा से बहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वा