________________ 1327 - अभिधानराजेन्द्रः - भाग 5 ले कारणे सति कार्यानुत्पत्तिर्युत्का, तस्याऽतकार्यत्वप्रसङ्गात्। अथ पूर्व सहकारिकारणाभावान्न तत्कार्य, किं पुनः स्ययमसमर्थस्याकिञ्चितकरेण सहकारिणा किञ्चित्करत्वेऽपि यदि तत्ततो भिन्नं क्रियते प्रतिबन्धासिद्धिरनवस्था वा अभिन्नस्य करणेऽप्यात्मन करणमिति कार्यता / कथञ्चिदभिन्नस्य करणे तबुद्धिरपि, ततः कथञ्चिदभिन्नेति न एकान्तेन तस्याः क्षणिकता (1 गाथा टी०) सम्म०१ काण्ड। (1 गाथा टी०) बुद्धेर्गुणत्वम्तथाहि-गुणो बुद्धिः, मतिबिध्यमानद्रव्यकर्मभावे सति सत्तासंबन्धित्वात्, यो यःधतिषिध्यमानद्रव्यकर्मभावे सति सत्तासंबन्धो स स गुणः, यथा, रूपाऽऽदिः,तथा चबुद्धिः, तस्माद् गुणः। न च प्रतिषिध्यमानद्रव्यकर्मत्वमसिद्ध बुद्धेः। तथाहि-बुद्धिर्द्रव्यं न भवति, एकद्रव्यत्वाद, यददेकद्रव्यं सत्तद् द्रव्यं न भवति, यथा रूपाऽऽदि, तथा च बुद्धिः, तस्मानविशेषवत्वे सत्ये केन्द्रियप्रत्यक्षत्वात्, यद्यत्सामान्यविशेषेवत्वे सत्येकेन्द्रियप्रत्यक्षं तत्तदेकद्रव्यं, यथा रूपाऽऽदि, तथा च बुद्धिः, तस्मादेक द्रव्या / न च एकेन्द्रियप्रत्यक्षत्वाद्' इत्युच्यमाने आत्मना व्यभिचारः, तस्यैकेन्द्रियप्रत्यक्षत्वे विवादात् / आपि वायुना, तत्रापि तत्प्रत्ययक्षत्वस्य विवादाऽऽस्यदत्वात. तथापिरूपत्वाऽऽदिना व्यभिचारः, तनिनवृत्त्यर्थं 'सामान्यविशेषवत्वे सति' इति विशेषणोपादानम् / न च रूपस्यान्तः करणग्राह्यतया द्वीन्द्रियग्राह्यता, चक्षुरिन्द्रियस्यैव 'च, क्षुषा रूपं पश्यामि' इति व्यपदेशहेतोः, तत्र करणत्वसिद्धिः, मनसस्त्वान्तरार्थप्रतिपत्तावेवाऽसाधारणकरणत्वात्। अथवैकद्रव्या बुद्धिः, सामान्यविशेषवत्वे अगुणवत्त्वे च सत्यचाक्षुषप्रत्यक्षत्वात्, शब्दवत्। तथा, न कर्म बुद्धिः संयोगविभागाकारणत्वात, यद्यत् संयोगविभागाकारणं तत्तत्कर्म न भवति, यथा रूपाऽऽदि, तथा च बुद्धिः तस्मान्न कर्म / तस्मात्सिद्धः प्रतिषिध्यमानद्रव्यकर्मभावो बुद्धः / न च सत्तासंबन्धित्वमसिद्धं युद्धेः, तत्र 'सत्' इति प्रत्ययोत्पादात्। न च सत्ता भिन्ना न सिद्धा, तद्भेदप्रतिपादकप्रमाणसद्भावात्। तथा हि-यस्मिन् भिद्यमानेऽपि या भिद्यते तत् ततोऽर्थान्तरं, यथा भिद्यमाने वस्त्राऽऽदावभिद्यमानो देहः, भिद्यमाने च बुद्ध्यादौन भिद्यते सत्ता, द्रव्याऽऽदौ सर्वत्र सत्सद्' इति प्रत्ययाभिधानदर्शनात्, अन्यथा तदयोगात् / सा च बुद्धिसंबद्धा, ततस्तत्र विशिष्टप्रत्ययप्रप्रतीतः / तथाहि-यतो यत्र विशिष्टप्रत्ययः स तेन संबद्धः, यथा दण्डो देवदत्तेन, भवति च बुद्ध्यादौ सत्तातस्तत्प्रत्ययः ततस्तया संबवेति / प्रतिषिध्यमानद्रव्यकर्मत्वाद्' इत्युच्यमाने सामान्याऽऽदिना व्यभिचारः तनिनवृत्यर्थे 'सत्तासंबन्धित्वाद्' इति वचनम् / ‘सत्तासंबन्धित्वाद्' इत्युच्यभाने द्रव्यकर्मभ्यामनेकान्तः, तन्निवृत्यर्थे प्रतिषिध्यमानद्रव्यकर्मभावे सति इति विशेषणं, तदेवं भवत्यतोऽनुमानाद् बुद्धेर्गुणत्वसिद्धिः, (अस्मदाद्युपलभ्यमानत्वं च बुद्धेस्तदेकार्थसमवेतानन्तरज्ञानप्रत्यक्षत्वान्नासिद्धम्। (1 गाथा टी०) सम्म०१ काण्ड। यदपि चिद्रूपत्वादुद्धर्भेदप्रसाधनायपरैरनुमानमुपन्यस्यतेयद्यदुत्पत्तिमत्वनाशित्वाऽऽदिधर्मयोगि तत्तचेतन, यथा रसाऽऽदयः तथा च बुद्धिरिति स्वभावहेतुरिति / तत्राऽपि वक्तव्यम्-किमिदं स्वतन्त्रसाधनम्, आहोश्वित् प्रसङ्गसाधनमिति ? तत्र स्वतन्त्रसाधानेऽन्यतरासिद्धो हेतुर्यतो यथाविधमुत्पत्तिमत्वमपूर्वोत्पादलक्षणं नाशित्वं च निरन्व गविनाशा ऽऽत्मक प्रसिद्ध बौद्धस्य न तथाविधं सांख्यस्य, तयोराविर्भावतिरोभावरूपत्वेन तेनाङ्गीकरणात्, यथा च साख्यस्य तौ प्रसिद्धौ न तथा बौद्धस्येति कथं नान्यतरासिद्धता ? न च शब्दमात्रासिद्धौ हेतुसिद्धिः, वस्तुसिद्धौ वस्तुन एव सिद्धस्य हेतुत्वात् / तदुत्कम् - "तस्यैव व्यभिचाराऽऽदौ, शब्देऽप्य व्यभिचारिणि / दोषवत्साधनं शेयं, वस्तुनो वस्तुसिद्धितः / / 1 / / '' इति / अथ प्रसङ्ग साधनमिति पक्षः तदा साध्यविपर्यये बाधकप्रमाणप्रदर्शनादनकानितकता, नात्रा प्रतिबन्धोऽस्ति चेतनस्योत्पाद्-नाशाभ्यां न भवितव्यमिति। यदपि प्रकल्पितम् "वत्सविवृद्धिनिमित्तं, क्षीरस्य यथा प्रवृत्तिरज्ञस्य। पुरुषविमोक्षनिमित्तं, तथा प्रवृतिः प्रधानस्य // 1 // ' (साङ्घयकारिका 57) इति तथापि न सम्यक् / यतः क्षीरमपि न स्वातन्त्र्येणं वस्तविवृद्धि चेतस्याधाय प्रवर्तते, किं तर्हि ? कादाचित्केभ्यः स्वहेतुभ्या प्रतिनियतेभ्यः समुत्पत्तिमासादयति। तच लब्धाऽऽत्मलासं वत्सविवृद्धिनिमित्ततामुपयातीत्याचेतनमपि प्रवर्त्तते इति व्यपदिश्यते, मत्वेवं प्रधानस्य कादाचित्कीप्रवृत्तिर्युक्ता, नित्यत्वात्तस्यान्यहेत्वभावाच्च / तथाहि-न तावत्कादाचित्ककारणुसन्निधानायत्ता कादाचित्की शक्तिरस्य युत्का तदभावात् / नापि स्वाभाविकी सदा सन्निहिता, अविकलकारणत्वेन सर्वस्याभ्युययनिःश्रेयसलक्षणस्य पुरुषार्थस्य युगपदुत्पत्तिप्रसङ्गात्।न च बुद्धिचैतन्ययोरभेदेऽपि चैतन्यस्याऽऽत्मत्वप्रतिषिद्धमेव, यतो नास्माभिः चैतन्ये आत्मशब्दनिवेशः प्रतिषिध्यते, किं तर्हि यस्तता नित्यत्वलक्षणोधर्मः समारोपितः स एव निषिध्यते, तन्नित्यत्वेऽक्षसंहतेवैफल्यप्रसत्केः, तदुत्पत्यर्थत्वात्तस्या-नित्यत्वे चोत्पत्तेरसंभवात् / न हि वः सदाऽस्तित्वेतदर्थ जनतेन्धनमाददीत। तन्न नित्यैकरूपं चैतन्य युक्सिङ्गतम् / (3 गाथा)। सम्म०१ काण्ड। अवग्रहेहारूपे मतिज्ञानभेदद्वये, नं० / अवग्रहे बुद्धिरपायधारणे मतिः। नं०। अष्टो बुद्धिगुणाः। ते चामोसुस्सूसइ पडिपुच्छइ, सुणेइ गिण्हइ य ईहए चाऽवि। तत्तो अपोहए वा, धारेइ करेइ वा सम्मं // 561 / / विनययुत्को गुरुमुखात् श्रोतुमिच्छति शुश्रूषते, पुनः पृच्छति प्रतिपृच्छतितदधीतं श्रुतं निःशङ्कितं करोतीत्यर्थः / तचाऽधीतं श्रुतमर्थतः शृणोति / श्रुत्वाऽवग्रहण गृह्णाति, गृहीत्वा चेहया ईहते पर्यालोचयतिकिमिदमित्यम् ? उतान्यथेति ? चशब्दः समुच्चार्थः / अपिशब्दात्पर्यालोचयन् किञ्चित्स्वबुद्ध्याऽप्युत्प्रेक्षते / ततस्तदनन्तरमपोहते च एवमेतद्यदादिष्टं गुरुभिरेवं निश्चिनोति / निश्चिते चार्थे सदैव चेतसि धारयति, करोति च सम्यक्तदुत्कानुष्ठानं, श्रुताऽऽज्ञानुष्ठानस्यापि तदावरणक्षायोपशमगुरुचित्ताऽऽवर्जनाऽऽदिहेतुत्वेन श्रुतप्राप्त्युपायत्वादिति। अथवा यद्यदाज्ञापयति कार्यजातं गुरुस्तत् तत् सम्यगनुग्रहं मायमानः श्रोतुमिच्छति शुश्रूषति। पूर्वनिरूपितश्च कार्यकरणकाले पुनः पृच्छति प्रतिपृच्छति। इत्थं चाऽऽराधितस्य गुरोरन्तिके सूत्रां, तदर्थ वा सम्यग शृणोति। श्रुतं चावग्रहण गृह्णाति, इत्यादि पूर्ववत् / अन्ये तु व्यालक्षतेप्रतिपृष्टेन गुरुणा पुनरादिष्टश्च संस्तद्वचः सम्यक् शृणोति, श्रुत चावग्रहेण सम्यगृहातीत्यादि तथैव, यावत्करोति च गुरुभणितं सम्यगिति। एवंगुराधनविषयत्वेनाष्टावपि गुणा व्याख्यायनते, श्रुतावाप्ती