________________ बुद्ध 1326 - अभिधानराजेन्द्रः - भाग 5 बुद्धि नेह प्रतन्यते। सूत्रा० 1 श्रु०१२ अ०। (अकिरियावाइ' शब्दे प्रथमभागे 127 पृष्टेऽप्ययं प्रतिक्षिप्तः) बुद्धगर पु० (बुसकर) षट्त्रिंशत्तमे ऋषभदेवपुत्रो, कल्प०१ अधि०१क्षण। बुद्धजागरिया स्त्री० (बुद्धजागरिका) व्यपोढाज्ञाननिद्राणां प्रबोधे, ''बुद्धा बुद्धजागरियं जागरेंति।" बुद्धाः केवलावबोधेन ते च बुद्धानां व्यपोढाज्ञाननिद्राणां जागरिका प्रबोधो बुद्धजागरिका, तां जाग्रतिं कुर्वन्ति। भ०१२ श०१ उ०। बुद्धतत्तपुं० (बुद्धतत्व) संयते, स्था० 3 ठा० 4 उ०। बुद्धपडिमा स्त्री० (बुद्धप्रतिमा) शाक्यसिंहाऽऽदिबुद्धमूर्ती, व्य०१ उ०। बुद्धपुत्त पुं० (बुद्धपुत्रा) बुद्धानामाचार्याणां पुत्र इव पुत्रो बुद्ध पुत्रः। आचार्याणां शिष्ये, उत्त०१ अ०। बुद्धप्पवाय पुं० (बुद्धप्रवाद) आप्तप्रवादे, पं०व०१द्वार। बुद्धबोहिय त्रि० (बुद्धबोधित) आचार्याऽऽदिबोधिते. पा०। बुद्धबोहियसिद्ध पुं० (बुद्धबोधितसिद्ध) बुद्धबोधिता आचार्याऽऽदिबोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः / सिद्धभेदे पा०। ध०। ल०। श्रा०। नं०। प्रज्ञा० / आ० चू०। बुद्धमाणि(ण) पु० (बुद्धमानिन्) पण्डितमानिनि, वयमेव प्रतिबुद्धा धर्मतत्त्वमित्येवं मन्यमाने, "तमेव अविआणता, अबुद्धा बुद्धमाणिणो। (25 गाथा)' सूत्रा 1 श्रु०११ अ०। बुद्धवयणन० (बुद्धवचन) अवगततत्त्वीर्यकरगणधरवचने, दश०१० अ० / औ०। भगवतामर्हतां वचने सर्वस्वभाषाऽनुगते वचने, रा०ा (बुद्धवचनातिशयाः 'अइसेस' शब्दे प्रथमभागे 31 पृष्ठे गताः) बुद्धसासण न० (बुद्धशासन) बौद्धाऽऽगमे, "सूक्ष्मयुक्तिश तोपेतं, सूक्ष्मबुद्धिकरं परम्। सूक्ष्मार्थदर्शिभिदृष्ट, श्रोतव्यं बुद्धशासनम्॥१|| स्था० 7 ठा० / 'गन्ता च नास्ति कश्चिद्, गतयः षड़ बौद्धशासने प्रोक्ताः। गम्यत इति च गतिः स्याच्छुतिः कथं शोभना बुद्धिः? ||1|| सूत्र०१श्रु० 12 अ०। आ०म०। अनु०। बुद्धाइसेस पुं० (बुद्धातिशेष) तीर्थकृतामतिशये, स०३४ सम०।। बुद्धि स्त्री० (बुद्धि) महत्तत्त्वाऽऽख्ये जडानवबोधस्वरूपे, स्या० / 'मेहा मई मणीसा, विन्नाणं धी चिई बुद्धी'' पाइ० ना०३१ गाथा / अध्यवसाये, सूत्र०१ श्रु०१२ अ० स्या०। मत्यादि पञ्चविधेज्ञाने, स्या०। उपयोगो ज्ञानमित्येतच ज्ञानविशेषः / सूत्र०१ श्रु०१२ अ०। तथाविधोहरहिते शब्दार्थश्रवणमात्रजे ज्ञाने, यदाह-''इन्द्रियार्थाऽऽश्रया बुद्धिः / ज्ञानं तथाविधेन गृहीतार्थतत्त्वपरिच्छेदः। द्वा० 23 द्वा०। बुद्धः परप्रकाश्यत्वम्। द्वा०११ द्वा०॥ बुद्धेः क्षणिकत्वनिराकरणम् - तथात्वे (क्षणिकत्ये) वा तस्याः (बुद्धेः) न ततस्संस्कारः तदभावान्न स्मरणं, तदभावाच न प्रत्यभिज्ञाऽऽदिव्यवहारः न हि विनष्टात्कारणात् कार्यम्, अन्यथा चिरतरविनष्टादपि ततस्तत्प्रसङ्गात्, अनन्तरस्य कारणत्वे सर्वमनन्तरं तत्कारण मासज्येत / अथैकार्थसमवायिज्ञान- | मनन्तरं तत्कारणं, न; ज्ञानस्याऽऽत्मनो भेदे समवायस्य सर्वज्ञाऽविशेष इत्यसिद्धम् विनष्टाच कारणात्कथमनन्तरं कार्य , येनाऽऽनन्तर्य कार्यकारणभावनिबन्धनत्वेन कल्प्येत? न हि तत्कारणं, नापि तत्तस्य कार्य, तदभाव एव भावात् / न हि यदभावेऽपि यद्भवति तत्तस्य कार्यमितरकारणमिति, व्यवस्था, अतिप्रसङ्गात् / विनश्यदवस्थं कारणमिति चेन्न / सोऽपि विनश्यदवस्था यदि ततो भिन्ना, तर्हि तया तदभिसंबन्धाभावादनुपकाराद् विनश्यदवस्थम् इति कुतो व्यपदेशोऽतिप्रसङ्गादेव? उपकारे वा सोऽपि यदि ततो व्यतिरिक्तोऽतिप्रसङ्गोऽनवस्थाकारी। अव्यतिरेके विनश्यदवस्यैव तेन कृता स्यात्, तामपि यद्यविनश्यदवस्थमेव कारणमुत्पादयत्किं प्रकृतेऽपि विनश्यदवस्थाकल्पनेन ? विनश्यदवस्थं चेत्तां कुर्यादन्या तर्हि ततोऽर्थान्तर भूता विनश्यदवस्था कल्पनीया। तया तदभिसंबन्धाभावः अनुपकाराद्। उपकारे वा तदवस्थः प्रसङ्गोऽनवस्था च / तथा चापरापरविन श्यदवस्थोत्पादनेनोपक्षीणशक्तित्वात्प्रकृतकार्योत्पादमनवसरं प्रसत्कम् विनश्यदवस्थायास्तत्रा समवायात्तद्विनश्यदवस्थमित्यपिवार्तम्, विहितोत्तरत्वात्। अयाऽभिन्ना, तर्हि विनश्यदवस्था, कारणैसंमयसंगता. एवं च विनश्यदवस्थं कारणं कार्य करोतीति, कोऽर्थः? स्वोत्पत्तिकाल एव करोतीत्यर्थः। समायातस्तथा च कार्यकारणयोः सव्येतरगोविषाणवदेककालत्वान्न कार्यकारणभावः, तथाऽपि तद्भावे सकलकार्यप्रवाहस्यैकक्षणवर्तित्वम् / अथ न सौगतस्येवाणोरण्वन्तर व्यतिक्रमलक्षणेन क्षणेन क्षणिकत्वयेनायंदोषःकिं तु षट् समयस्थित्यनन्तरनाशित्वंतत्, ननु कालान्तरस्थायिनि तथा व्यवहार कुर्यन, सहस्रक्षणस्थायिन्यपि तत्रातं किं न कुर्यात् ? अपि चपूर्वपूर्वक्षणसत्तातः उत्तरोत्तरक्षणसत्ताया भेदाभ्युपगमेतदेव सौगतप्रसिद्ध क्षणिकत्वमायातम्। अभेदाभ्युपगमे पूर्वक्षणसत्तायामेवोत्तरक्षणसत्तायाः प्रवेशादेकक्षणस्थायित्यमेव, नषट्क्षणस्थायित्वं बुद्धः परपक्षे संभवति, भेदेतरपक्षाभ्युपगमे, चाऽनेकान्तसिद्धिः, षट्क्षणस्थानानन्तरं च निरन्वयविनाशेन ततः किंचित्कार्य सम्भवतीत्युक्तम्। न चैवं बुद्धिक्षणिकत्ववादिनः वचित्कालान्तरावस्थायित्वं सिद्ध्यति, तद्ग्रहणाभावात् / तथाहि - पूर्वकालबुद्धेस्तदैव विनाशान्नोत्तर कालेऽस्तित्वमिति न तेन तया सांगत्यं कस्यचित्प्रतीयते, अति प्रसगात्। उत्तरबुद्धेश्च पूर्वसंभवान्न पूर्वकालेन तत्तयाऽपि प्रतीयते। उभयत्राऽऽत्मनः सद्भावात्ततस्तत्प्रतीतिरित्यपि नोत्तरम्, आकाशसद्भावात्तत्प्रतीतिरित्यस्यापि भावात् / तस्या चेतनत्वान्नेति चेत्, स्वयं चेतनत्वे आत्मनः स येन स्वभावेन पूर्व रूपं प्रतिपद्यते न तेनोत्तरम्, न हि नीलस्य ग्रहणमेव पीतग्रणं, तयोरभेदप्रसङ्गात् / अथान्येन स्वभावेन पूर्वमयग-च्छन्ति, अन्येनोत्तरमिति मतिस्तथासत्यनेकान्त सिद्धिः / स्वयं चाऽऽत्मनश्चेतनत्वे किमन्यथा बुध्या ? यस्याः क्षणिक्त्वं साध्यते ? अथ स्वयं नचेतन आत्मा, अपितु बुद्धिसंबन्धात्चेतयत इत्याप्यचेतनस्वभावपरित्यागे नित्यताऽऽत्मनोऽन्यबुद्धिकल्पनावैफल्य च, स्वयमपि तत्संबन्धात् प्रागपि तथाविधस्वभावाविरोधात् / तत्संबन्धेऽपि तत्स्वभावापरित्यागे'ज्ञानसंबन्धादात्मा चेतयते' इत्यपि विरुद्धमेव / अथ तत्समवायिकारणत्वात् चेतयते, न स्वयं, चेतन स्वभावोपादानादिति तर्हि येन स्वभावेन पूर्वज्ञानं प्रति समवायिकारणमात्मा तेनैव यद्युत्तरं प्रति, तथा सति पूर्वमेव तत्कार्यं ज्ञानं सकल भदेत, न ह्यविक