________________ पचक्खाण 108 - अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण काशनकोपवासाऽऽदितपोरुपः संवरणं बहुभिराकारैगृहीतस्यैकाऽऽसनकाऽऽदिप्रत्याख्यानस्य भोजनानन्तरमाकारसंक्षेपेण स्वरुपम्, उत्तरगुणश्व संवरणं चोगुणसंवरणे, तयोरेवं सर्वानागताद्धाप्रत्याख्यानपक्षेऽभ्युपगम्याने सर्वथैवाभावः प्रप्नोति, पौरुष्यादिषु सर्वानागताद्धाप्रत्याख्यानत्वानुपपत्तेः, एकाशनकाऽऽदिषु पुनस्त्वदभिप्रायेण सर्वाद्धाप्रमाणेषु संवरणं कदाचिदपि न घटत इति व्यक्तमेवेति // 2536 / / अथापरिच्छेदोऽपरिमाणमिति तृतीयपक्षमपाकर्तुमाहअपरिच्छेए वि समा-ण एस दोसो जओ सुए तेणं। वयभंगभयाउ चिय,जावज्जीवं ति निविट्ठ / / 2540 / / यतोऽपरिच्छेदरुपेऽप्यपरिमाणेऽभ्युपगम्यमाने एव सर्यानागताद्धाप्रत्याख्यानोक्तदोषः समान एव / तथाहि-कालापरिच्छेदेनापि प्रत्याख्याने कृते किं घटिकाऽऽदिमात कश्चित्कालं प्रतीक्ष्य प्रतिसेवां करोतु, आहोस्वित्सर्वमप्यनागताद्धाप्रत्याख्यानं पालयतु ? / यद्याद्यः पक्षः, तनिवस्था, यावद्धि घटिकां प्रतीक्षतेतावद् द्वे अपि घटिके किं न प्रतीक्षते ? यावच द्वे प्रतीक्षते तावन् तिस्त्रोऽपि किं न प्रतीक्षते? इत्यादि / अथ द्वितीयः पक्षः, तर्हिमृतस्यापि भोगानासेववानस्य व्रतभङ्ग / एव, सिद्धस्यापि संयतत्वम्, उत्तरगुणसंवरणाभावश्वेति त एव दोषाः / उपसंहरन्नाह- (सुए तेणेत्यादि) तेनैतान् परिमाणप्रत्याख्यामदोषानभिवीक्ष्य व्रतभङ्गभयादेव त्रिपक्षपरिहारेण श्रुत आगमे- "सव्वं सावर्ज जोगं पचक्खामि जावजीवाए।" इत्यत्र साधुप्रत्याख्यानस्य यावजीवमिति परिमाणमादिष्टम्, अतो मुच्यतामपरिमाणताग्रह इति / / 2540 / / आह- ननु सपरिमाणे प्रत्याख्याने मयाऽऽशंसालक्षणो दोष उक्त एव, स कथम् ?, इत्याहनासंसा सेविस्सा-मि किं तु मा मे मयस्स वयभंगो। होही सुरेसु को वा, वयावगासो विमुक्कस्स ?||2541 // यावजीवावधिना प्रत्याख्यानं कुर्वतो मरणानन्तरमहं भोगान् सेविप्ये इत्येवंभूता हस्त ! चिदाशंसा वर्त्ततेनैवंभूतेन परिणामेन सार्वधिक प्रत्याख्यानं करोतीत्यर्थः / किं तु मा मे मृतस्यसुरेषूत्पन्नस्य सतो भोगानासेवमानस्य व्रतभङ्गो भविष्यति, इत्यध्यवसायेन मा मे व्रतभङ्गस्तत्र भूयादू इत्येवंभू तेनैव शुभपरिणामेनेत्थंभूतं प्रत्याख्यानं करोतीत्यर्थः, अतस्तत्र का आशंसा? हिस विरत्यावारककर्मणः क्षयोपशमावस्थत्वादत्र स्वायत्तः, सुरलोके त्ववश्यं तदुदयात्परायत्त इश्यतःशक्यत्वाद्यावजीवावधिना प्रत्याख्याति,परतस्त्वशक्यत्वान्न प्रत्याख्याति, इति कथमाशंसादोषवानयम्? इति / अथैवं ब्रूयास्त्वं-किमितीत्थं व्रतभङ्गाद्विभेत्यसौ? अयं हि मृतो मुक्तिं यास्यति, तत्र चकामभोगाभावाहतभङ्गासंभव एव, इतिक्रस्तस्य व्रतभड़संक्षोभः? तदयुक्तम्। सांप्रतभिह मुक्तिगमनासंभवात्, महाविदेहेष्वपि सर्वस्यापि तद्गमननिश्चयायोगादिति / अथ कोऽपि तावन्मुक्तिं गच्छति, तस्य च विमुक्तस्य / मदभिमतेऽपरिमाणे प्रत्याख्याने गृह्यमाणे मुक्तावपि महाव्रतानुगमादपरिमाणप्रत्याख्यानस्य सफलता भविष्यतीति चेदित्यत्राऽऽह ''को धा दयेत्यादि' योऽपि मुक्तिं गच्छति तस्याऽपि विमुक्तस्य निष्ठितार्थस्य को व्रतानामवकाशः? किं व्रतानां साफल्यम् ? तत्कार्यस्य सिद्धत्वान्न किञ्चिदिति भावः / तस्मान्मुक्तिगामिनमपि प्रत्यसंगतमेवाऽपरिमाणप्रत्याख्यानमिति / तदेवं मुग्धमभिज्ञ वा व्यक्त्याऽनपेक्ष्य सामान्येनैवापरिमाणप्रत्याख्याने दूषणान्युक्तानि // 2541 / / अथ निर्धार्य किञ्चिदभिज्ञं प्रति दूषणमाहजो पुणरव्वयभावं, मुणमाणोऽवस्सभाविनं भणइ। वयमपरिमाणमेवं, पचक्खं सो मुसावाई // 2542 / / यः पुनरग्रेऽपि किचिच्छास्त्रपरिकर्मितमतिर्विज्ञो व्रतं गृण्हाति, विज्ञत्वादेव च चीर्णव्रतः सुरलोकमेव गच्छति, इत्युवषुद्ध्यमानः सुरेषु चाव्रतभावमविरतिभावमवश्यंभाविन मुणन् जानानोऽपि व्रतं प्रत्याख्यानमपरिमाण यावजीवपरिमारहितं मणत्युचरति ख एवं टुवाणः प्रत्यक्ष साक्षादेव मृषावादी, अन्यथा भणित्वा अन्यथा करणादिति // 2542 / / अपिचभावो पचक्खाणं, सो जइ मरणपरओ वि तो भग्गं / अह नत्थिन निहिस्सइ,जावजीवं ति तो कीस ?2543 भावश्चैतसिको विरतिपरिणामः प्रत्याख्यानमुच्यते, स च प्रत्याएयातुर्यावजीवावधिमेवास्ति, उत मरणपरतोऽपीति वक्तव्यम् ? यद्यनन्तरपक्षस्तर्हि भग्नं तस्य प्रत्याख्यानम्, सुर लोकाऽऽदौ भोगसेवनादवइयंभावी तदङ्ग इत्यर्थः / अथाऽऽद्य पक्षस्तर्हि वचनेनऽपि यावज्जीवम्, इति परिमाणं प्रगुणेन न्यावेन किन निर्दिश्यते किं व क्रियते, येनान्यचैतस्यन्यत्तु वचनेनोथ्यते?इति।।२५४३॥ अथ भावोऽन्यथा, वचनं त्वन्यथा प्रोच्यते, तर्हि मायैव केवलमिति दर्शयन्नाहजइ अन्नहेव भावो चेतयओ वयणमन्नहा माया। किंवाऽभिहिएँ दोसो,भावाओ किं वओ गुरुयं ?2544 हन्त ! यद्यन्यथैव यावजीवावधिक एव चेतसि भावः प्रत्याख्यानपरिणामः, अन्यथैव च यावजीवावधिपरिणामरहितमेव वचनं, तह्योतचेतयतो जानतः केवलैव माया निश्चीयते / नान्यत्फलं दृश्यते, अन्यथा विचिन्त्यान्यथा भावणादिति / अथवा-प्रष्टव्योऽसि त्वम्-कि भावे तथा स्थितेऽपि “यावज्जीवाए।" इत्यभिहिते दोषः कश्चिद्वीक्ष्यते भवता, येन वचनेनापि नेदमभिधीयते ? यदि वा-किं भावात्सकाशात् (वउ त्ति) वचनं गुरुकं प्रधानं पइयसि त्वं, येन भावेऽन्यथा स्यितेऽपि प्रामाएयेन, वचनस्य त्वप्रामाएयेनाभिधाना दिति // 2544|| कः पुनरयमागम इत्याहअन्नत्थ निवडिए वं-जणम्मि जो खलु मणोगओ भावो। तं खलु पञ्चक्खाणं, न पमाणं वंजणं छलणा।२५४५।। इह केनापि त्रिविधाऽऽहारौऽऽदिप्रत्याख्यानं कर्तुमध्यवसितम्, अधिकतरसंयमकरणाऽऽक्षिप्तचेतसा पुनश्चतुर्विघमाहारं प्रत्याख्यामीत्यादिव्यञ्जन शब्द उचरितः। एवं च मानसभावाननुवृत्त्या व्यञ्जने शब्देऽन्यत्र निपतिते अन्यविषये समुचारिते यः खलु प्रत्याख्यानविषयानेकसूक्ष्मविवक्षाऽतिक्रान्तः स्पष्टः प्रत्याख्यातुर्मनोगतोभावस्तदेव प्रत्याख्यानं प्रमाणं, स एव