________________ बहुस्सुयपूया 1308 - अभिधानराजेन्द्रः - भाग 5 बहुस्सुयपूया - भवति? यद्यपि धर्मकीर्तिश्रुतानि निरुपले पताऽऽदिगुणेन स्वयं शोभाभाजि, तथाऽपि मिथ्यात्वाऽऽदिकालुष्यविगमतो निर्मलताssदिगुणेन शङ्ख इव पयो बहुश्रुते स्थितन्याश्रयगुणेन विशेषतः शोभन्ते, तान्यपि हि न तत्रा मालिन्यम्अन्यथाभावहार्निवा कदाचन प्रतिपद्यन्ते, अन्यत्रत्वन्यथाभूतभाजस्थपयोवदन्यथाऽपि स्युः। वृद्धास्तुव्याचक्षतेयथेन्यौपम्ये, "संखम्मिसंखभायणे पर्यखीरं निहितंठवितं, "न्यस्तमित्यर्थः, "दुहओ उभओसंखोखीरंच,अहवा–ठवंतओ खीरच, संखेण परिस्सवति ण य अबीभवति, विरायइ सोभति, एवमुवसंहारे अणुमाणे वा बहुस्सुओ सुत्तत्थविसारओ जानक इत्यर्थः / तस्स एवं भिक्खुभायणे दितस्स धम्मो भवति, कित्ती जसो, तथा सुयमाराहियं भवइ, अपत्ते दितस्स असुयमेव भवति। अहवा-इहलोए परलोए य सोभति पत्तदाई। अहवा-एवं गुणजाइए भिक्खू बहुस्सुए भवति, धम्मो कित्ती जसो य भवति, सुयं से (सुयमाराहियं) हवति, अहवा-इहलोए परलोए य विरायइ, अहवा-सीलेण य सुएण य / 'इति सूत्रार्थः / पुनर्बहुश्रुतस्तवमाह -- जहा से कंबोयाणं आइण्णे कंथए सिया। आसे जवेण पवरे, एवं हवइ बहुस्सुए।१६।। यथा येन प्रकारेण स इति प्रतीतः काम्बोजाना कम्बोजदेशोद्भवानां प्रक्रमादश्वानां, निर्धारणे षष्ठी, आकीर्णो व्याप्तः शीलाऽऽदिगुणैरिति गम्यते, कन्थकः प्रधानोऽश्वो यः किलदृपच्छकलभृतकुतुपनिपतनध्वनेर्न संत्रस्यति, स्याद्भवेदश्वस्तुरङ्गमो, जवेन वेगेन प्रवरः प्रधानः एवमित्युपनये, तत ईदशो भवति बहुश्रुतः, जिनधर्माप्रपन्नो हि वतिनः काम्बोजा इवाश्वेषु जातिजवाऽऽदिभिर्गुणैरन्यधार्मिकापेक्षया श्रुतशीलाऽऽदिभिर्वरा एव, अयं त्वाकीर्णकन्थकाश्ववत् तेष्वपि प्रवरः। इति सूत्रार्थः / / 16 // किंचजहाऽऽइण्णसमारूढे, सूरे दढपरक्कमे। उमओ नंदिघोसेणं, एवं हवइ बहुस्सुए।।१७।। यथा आकीपण जात्यादिगुणोपेतं तुरङ्ग में सम्यगारूढोऽध्यासित आकीर्णसमारूढः, सोऽपि कदाचित कातर एव स्यादत आह-शूरचारभटो दृढो गाढः पराक्रमः शरीरसामर्थ्याऽऽसत्मको यस्य स तथा, (उभओ त्ति) उभयतो वामतो, दक्षिणतश्च / यद्वा-अग्रतः, पृष्टतश्च। नन्दीघोषण द्वादशतूर्यनिनादाऽऽत्मकेन, यद्वा-आशीर्वचनानि नान्दी-'जीयास्त्वमि' त्यादीनि तद्घोषेण बन्दिकोलाहलाऽऽत्मकेन, लक्षणे तृतीया एवं भवति बहुश्रुतः, किमुक्तं भवति? यथैवंविधः शूरोन केनचिदभिभूयते न चान्यस्तदाश्रितस्तथाऽयमपि जिनप्रवचनतुरङ्गाऽऽश्रितो दृष्यत्परवादिदर्शनेऽपि चाऽास्तस्तद्विजयं च प्रति समर्थः, उभयतश्च दिनरजन्योः स्वाध्यायघोषरूपेण स्वपक्षरपक्षयोर्वा चिरं जीवत्वसौ येनानेन प्रवचनमुद्दीपितमित्याद्याशीर्वचनाऽऽत्मकेन नान्दीघोषेणोपलक्षितः परतीथिंभिरतीव मदावलिप्तैरपि नाभिभवितुं शक्यः, न चात्रा प्रतपत्येत दाश्रितोऽन्योऽपि कथञ्चिज्जीयते। इति सूत्रार्थः / / 17 // तथाजहा करेणुपरिकिणे, कुंजरे सट्ठिहायणे। बलवंते अप्पडिहए, एवं हवइ बहुस्सुए॥१८|| यथा करेणुकाभिर्हस्तिनीभिः परिकीर्णः परिवृत्तो यः स तथा, न पुनरेकाक्येव कुञ्जरो हस्ती षष्टिायनान्यस्येति षष्टिहायनः षष्टिवर्षप्रमाणः, तस्य ह्येतावत्कालं यावत्प्रतिवर्ष बलोपचयः ततस्तदपचय इत्येवमुक्तम्, अत एव च (बलवंते त्ति) बलं शरीरसामर्थ्यमस्यास्तीति बलवान् सन् अप्रतिहतो भवति, कोऽर्थः? नान्यैर्मदमुखैरपि मतङ्गजैः पराङ्मुखीक्रियते. एव भवति बहुश्रुतः सोऽपि हि करेणुभिरिव परप्रसरनिरोधिनीभिरौत्पत्तिक्यादिबुद्धिभिर्विद्याभिश्च विविधाभिर्वृतः षष्टिहायनतया चात्यन्तस्थिरमतिः, अतएव च बलवत्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्बहुरपि न प्रतिहन्तुं शक्यते। इति सूत्रार्थः / / अन्यच्चजहा से तिक्खसिंगे, जायक्खंधे विरायइ। वसहे जूहाहिवई, एवं हवइ बहुस्सुए।१६।। यथा स तीक्ष्णे निशिताग्रे शृङ्गे विषाणे यस्य स तथा, जातः अत्यन्तोपचितीभूतः, स्कन्धः प्रतीत एवास्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत्, तदुपचये हि शेषाङ्गान्युपचितान्येवास्य भवन्ति, विराजते विशेषेण राजते शोभते, वृषभः प्रतीतो, यूथस्य गवां समूहस्याधिपीतः स्वामी यूथाधिपतिः सन्, एवं भवति बहुश्रुतः सोऽपि हि परपक्षभेत्तृया तीक्ष्णाभ्यां स्वशास्रपरशास्त्राभ्यां शृङ्गाभ्या मिवोपलक्षितो गच्छगुरुकार्यधुराधरणधौरेयतया च जातस्कन्ध इब जातस्कन्धः, अत एव च यूथस्य साध्वादि समूहस्याधिपतिः आचार्यपदवीं गतः सन् विराजते / इति सूत्रार्थः / / अन्यचजहा से तिक्खदाडे, ओदग्गे दुप्पहंसए। सीहे मियाण पवरे, एवं हवइ बहुस्सुए।।२०।। यथा स तीक्ष्णा निशिता दंष्ट्राः प्रतीता एव यस्य स तीक्ष्ण-दंष्ट्रः, उदग्र उत्कट: उदग्रवयः स्थितत्वेन वा उदग्रः, अतएव (दुप्पहंसए त्ति) दुःप्रधर्ष एव दुःप्रधर्षकोऽन्यै र्दुरभिभवः, सिंहः केसरी, मृगाणामारण्यप्राणिना प्रवरः प्रधानो भवति, एवं भवति बहुश्रुतः। अयमपि हि परपक्षभेत्तृतया तीक्ष्णदंष्ट्राभिरिव नैगमा ऽऽदिनयैः प्रतिभाऽऽदिगुणोदग्रतया च दुरभिभवः, इत्यन्तीर्थाना मृगस्थानीयानां प्रवर एव / इति सूत्रार्थः / / अपरंचजहा से वासुदेवे, संखचक्कगदाधरे। अप्पडिहयबले, जोहे, एवं हवइ बहुस्सुए।।२१।। यथा य वासुदेवो विष्णुः शङ्खश्च पाञ्चजन्यः चक्र च सुदर्शन गदा च कौमोदकी शङ्खचक्रगदास्ता धारयति बहतीति शङ्खचक्रगदाधरः अप्रतिहतम् अन्यैः स्खलयितुमशक्यं बलं सामर्थ्यमस्येस्यप्रतिहतबलः / किमुक्तभवति ? एकंसहजसामर्थ्यवानन्यच तथाविधायोधान्वित इति