________________ बहुस्सुयपूया 1306 - अभिधानराजेन्द्रः - भाग 5 बहुस्सुयपूया युध्यत इति योधः सुभटो भवति, एवं भवति बहुश्रुतः सोऽपि होकं स्वाभाविकप्रतिभाप्रागल्भ्यदान् अपरं शङ्गचक्रगदाभिरिव सम्यग्दर्शनज्ञानचारित्रौरुपेत इति, योध इव योधः कर्मवैरिपराभवं प्रति इति सूत्रार्थः / अपरं चजहा से चाउरते, चक्कवट्टी महिड्डिए। चउदसरयणाहिवई, एवं हवइ बहुस्सुए।।२२।। यथा स चतसृष्वपि दिक्ष्वन्तः पर्यन्त एकत्र हिमावानन्या च दिकाये ससुद्रः स्वसम्बन्धितया अस्येति चतुरन्तः, चतुर्भिर्वा हयगजरथनराऽऽ मकैरन्तः शत्रुविनाशाऽऽत्मको यस्य स तथा, चक्रवती षट्खण्डभरताधिपो, महती ऋद्धिः समृद्धिरस्यति महर्द्धिकः दिव्यानुकारिलक्ष्मीकश्चतुर्दश च तानि रत्नानि चतुर्दशरत्नानि। तानि चामूनि- "सेणावति गाहवइ, पुरोहियगय तुरंग वड्डड्ग इत्थी। चवं छत्तं चम्म, मणि कागणि खम्ग दंडो य ||1|| तेषामधिपतिः चतुर्दशरत्नाधिपतिः एवं भवति बहुश्रुतः, सोऽपि ह्यासमुद्रमहीमण्डलख्यातकीर्तिस्तिसृषु दिक्षु अन्यत्र च वन्दीभूतविद्याधरवृन्द इति दिक्चतुष्टयव्यापिकीर्तितया चतुरन्त उच्यते, चतुर्भिर्वा दानाऽऽदिधर्मरन्तः कर्मवैरिविनाशोऽस्येति चतुरन्तः ऋद्धयश्चामर्षांपध्यादश्चक्रवर्तिनमपि योधयेदित्येवंविधपुलाकलध्यादयश्च महत्य एवास्य भवन्ति, सन्ति चास्यापि चतुर्दश रत्नोपमानि सकलातिशयनिधानानि पूर्वाणीति कथं न चक्रवर्तितुल्यताऽस्येति सूत्रार्थः। अन्यचजहा से सहस्सक्खे, वजपाणी पुरंदरे। सक्के देवाहिवई, एवं हवइ बहस्सुए।।२३।। यथा स सहस्रमक्षीण्यस्येति सहस्राक्षः सहस्रलोचनः, अत्र च संप्रदाय:-"सहस्सक्ख त्ति पंच मंतिसया देवाणं तस्स, तेसिं सहस्सं अच्छीण, तेसि नीईए विक्कमति, अहवा-जं सहस्सेणं अच्छीणं दीसति तं सो दाहिं अच्छीहिं अन्भहियतराग पेच्छइ ति।" वजं वज्राभिधानमायुधं पाणावस्येति वज्रपाणिर्लोकोक्त्या च पूर्दारणात् पुरन्दरः / क ईदृगित्याह-शक्रो देवाधिपतिर्देवानां स्वामी, एवं भवति बहुश्रुतः सोऽपि हि श्रुतज्ञानेनाशेषातिशयरत्ननिधानतुल्येन लोचनसहरप्रेणेव जानीते, यश्चैवं तस्यैवंविधत्वोपलक्षण, व्रजमपि लक्षणं पाणौ संभवतीति वज्रपाणिः, पूश्च शरीरमप्युच्यते, तद्विकृष्टपोऽनुष्ठानतो दारयतीव दारयतीति पुरन्दरः शक्रवत् देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्यत इति तत्पतिरप्युच्यते। तथा चाऽऽह-"देवा वितं नमसंति, जस्स धम्मे सया मणो।" इति सूत्रार्थः। अपिचजहा से तिमिरविद्धंसे, उत्तिटुंति दिवायरे। जलंते इव तेएणं, एवं हवइ बहुस्सुए।॥२४॥ यथा सः तिमिरम् अन्धकार विध्वंसयत्यपनयति तिमिरविध्वंसः, | उत्तिष्ठन्नुद्गच्छन् दिवाकरः सूर्यः, स हि ऊर्द्ध नभोभागमाक्रामन्नति तेजस्यितां भजते, अवतररतु न तथेत्येवं विशेष्यते, यद्वा-उत्थानं प्रथममुगमन, रात्र चाय नतीव्र इति तीव्रत्वाभावख्यापकमेतत् अन्यदा हि तीव्रोऽयमिति न सम्यग दृष्टान्तः स्यात्, ज्वलन्निव ज्वाला गुञ्चन्निव तेजसा महसा, एवं भवति बहुश्रुतः सोऽपि ह्यज्ञानरूपतिमिरापहारकः संयमस्थानेषु विशुद्धविशुद्धतरा-ध्यवसायत उपसर्पस्तेपस्तेजसा च ज्वलन्निव भवति / इति सूत्रार्थः / अन्यच्चजहा से उडुवई वंदे, नक्खत्तपरिवारिए। पडिपुण्णे पुण्णमासीए, एवं हवइ बहुस्सए / / 2 / / यथा सउडूना नक्षत्राणां पतिः प्रभुरुडुपतिः, क इत्याहचन्द्रः शशी. नक्षत्रौरश्विन्यादि भिरुपलक्षणत्वाद् ग्रहैस्ताराभिश्च परिवारः परिकरः सञ्जातोऽस्येति परिवारितो नक्षत्रपरिवारितः, प्रतिपूर्णः समस्तकलोपेतः, स चेदृक् कदा भवत्यत आह–पौर्णमास्याम्। इह च चन्द्र इत्युक्ते मा भून्नामचन्द्राऽऽदावपि इत्युडुपतिग्रहणम्, उडुपतिरपिचकश्चिदेकाक्येव भवति, मृगपतिवत् अत उक्तं नक्षत्रापरिवारितः, सोऽप्यपरिपूर्णोऽपि द्वितीयाऽऽदिषु सम्भवतीति परिपूर्णः पौर्णमास्यामित्युक्तम्, एवं भवति बहुश्रुतोऽसावपि हि नक्षत्राणाभिवानेकसाधूनामधिपतिस्तथा तत्परिवारितः सकलकलोपेतत्वेन प्रतिपूर्णश्च भवति। इति सूत्रार्थः / अपरं चजहा से सामाइयाणं, कोट्ठागारे सुरक्खिए। नाणाधन्नपडिप्पुण्णे, एवं हवइ बहुस्सुए।।२६।। यथा स (सामाइयाणं ति) समाजः समूहस्तं समवयन्ति सामाजिकः। समूहवृत्तयो लोकास्तेषाम्, पठन्ति च (सामाइयंगाणं ति) तत्र च श्यामा अतसी तदादीनि च तान्यङ्गानि चोपभोगाङ्गया श्यामाऽऽद्यङ्गानि धान्यानि तेषाम् (कोट्ठागारे त्ति) कोष्ठा धान्यपल्ल्यास्तेषामगारं तदाधारभूतं गृहम्, उपलक्षणत्वादन्यदपि प्रभूतधान्यस्थानं, या प्रदीपनकाऽऽदिभयाद्धान्यकोष्ठः क्रियन्तेतत् कोष्ठागारमुच्यते, यदि वा-कोष्ठान् आ समन्तात् कुर्वत तस्मिन्निति कोष्ठाकारः, “अकर्तरि च कारके संज्ञायाम् / / 3 / 3 / 16 // (पाणि०) इतिघञ्।तथा सुष्टुप्राहरिकपुरुषाऽऽदिव्यापारणद्वारेण रक्षितः पालितो दस्युमूषकाऽऽदिभ्यः सुरक्षितः, स च कदाचित्प्रतिनियतधान्यविषयोऽप्रतिपूर्णश्च स्यादत आहनाना अनेक प्रकाराणि धान्यानि शालिमुद्गाऽऽदीनि तैः प्रतिपूर्णो भृतो नानाधान्यप्रतिपूर्णः, आद्यपक्षे तु विशेषणे नपुंसकलिङ्गतया नेये, एवं भवति बहुश्रुतः, असावपि सामाजिकलोकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्यैरिवाङ्गोपाङ्गप्रकीर्णकाऽऽदि भेदैः श्रुतज्ञानविशेषः प्रतिपूर्ण एव भवति, सुरक्षितश्च प्रवचनाऽऽधारतया, यत उक्तम्- "जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खेह।" इत्यादि। इति सूत्रार्थः। अपिचजहा सा दुमाण पवरा, जंबू नाम सुदंसणा। आणाढियस्स देवस्स, एवं हवइ बहुस्सुए।।२७।।