________________ बहुस्सुयपूया 1307 - अभिधानराजेन्द्रः - भाग 5 बहुस्सुयपूया बहुश्रुत एव भवतीति भावः / इह च स्थानप्रक्रमेऽप्येवमभिधानं धर्मधर्मिणोः कथञ्चिदनन्यत्वख्यापनार्थ, विशेषाभिधायित्वा-च क्वचित् केषा-ञ्चिदन्तर्भावसम्भवेऽपि पृथगुपादानं, परिहार-द्वयमपीदमुत्तरतापि भावनीयम्। इति सूत्रायाऽर्थः / / 5 / / (उत्त०)। किं च - अबहुश्रुतत्वे बहुश्रुतत्वे वाऽविनयः, विनयश्च मूलकारणम्, तत्त्वत उक्तहेतूनामप्यनयोरेवान्तर्भावात्। विनीतस्थानान्याह - अह पण्णरसहि ठाणेहिँ , सुविणीए त्ति वुचइ। नीयावित्ती अचवले, अमाई अकुतूहले // 10 // अप्पं च अहिक्ख्विइ, पबंधं च न कुव्वइ। मित्तिजभाणो भयइ, सुयं लद्धं न मञ्जइ॥११॥ न य पावपरिक्खेवी, न य मित्तेसु कुप्पइ। अप्पियस्सऽवि मित्तस्स, रहे कल्लाण भासइ॥१२॥ कलहडमरवजए, बुद्धे अ अमिआइए। हिरिमं पडिलीणो, सुविणीए त्ति वुचइ।।१३।। अथ पञ्चदशभिस्स्थानैस्सुष्टु शोभनो विनीतो विनयान्वितस्सु विनीत इत्युच्यते, तान्येवाह - (णीयावित्ति त्ति) नीचमनुद्धतं यथा भवत्येव नीचेषु वा शय्याऽऽदिषु वर्तते इत्येवंशीलो नीचवर्ती गुरुषु न्यगवृत्तिमान्। यथाऽऽहै -- "नीयं सेजं गई ठाणं णीयं च आसणाणि य / णीयं च पाएँ वंदिज्जा, णीअं कुजा य अंजलि / / 1 / / ' अचपलः नाऽऽरब्धकार्य प्रत्यस्थिरः, अथवा अचपलो गतिस्थानभाषाभावभेदत श्चतुर्दा / तत्र गतिचपल :-- द्रुतचारी, स्थानवपल :- तिष्ठन्नपि चलन्नेवाऽऽस्ते हस्ताऽऽदिभिः भाषाचपल:- असदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाचला, ता असदविद्यमानमसभ्यमखरपरुषाऽऽद्यसमीक्ष्यअनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनत्रयः, अदेशकालप्रलापी चतुर्थः अतीते कार्ये यो वक्ति-यदिदं तत्रा देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यत्, भावचपलः, सूत्रोऽर्थ वाऽसमाप्त एव योऽन्यद् गृह्णाति, अमायी न मनोज्ञमाहाराऽऽदिकमवाप्य गुर्वाऽऽदिवञ्चकः, अकुतूहलः न कुहुकेन्द्रजालाऽऽद्यव-लोकनपरः अल्पं च इति स्तोकमेव अधिक्षिपति तिरस्कुरुते। किमुक्तं भवति ? नाधिक्षिपत्येव तावदसा कञ्चन, अधिक्षिपन वा कञ्चन कङ्कटकरूपं धर्म प्रति प्रेरयन्नल्पमेवाधिक्षिपति, अभाववचनो वा अल्पशब्दः / तथा च वृद्धाः-- "अल्पशब्दो हि स्तोकेऽभावे च।" ततो नैव कञ्चना धिक्षिपति, प्रबन्धं चोक्त रूपं न करोति, मित्रीय्यमाण उक्तत्यायेन भजते मित्रीयितारमुपकुरुते, न तु प्रत्युपकारं प्रत्यसमर्थः कृतघ्नो वा श्रुतं लब्ध्वा न माद्यति, किं तु मददोषपरिज्ञानतः सुतरामनवमिति, न च नैव पापपरिक्षेपी उक्तरूपः, न च मित्रोभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि कुप्यति, अप्रियस्यापि मित्रास्य रहसि (कल्लाण त्ति) कल्याणं भाषते। इदमुक्तं भवति-मित्रमिति यः प्रतिपन्नः स यद्यप्यपकृतिशतानि विधत्ते / तथाऽ--प्येकमपि सुकृतमनुस्मरन्न रहस्यपि तद्दोषमुदीरयति / तथा चाऽऽह .. "एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः / न त्वेकदोषजनि - तो येषां कोपः स च कृतघ्नः // 1 // " इति / कलहश्च वाचिको विग्रहः,डमरं च-प्राणिघाताऽऽदिभिस्तद्बमको, बुद्धो बुद्धिमान् एतच सर्वत्रानुगम्यत एवेति न प्रकृत सङ्ख्याविरोधः / (अभिजातिष्ट त्ति) अभिजातिः कुलीनता, तां गच्छति उत्क्षिप्तभारनिर्वाहणाऽऽदिनेत्यभिजातिगः, हीःला सा विद्यतेऽस्य हीमान्, कथञ्चित्कलुषाध्यवसायतायामप्यकार्यमाचरयन् लज्जते, प्रतिसलीनो गुरुसकाशेऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते / प्रस्तुतमुपसंहरन्नाह- सुविनीतः सुविनीतशब्दवाच्य इतीत्येवंविधगुणान्वित उच्यते। इति सूत्राऽष्टकार्थः // 13 // यश्चैवं विनीतः स कीद्दक् स्यादित्याह - वसे गुरुकुले निचं, जोगवं उवहाणवं / पियंकरे पियंवाई, से सिक्खं लडुमरिहइ / / 14 / / वसेत आसीत् क्व ? गुरूणाम्-आचार्याऽऽदीनां कुलम् अन्वयो गच्छ इत्यर्थः, गुरुकुलं, तत्रा तदाज्ञोपलक्षणं च कुलग्रहणं नित्यं सदा, किमुक्तं भवति? यावज्जीवममपि गुर्धाज्ञायामेव तिष्ठत्। उक्तं हि-'णाणस्स होइ मागी।'' इत्यादि। योजनं योगः-व्यापारः स चेह प्रकमाद्धर्भगत एवं तद्वान्, अतिशायने मतुप् / यद्वा-योगः समाधिः, सोऽस्यास्तीति योगवान्, प्रशंसायां मतुप्। उपधानम्-अङ्गानाध्ययनाऽऽदौ यथायोगमाचाम्ला ऽऽदितपोविशेषस्तद्वान यद्यस्योपधानमुक्तं तत् कृच्छ्भीरुतयो त्सृज्यान्यथ वाऽधीते शृणोति वा, नियम्-अनुकूलं करोतीति प्रियड्करः, कथञ्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किंतु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव चेष्टते, अत एव च (पियं वाइ त्ति) केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी, यद्वा-प्रियङ्कर आचार्याऽऽदेरभिमताऽऽहारऽऽदिभिरनुकूलकारी, एवं प्रियवाद्यप्याचार्याभिप्रायानुवर्तितयैव वक्ता, तथा चाऽस्य को गुणः? इत्याह-स एवंगुणविशिष्टः शिक्षा शास्त्रार्थग्रहणाऽऽदिरूपा लब्धुमवाप्तुमर्हति योग्यो भवतीति, अनेनैवाविनीतस्त्वेतद्विपरीतः शिक्षा लब्धुं नार्हति इत्यर्थादुक्तं भवति, तथा च यः शिक्षां लभते स बहुश्रुतः, इतरस्त्वबहुश्रुत इति भावः। इति सूत्रार्थः। एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातंतत्प्रतिपत्ति रूपमाचारं तस्यैव स्तवद्वारेणाऽऽह - जह संखम्मि पयं निहितं, दुहओ वि विरायई। एवं बहुसुए भिक्खू, धम्मो कित्ती तहा सुयं / / 15 / / यथा इति दृष्टान्तोपन्यासः शङ्खे जलजे पयो दुग्धे निहितं न्यस्तम् (दुहओ वित्ति) द्वाभ्यां प्रकाराभ्यां द्विधा, नशुद्धताऽऽदिना स्वसंबन्धिगुणलक्षणेनेकनैव प्रकारेण, किं तु स्वसंबन्ध्याश्रयसंबन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापीत्यपिशब्दार्थः, विराजते शोभते; तत्र हि न तत्कलुषीभवति, न चाम्लतां भजते नापि च परिश्रवति एवमनेन प्रकारेण बहुश्रुते (भिक्खु त्ति) आर्षत्वाद्भिक्षौ तपस्विनी; धर्मः यतिधर्मः, कीर्तिः श्लाघा, तथेति, धर्मकीर्तिवत् श्रुतम् आगमो विराजत इति संबन्धः / किमुक्त