________________ बहुसुह 1306 - अभिधानराजेन्द्रः - भाग 5 बहुस्सुयपूया बहुसुहन० (बहुसुख) मोक्षाऽऽख्ये परमार्थसुखे, सूत्रा०१ श्रु०३ अ० ४उ०। * बहुशुभ न० प्रभूतसुखे, आव० 3 अ०। बहुसेया स्त्री० (बहुसेया) बहुः सीयन्ते अवबध्यन्ते यस्मिन्नसौ / सेयः कर्दमः स यस्यां सा बहुसेया। प्रचुरकर्दमायाम्, सूत्रा०२ श्रु०२ अ०॥ *बहुश्वेता स्त्री० बहुश्वेतपद्मसम्भवात् स्वच्छोदकसम्भवाद् बाहुल्येन श्वेतायां पुष्करिण्याम्. सूत्र०२ श्रु०२ अ०॥ बहुसो अव्य० (बहुशस) अनेकवारे, व्य०१उ०। अनेकश इत्यर्थे, पञ्चा० 1 विव० / क० प्र० / ग० / बृ० / आचा० / विशे० / "बहुसो त्ति वा भुजोभुज्जो त्ति वा एगट्ठा।" नि० चू०२० उ०। बहुस्सुईकय पुं० (बहुश्रुतीकृत) बहुश्रुतत्वेन मते अबहुश्रुतत्वे, भ० 15 श०। बृ०॥ बहुस्सुयपुं० (बहुश्रुत) आगमावृद्धे, दश० 8 अ०। अष्ट। बहश्रृतमाहबहुसुए जुगप्पहाणे, अभिंतर बाहिरं सुयं बहुहा / होति चसहग्गहणा, चारित्तं पी सुबहुयं पि॥२५१।। यस्य बहुधा बहुप्रकारामभ्यन्तरमङ्गप्रविष्ट बाह्यमङ्गबाह्य-श्रुतं भवति विद्यते, तथा स विशुद्धिकर इत्यत्रा चशब्दग्रहणात् सुबहुकं चारित्रमपि यस्य स युगप्रधानो बहुश्रुतः / व्य० 10 उ०। शास्त्रार्थपारगे, सूत्र०१ श्रु०२ अ०१ उ०। बहुप्रचुरं श्रुतमागमः सूत्रातोऽर्थतश्च यस्य उत्कृष्टतः सम्पूर्णदशपूर्वधरे, जघन्यतो नवमस्य पूर्वस्य तृतीयवस्तुवेदिनि, स्था० 8 ठा० / प्रव० / बहुसूत्रार्थो भयधरे, बृ०।। तिविहो बहुस्सुओ खलु, जहन्नओ मज्झिमो य उक्कोसो। आयारपकप्पे क-प्पे णवम दसमे य उक्कोसो।।४०४|| त्रिविधः खलु बहुश्रुतः। तद्यथा-जघन्यो, मध्यमः उत्कृष्टः। तत्रा55वारप्रकल्पो निशीथं, तद्धारी जघन्यो बहुश्रुतो, मध्यमः (कप्पे त्ति) कल्पव्यवहारधरः उत्कृष्टो नवमदशम पूर्वधरः / बृ० 1 उ०१ प्रक० / व्य० / आ० क०।आ०म०नि० चू०। बहुविधे, उत्त०२ अ०। * बहुसूत्र पुं० बहु कालोचितं सूत्रामाचाराऽऽदिकं यस्य स बहुसूत्राः / तस्मिन, व्य०३उ०। दशा०।। बहुस्सुयपूया स्त्री० (बहुश्रुतपूजा) बह्वागमस्योचितप्रतिपत्ती, उत्त०। संप्रति सूत्रानुगमे सूत्रमुचारणीयम्, तचेदम् - संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। आयारं पाउक्करिस्सामि, आणुपुटिव सुणेह मे // 1 // संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः आचरणमाचार उचितक्रिया, विनय इति यावत्। तथा च वृद्धाः- "आयारो त्ति वा, विणउ त्ति वा एगट्ठ / त्ति। स चेह बहुश्रुतपूजाऽऽत्मक एव गृह्यते, तस्या एवात्राधिकृतत्वात्, तं प्रादुष्करिष्यामि प्रकटयिष्यामि आनुपूर्व्या, श्रृणुत (मे) मम, कथयत इति शेषः / इति सूत्रार्थः / / 1 / / इह च बहुश्रुतपूजा प्रक्रान्ता, सा चबहुश्रुतस्वरूपपरिज्ञान एवं कर्तुं शक्या, बहुश्रुतस्वरूपं च तद्विपर्ययपरिज्ञाने तद्विविक्तं सुखेनैव ज्ञायत इत्यबहुश्रुत-स्वरूपमाहजे यावि होइ निविजे, थद्धे लुद्धे अणिग्गहे। अभिक्खणं उल्लवई, अविणीऍ अबहुस्सुए।।२।। (जे यावि त्ति) यः कश्चित् चापिशब्दो भिन्नक्रमी उत्तरत्रा योक्ष्यते, भवति जायते, निर्गतो विद्यायाः सम्यक् शास्वाावमरूपाया निर्विद्यः, अपिशब्दसंबन्धात् सविद्योऽपि, यः स्तब्धोऽहङ्कारी, लुब्धः रसाऽऽदिगृद्धिमान्, न विद्यते इन्द्रियनिग्रहः-इन्द्रियनियमनाऽऽत्मकोऽस्येत्यनिग्रहः अभीक्ष्णं पुनः पुनः उत्प्राबल्येनासंबद्धभाषिताऽऽदिरूपेण लपतिवक्ति उल्लपति अविनीतश्च विनयविरहितः (अबहुस्सुए त्ति) यत्तदोर्नित्याभिसम्बन्धात् सोऽबहुश्रुतः, उच्यत इति शेषः सविद्यस्याऽप्यबहुश्रुतत्वं बाहुश्रुत्यफलाभावादिति भावनीयम्, एतद्विपरीतस्त्वर्थाद्वहुश्रुतः। इति सूत्रार्थः / / 2 / / कुतः पुनरीदृशमवहुश्रुतत्वं बहुश्रुतत्वं वा लभ्यते ? इत्याहअह पंचहिँ ठाणेहिं, जेहि सिक्खा न लब्भई। थंभा कोहा पमाएणं, रोगेणाऽऽलस्सेण य / / 3 / / अह अट्ठहिँ ठाणेहिं, सिक्खासीलेति दुचई। अहस्सिरे सया दंते, ण य मम्ममुदाहरे // 4 // नासीले ण विसीले, ण सिया अइलोलुए। अक्कोहणे सच्चरए, सिक्खासीले त्ति वुचई / / 5 / / अथेत्युपन्यासार्थः, पञ्चभिः पञ्चसंख्यैस्तिष्ठन्त्येषु कर्मवशगा जन्तय इति स्थानानि तैर्येरिति वक्ष्यमाणैर्हेतुभिः शिक्षणं शिक्षा ग्रहणाऽऽसेवनाऽऽत्मिका न लभ्यते नावाप्यते, तैरीदृशमबहुश्रुतत्वमवाप्यत इति शेषः / कैः पुनःसानलभ्यते? इत्याह स्तम्भान्मानात् क्रोधात् कोपात् प्रमादेन मद्यविषयाऽऽदिना रोगेण गलत्कुष्ठाऽऽदिना आलस्येनानुत्साहाऽऽत्मना, शिक्षा न लभ्यत इति क्रमः / चः समस्तानां व्यस्तानां च हेतुत्वमेषां द्योतयति॥३॥ इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह–अथाष्टभिः स्थातैः शिक्षायां शीलः स्वभावो यस्य, शिक्षा वा शीलयत्यभ्यस्यतीति शिक्षाशीलः-द्विविधशिक्षाऽभ्यासकृत्, इतिशब्दः स्वरूपपरामदर्शकः, उच्यते-तीर्थकृदगणधराऽऽदिभिरिति गम्यते, तान्येवाऽऽहि - (अहस्सिरे त्ति) "तृन इर'' इति प्राकृतलक्षणादहसहनशील, अहसिता न सहेतुकमहेतुकं वा हसन्नेवाऽऽस्ते, सदा सर्वकाल दान्त इन्द्रियनोइन्द्रियदमवान्. (न च) नैव मर्म परापभाजनाकारि कुत्सितं जात्याधुदाहरेद् उद्घट्टयेत् / / 4 / / (न) नैव अशीलः अविद्यमानशीलः, सर्वथा विनष्टचारित्राधर्म इत्यर्थः, न विशीलः विरूपशीलः, अतीचारकलुषितव्रत इति यावत्, न स्यात् न भवेद्, इह पूर्वत्रा च संभावने लिट्, अतिलोलुपः, अतीव रसलम्पटः, अक्रोधनः अपराधिनि अनपराधिनि वा न कथञ्चित कुद्धयति, सत्यम् अवितथभाषणं तस्मिन् रतः-आसक्तः सत्वरत् इति, निगमयितुमाह - शिक्षाशील इत्यनन्तरोक्तगुणभागुच्यते, स च