________________ पञ्चक्खाण 106 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण न्, भवति जायते, परिणामोऽध्यवसायोऽन्यथारुप इति योगः। किंभूतोऽसावन्यथारुपः? प्रतीकारः प्रायश्चित्तप्रतिपत्तिरुपः / सुभटपक्षे तु शरणान्वेषणाऽऽदिरुपः। स एव लिङ्ग चिहं, तेन सिद्धीयः स तथा। तुशब्दः पूरणार्थः / नियमादवइयंभावेन, अन्यथारूपः, साभिष्यङ्ग इत्यर्थः / इदमुक्तं भवति-यदि सामायिकवतो महत्तराऽऽद्याकारेषु सत्सु साभिष्वङ्गः परिणामोऽभविष्यत्तदा तच्छुद्धये प्रायश्चित्तभकरिष्यत्, न चैवम्, ततस्तस्याऽऽकारेष्वपि सत्सु निरभिष्वङ्ग एव परिणामोऽतः साधूक्तं मूलाबाधया / इति गाथार्थः / / 22 / / अपवादाऽऽश्रयणेऽपि न मूलभावबाधा भवतीत्येतदेव सविशेष दर्शयन्नाहणय पढमभावबाघा-य मो उ एवं पि अवि य तस्सिद्धी। एवं चिय होइ दढं, इहरा वामोहपायं तु // 23|| न च नैव, प्रथमभावव्याघात आद्याध्यवराायबाधा, प्रत्याख्यानपक्षे सामायिकबाधा, सुभटपक्षे जयाध्यवसायबाधा। ''मो" इति निपातः पादपूरणे। तुशब्दः पुनरर्थः। तत्संबन्धश्च दर्शयिष्यते। एवमपि अनन्तरोतापवादाऽऽश्रयणेऽपि / अपि चेत्यभ्युच्चये / तसिद्धिः प्रथमभावस्य विशेषतो निष्पत्तिः, एवमेवापवादाऽऽश्रयण एव, भवति जायते, दृढमत्यर्थमाकारवत्, प्रत्याख्यानाऽऽश्रयणस्य तदुपायत्वात्, रिपुविजये प्रवेश ऽऽदिभजनाया इवैति। इतरथा पुनरपवादवत् प्रत्याख्यानानाश्रयणे पुनः, व्यामोहप्रायं तु मूढताप्रख्यमेव सामायिकं, सभटस्य विजयाध्यवसान वा भवेद, उपायत एव तत्सिद्धेरिति गाथार्थः / / 23 / / ननु यद्यपि सामायिक सुभटाध्यवसायतुल्यं, तथापि कस्यापि प्राणिनः कालान्तरे तस्य प्रतिपातः संभवतीत्यतः तदपि सापवादमेव कर्तुं युक्तम्। अत्रोत्तरमाह - उभयाभावेऽपि कुतो, वि अग्गओ हंदि एरिसो चेव। तक्काले तब्भावो, चित्तखओवसमओ णेओ॥२४|| उभयस्य-वर्तमानभवक्षयस्य भाववैरिजयादपवर्गस्य च, सुभटदृष्टान्तापेक्षया तु भरणरिपुविजयलक्षणस्य द्वयस्याभावोऽसत्ता उभयाभावस्तत्रापि, आस्तांतदभ्रंशे। कुतोऽपि कस्मादपिपरीषहानीकभयाऽऽदेः, अग्रतः पुरतः, सामायिकप्रत्तिपत्तेरनन्तरं तत्पालनाक्सरे, सुभटपक्षे तु संग्रामकाल इत्यर्थः / हन्दीत्युपप्रदर्शने ईदृश एवमर्त्तव्यं वा भाववैरिविजयो वा विधेय इत्येवंविध एव, न पुनरपवादाभिमुखः, तद्भाव इति योगः। कदेत्याह- तत्काले सामायिकप्रतिपत्तिकाले, सुभटपक्षेतु संग्रामाभ्युपगमकाले। कोऽसावित्याह-तद्भावः सामायिकप्रतिपत्तिपरिणामः, अन्यत्र तु सुभटाध्यवसायः। कथमेतदेवमित्याह-चित्रक्षयोपशमतः कर्मक्षयोपशमवैचिच्यात्, ज्ञेयो ज्ञातव्यः। एवंविधो हि तस्य क्षयोपशमो भवति, यतोऽवश्यप्राप्तव्यमनोभङ्गत्वेऽपि साधुसुभटस्याऽऽदावुदात्त एव भावो भवति। इति गाथार्थः / / 24 / / तदेव सामायिके विधिसमायुक्तमित्यभिहितम्। पञ्चा०५ विव०। (14) अथ कोऽपि ब्रूयात-विद्यमानार्थविषयमेव प्रत्याख्यानमुपपद्यते, निवृत्तिफलत्वादित्यत्राऽऽहबज्झाभावे वि इमं, पच्चक्खंतस्स गुणकरं चेव। आसवनिरोहभावा, आणाआराहणाओ य!|४७।। वाभावेऽपि दुर्भिक्षकान्ताराऽऽदावशनाऽऽदेर्बाह्यस्य प्रत्याख्येय- | द्रव्यस्यात्यन्तासद्भावेऽपि, आस्तां सदावे, इदं प्रत्याख्यानं, प्रत्याचक्षाणस्यः, प्रत्याख्यातु गुणकरमेव कर्मनिर्जरालक्षणो पकारकरणशीलमेव भवति / कुत इत्याह-आश्रवनिरोधभावात् आश्रवस्य कर्माऽऽदानहेतोरविरतलक्षणस्यान्तरार्थस्य निरोधो निषेधो यस्तस्य यो भावः सत्ता स तथा, तस्मादाश्रवनिरोधभावात, आज्ञाराधनाच सर्वज्ञाऽऽज्ञानुपालनाच / सर्वविदो हि बाह्याभावेऽप्यातुरस्याविरत्याख्यार्थस्य प्रत्याख्वेयस्य सद्गावात् प्रत्याख्यानस्य सफलतां पश्यन्तस्तदादिशन्ति, रड्काऽऽदीनां प्रव्राजनश्रवणादिति गाथार्थः / / 47 // __अथास्यैव समर्थनार्थमाहन य एत्थं एगतो, सगडाऽऽहरणाऽऽदि एत्थ दिटुंतो। संतं पिणासइ लहुं, होइ असंतं पि एवमेव / / 46|| न च नैव, अत्रापि बाह्यप्रत्याख्येयद्रव्याभावे निर्विषयं प्रत्याख्यानं भवतीत्यस्मिन्नपि पक्षे, अपिशब्दाद्वाह्यसद्भावे सविषयमित्यत्रापि / एकान्तोऽवश्य भावः / अयं चार्थो दृष्टान्ताद् सिद्ध इत्याह-शकट यानं, तेनोपलक्षितमुदाहरणं कथानकं शकटोदाहरण, तदादिर्यस्य कुम्भाऽऽदेः शकटोदाहरणाऽऽदिः / अत्र बाह्याभावे प्रत्याख्यानं निर्विषयमित्यस्य पक्षस्यानैकातिकत्वे साध्ये दृष्टान्तो निदर्शनम् / अत्रैव हेतुमाह-सदपि विद्यमानमपि प्रत्याख्येयं वस्तु, असत्पुनर्नष्टमेवेत्यपिशब्दार्थः / नश्यत्यपैति, पुण्यविपर्ययालधु शीघ्रम् / तथा भवति जायते, असदप्यविद्यमानमपि प्रत्याख्येयवस्तु पुण्यवशत्पुनर्जातमेवेत्यपिशब्दार्थः / एवमेव लध्वेव। अथवा- सतो नाशः प्रायः प्रसिद्धः, असतस्तु भावो न तथेत्यत उच्यते- एवमेव यथा सन्नश्यति तथाऽसदपि स्यादित्यर्थः / हेतुप्रयोगश्चैवम्- अविद्यमानार्थविषयं प्रत्याख्यानम विषयमेवेत्यनेकान्तोऽसतोऽपि सत्त्वसंभवात्, शकटकथानके असतः शकटस्यैवेति गाथाऽक्षरार्थः ! कथानकं पुनरेवम्-किल केनचित् द्विजातिना तथा विधमुनिपुङ्गवचरणकमलमूले नानाविधविषयान्नियमान् प्रतिपद्यमानान् मानवानवलोक्यासंभवद्विषयत्वेन निष्फला एते नियमा इति मन्यमानेनोपहासपरिगतबुद्धिना "यद्यसद्विषयमपि प्रत्याख्यानं सफलं भवति ततो ममाणि तद्भगवतु / '' इत्यस्यया मया शकटं न भोक्तव्यमित्येवंभूतो नियम विहितः / तस्य चान्यदा कथञ्चित् कान्तारोत्तीर्णस्यातिबुभुक्षितस्य कयाचिन्नरपंतिसुतयोपवसननिमित्तमपूर्वमुद्धूलितजडमग्रजन्मानम. न्वेषमाणया पक्वान्नमयं शकट भोजनपाच्या विन्यस्य समुपहितं, ततोऽरण दृष्ट्वा चिन्तयामास-अहो साधूक्तं साधुभिः, असंभाविनोऽपि वस्तुनः कथश्चित्संभवो भवतीतिसविषयमेव सर्व प्रत्याख्यानंतदिदशकट भक्षय तया प्राप्त, कथमहं स्ववाचा अभक्ष्यतया प्रतिज्ञातं स्ववचनविलोपनेन भक्षयिष्यामीति विभाव्य तत्परिहतवान् / संजातसाधुवचन-बहुमानश्व राजसुतासंबोधनार्थ सर्वा स्ववार्ता तस्याः कथितवानिति संक्षेपतो दृष्टान्तः / इति गाथाऽर्थः / / 48|| पुनरपि प्रत्याख्यानस्य निर्विषयतापरिहारार्थमाहओहेणाविसयं पिहु,ण होइ एयं कहिं चि णियमेण। मिच्छासंसज्जियक-म्मओ तहा सव्वमोगाओ।।४६॥ ओघेन सामान्येन, अविषयमपि बाह्याभावेन निर्गोचरमपि, शकटभक्षणनियमवद, अपिशब्दः संभावनायाम् / हुशब्द