________________ पचक्खाण 105 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण समभाव एव रागाऽऽदिविहितवैषम्यविरहितपरिणाम एव सति, नान्यथा। तत्सामायिकम्, यद्यस्मात् जायते भवति। किं विषये समभाव इत्याहसर्वत्र सर्वेषु पदार्थेषु शत्रुमित्राऽऽदिषु, अनेन द्रव्याण्याश्रित्य सामायिकमुक्तम् / अथ कालतस्तदेवाऽऽह-न्यावत्कथितं यावजीविकम्। चशब्दः समुह / तज्जायते इति वर्तते। तत्तस्मात्कारणद्वयात्, तत्र सामायिके नाकारा नापवादाः, प्रज्ञप्ताः प्ररुपिताः, जिनैरितिगम्यम्। ततश्च किम् ? न किचिदित्यर्थः / इहाऽऽकारविचारे, तुच्छमसारं युक्तियुक्तत्वादिति। अमत्र भावार्थः- सामायिके आकारा नयुक्ताः, तस्याजन्म समभावरुपत्वात् / तथाहि- यदि गुरुलाघवाऽऽलोचनतो ग्लानाऽऽद्यवस्थाया प्रशस्ताऽऽलम्बनः काश्चित्प्रतिषेवां करोति, तदा तस्य समभावावस्थितत्वेन सामायिकस्यावाधितत्वात्किं महत्तराऽऽकाराऽऽदिकरणेन ? यदि च सामायिकप्रतिपत्तिकाले सर्वं सावधं योग प्रत्याख्यामि अन्यत्र चारप्रतीकाराऽऽदेरित्येवं साकारं पण्मासाऽऽदि वावदित्यवधिविशेषवदा प्रत्याख्याति तदा वैरिकाऽऽदिषु पच्मासाऽऽदिपरतश्च समभावाभावात्सामायिकं नास्त्येवेत्याकारकरणमनर्थक-मित्येवं सामागिकआकराभावः / इति गाथाऽर्थः / / 17 / / एतदेव सामायिकस्य सर्वार्थनिरभिष्वङ्गत्वं यावत्कथिकत्वं च स्पश्यन्नाहतं खलु णिरभिस्संगं, समयाए सव्वभाविसयं तु। कालावहिम्मि विपर, भंगभया णावहित्तेण / / 18|| तत्सामायिकम्, खलुरवधारणे, भिन्नक्रमश्च / निरभिष्वङ्गमेव निराशंसमेव। तथा समतया इष्टानिष्टार्थेषु तुल्यतया हेतुभूतया, सर्वभावविषय समस्तवस्तुगोचरमेव / करिचित् दृश्यते (सव्वभावविसयं ति ति) तत्र निरभिष्वनमेव तत्समतया सर्वभावविषयमिति कृत्वेति व्याख्येयम् / अनेन ''समभावे चिय तंज, जायइ सव्वत्थेति" भावितम / ननु तस्य काथं निरभिष्वङ्गत्वं जीवनं यावदेव निवृत्तिभावेन तत् परतोऽभिष्वङ्गभावाद् / अत्रोच्यतेकालावधावपि यावज्जीवतयेत्येवंभूतमर्यादायामपि, किंभूते कालावधावित्याह-परमिति जीवनात्परतः भङ्गभयात्प्रतिज्ञाभ्रंशभीत्या. कृते सतीति शेषः नावधित्वेन नपुनर्मर्यादात्वेन परतः सावद्य करिष्यामीत्येवं रुपेणेति शेषः / निरभिष्वङ्गमेव तदिति प्रकृतम् / अनेन च (आबकहियं ति ) भावितमिति गाथाऽर्थः / / 18 // अथ निदर्शनतः साभायिकमाकारणामविषय इति दर्शयन्नाहमरणजयऽज्झवसियसुद्द-डभावतुलमिह हीणणाएण। अक्ष-क्षण ण विसओ, भावेयव्वं पयत्तेण / / 16 / / मया जयो वाऽवाप्तव्य इत्युल्लेखेन रणावसरे मरणजयौ मृत्युरिपुविजयावध्यवसितौ येन सुभटेन स तत्य तत्य वो भावोऽध्यवसायः, तस्य तुल्यं सदृशं पत्तत्तथा। इह लोके, हीनज्ञातेन तुच्छोदाहरणेन, हीनता चास्य तज्जेतव्यस्यैकभविकत्वात्, रागाऽऽदिवैरिवारविधुरितान्तः करणत्यात, परोपकारकरणपरायणत्वात्, सामायिकवतश्चैतद्विपरीतत्वाद, तदेकात्यवसायतामात्रेणैव च साधात् / यतश्चैवमतोऽएवादानामाकाराणाम न विषयो गोचरः, तथाविधैकरूपत्वात्, भावयि- / तव्यं, एतत् प्रयत्नेनाऽऽदरेण न हयुपादेयविशेषे उपायविशेषतः प्रवर्तमान आशङ्कावान् भवति / इति गाथाऽर्थः / / 16 // यत एवेदमित्थं महत्तरमत एवाऽऽहएत्तो च्चिय पडिसेहो, दढं अजोग्गाण वण्णिओ समए। एयस्स पाइणो विहु, वीयं ति विही य अइसइणा / / 20 / / यत एवेदं सुभटभावतुल्यमत एव कारणात्प्रतिषेधो निवारणा दानं प्रति, दृढमत्यर्थम, अयोग्यानां क्षुद्रसत्त्वतया सुभटभाववर्जिताना, वर्णितोऽभिहितः, समये सिद्धान्ते। कस्य प्रतिषेध इत्याह-एतस्य सामायिकस्य / ननु यद्योयोग्यानामे तद्दाननिषेधो वर्णितस्तदा कथं भगवता महावीरेण जन्मान्तरविद्यारितसिंहजीवाभीरस्थ सामायिक प्रतिपातवतोऽपि सामायिकदानविधिरादिष्टो गौतमस्य? इत्याशड् क्याऽऽहपातिनोऽष्यवश्यं सामायिकात्प्रतिपतनशीलस्यापि, आस्तामितरस्य / हुशब्दोऽलड्कारार्थः। बीजमिति मुक्तिप्राप्त्यबन्ध्यकारणमयं सामायिकविधिरस्य भविष्यतीतिकृत्वा / विधिश्च सामायिकदानप्रवर्तन च / वर्णित इति प्रकृतम्। अतिशायिना केवलिना भगवता महावीरेण / अतो विशिष्टतरोपकारहेतुत्वं विज्ञाय केवलिनो तद्विधेः कृतत्वान्न तत्र भङ्गदोषः, प्रकृत्यैव तस्य भावात, गुणस्यैव तत्राधिकत्वात्, मारणान्तिकसन्निपाते स्मृतिकार्योसधदानवत् / इति गाथार्थः / / 20 / / ननु यदि सुभटभावतुल्यत्वात् सामायिकेनाऽऽकारा भवन्ति, तद्दा सामायिकवतो नमस्कारसहिताऽऽदावपि तेन युक्ताः, सुभटभावतुल्यभावबाधकत्वात् तेषामित्याशक्याऽऽहतस्स उपवेसणिग्गम-वारणजोगेसु जह उ अववाया। मूलावाहाएँ तहा, णवकाराइम्मि आगारा // 21 // तस्य तु तस्मैव सुभटस्य, प्रवेशश्व संग्रामे जयार्थिनः प्रवेशनं, निर्गतश्च तत एव जयार्थिन एव निर्गमनं, वारणं च विशिष्टावसरप्राप्तये प्रहरतः स्ववलस्य शत्रोर्वा निवारणं, योगश्च तस्यैव प्रवोगो व्यपारणं, प्रवेशनिर्गमवारणयोगाः, प्रवेशनिर्गप्रवारणान्येव वा योगा व्यापाराः प्रवेशनिर्गमवारणयोगाः / अतस्तेषु वैरिनिराकरणोपायभूतेषु सामायिकसिद्धषुपावभूतनमस्कारसहितादिकल्पेषु, यथा तु यथैव, अपवादा आकारास्तत्कारणभजनालक्षणा महत्तराऽऽकाराऽऽदिकल्पा भवन्ति / कथमित्याह-मूलाबाधया मूलभूतस्य मर्त्तव्यं जयो वाऽवाप्तव्य इत्येवंलक्षणस्य अध्यवसायस्याविचलिततया, तथा तेनैव प्रकारेण, नमस्काराऽऽदौ नमस्कारसहिताऽऽदौ प्रत्याख्याने। आकारा अपवादा महत्तराऽऽदिलक्षणा मूलाबाधया सुभटभावकल्पसामायिकाबाधया भवन्तीति गाथाऽर्थः // 21 // . मूलाबाधामेव स्पष्टयन्नाहण य तस्स तेसु वितहा, णिरमिस्संगो उ होइ परिणामो। पडियारलिंगसिद्धो, उणियमओ अण्णहारुवो // 22 // न च नैव, तस्य सामायिक वतः सुभट स्य च, तेष्वपवादे - ऽवपि सत्सु, आस्तामन्यत्र / तथा तत्प्रकार इष्टानिष्टार्थतुल्यतारुपो, जीविताऽनपेक्षश्च, निरभिष्वङ्गस्तु निराशंस एव स