________________ पचक्खाण 104 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण दो छच सत्त अट्ठ य, सत्तऽट्ट य पंच छच्च पाणम्मि। चउ पंच अट्ठ नव य, पत्तेअंपिंडए नव य॥५०।। दो चेव नमुक्कारे, आगारा छच्च पोरिसीए उ। सत्तेव उपुरिमड्ढे, एगासणगम्मि अट्टेव / / 51 / / सत्तेगठाणगस्स उ, अट्टेवायं विलस्स आगारा। पंच अभत्तहस्स उ, छ प्पाणे चरमि चत्तारि॥५२|| नमस्कार इत्युपलक्षणत्वात् नमस्कारसहितेपौरुष्यांपुरिमार्द्ध एकासने एकस्थाने च आचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृतौ, किम् ? यथासंख्यमेते आकाराः-द्वौषट् सप्त अष्टौ सप्त अष्टौ च पञ्च षट् पाने, चतुः पञ्च अष्टौ नव प्रत्येक पिएडके नवकः / इति गाथाद्वयाऽक्षरार्थः / भावार्थमाहदावेव नमस्कारे आकारौ, इह नमस्कारग्रहणात् नमस्कारसहितं गृह्यते। तत्र द्वावेवाऽऽकारौ, आकारो हि नाम प्रत्याख्यानेऽपवादे हेतुः / / 50|| आव०६ अ०। आ०चू०। पञ्चा०। पं०व०। (पौरुष्यादिप्रत्याख्यानसूत्राणि स्वस्वस्थाने द्रष्टव्यानि) / (13) अथ सामायिकविधिरभिधीयते / तस्य चैवं प्रस्तावनाननु सामायिके सकलसावद्ययोगविरतिरुपे सति किमनेनाऽऽहारप्रत्याख्यानेन, सकलगुणानां सामायिकेवाऽऽक्षिप्तत्वात्। अत एव कैश्चिदुद्घुष्यते- "रागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् ? तावेव यदि न स्यातां, तपसा किं प्रयोजनम् ? // 1 // " इत्याशङ् क्याऽऽहसामाइऍ विहु साव-जचागरुये उ गुणकरं एयं / अपमायबुड्विजणग-तणेण आणाउ विणेयं / / 13 / / सामायिके आत्मपरिणाभविशेषे, अपिशब्द उत्तरत्र संभत्स्यते। हुशब्दो वाक्यालङ्कारे। किंभूते ? सावद्यत्यागरुपेऽपि निखिलसपापव्यापारपरिहारस्वमावेऽपि, न केवल देशविरतिसम्यक्त्वश्रुतसामायिकेष्वेव, तुशब्द एवकारार्थो , भिन्नक्रमश्च / गुणकरमेवोपकारकमेव, एतदाहारप्रत्याख्यानमनन्तरोक्तम् / कथ मिदमेवमित्याह-अप्रमादवृद्धिजनकत्वेनाप्रमत्तताप्रकर्षोत्पादकत्यात्। अनुभवन्ति च साधवोऽमुतोऽप्रमादवृद्धिम्।तथा आज्ञातः सर्वविदादेशात्।आदिष्ट च सर्वविदा सामायिकवतामेतचतुर्थाऽऽदि, तपसामादेशात् / आह च - "तवहेउ चउत्थाई, जाव य छम्मासिओ तवो होइ।" विज्ञेयं ज्ञातव्यं, गुणकरमिति योग : / अतः सामायिके सत्यपीदं युक्तम्। इति गाथाऽर्थः // 13 // न चाप्रमादवृध्दिजनकत्वमस्यासिद्धमित्याहएत्तो य अप्पमाओ, जायइ एत्थमिह अणुहवो पायं / विरतीसरणपहाणे, सुद्धपवित्तीसमिद्धफलो॥१४॥ इतोऽनन्तरोक्कादाहारप्रत्याख्यानात् / तुशब्दः, चशब्दो वा पुनरर्थः। अप्रमादोऽप्रमत्तता, जायते विशेषेण संपद्यते। क्काप्रमादो जायते? इत्याह - (एत्थति) अत्र सावद्ययोगविरतिरुपे सामायिके / अथ किमत्र प्रमाणमित्याह-इहास्मिन्प्रत्याख्यानस्याप्रमादजननलक्षणेऽर्थे अनुभवः स्वसंवेदनं प्रमाणम, प्रायोबाहुल्येन, वीतरागाणामप्रमादस्य जातत्वात्, अनुपयुक्तसाधूनां वा न जायतेऽसौ, प्रत्याख्याने सत्यपीत्यप्रमादविशेषानुभवाभावोऽपि स्याद्, एतत्सूचनार्थ प्रायोग्रहणम् / किंविधोऽसावप्रमाद इत्याह-विरतिस्मरणप्रधानः प्रत्याख्येयार्थनिवृत्तिस्मृतिपरमः / प्रत्याख्यानजन्याप्रमादो हि विरतिं स्मारयत्येव, अनेन चान्तरं फलमप्रमादस्योक्तम् / तथा शुद्धप्रवृत्तेरनवद्यानुष्ठानस्य समृद्धिः संपूर्णता फलं यस्य स तथा / दृश्यते च प्रत्याख्यानजन्याप्रमादवतां सत्प्रवृत्तिप्रकर्षः / अनेन पुनरस्य ब्राह्म फलमुक्तम् / इति गाथार्थः / / 14 // नन्विदमाहारप्रत्याख्यानं त्रिविधाऽऽद्याहारभेदेन गृह्यमाणमप्रत्याख्यातान्यतराऽऽहारविषयेऽभिष्वङ्गभावयुक्तत्वेनेतरत्र च द्वेषभावोपेतत्वेन सामायिकं बाधते, सर्वत्र तस्य निरभिष्वङ्गतास्वभावत्वादित्याशड क्याऽऽहण य सामाइयमेयं, वाहइ भेयग्गहे वि सव्वत्थ। समभावपवित्तिणिवि-त्ति भावओठाणगमणं व // 15 / / न च नैव, सामायिकं समभावलक्षणं कर्मताऽऽपन्नम्, एतदाहारप्रत्याख्यानं कर्तृ, बाधते विनाशयति / भेदेन त्रिविधाहाराऽऽदिलक्षणविकल्पेन ग्रहणं प्रतिपत्तिः भेदग्रहणं, तत्रापि, न केवलं चतुर्विधाऽऽहारग्रहण एवेति प्रतिज्ञा कुत एतदेवमित्याह-सर्वत्राऽऽहाराऽऽदौ समभावेन प्रत्याख्यातेतराऽऽहारभेदयोस्तुल्यपरिणामेन ये प्रवृत्तिनिवृत्ती क्रमेणाप्रत्याख्यातप्रत्याख्यातार्थयोः प्रवर्तननिवर्त्तने, तयोर्यो भावः सद्भावः, स तथा, तस्मात्समभावप्रवृत्तिनिवृत्तिभावत इति हेतुः / समभावता च प्रत्याख्यातुः प्रत्याख्यातेतराऽऽहारविषये वेदनावैयावृत्याऽऽदिनाऽऽतङ्कोपसर्गाऽऽदिना च शास्त्रोक्ताऽऽलम्बनेनैव प्रवृत्तेनिवृत्तेश्च स्थानगमने प्रतीते इव स्थानगमनवदिति दृष्टान्तः / यथा हि समभावत एव क्वचित् स्थानं गमनं चेतरेतरपरिहारवदपि न सामायिक बाधते, एवमिदमपीति। प्रयोगोऽववत्समभावपूर्वकमनुष्ठानं तत्सामायिक न बाधते, स्थानगमने इव समभावपूर्वकं च भेदप्रत्याख्यानम् / इति गाथार्थः / / 15|| अथाऽऽहारप्रत्याख्यानवत्सामायिके आकाराः किमिति नोक्ता इति परमतमाशङ्कमान आहसामाइऍ आगारा, महल्लतरगे विणेह पण्णत्ता। भणिया अप्पतरे विहु, णवकाराइम्मि तुच्छमिणं ||16|| सामायिके सर्वविरतिरुपे, आकारा अपवादाः, (महल्लतरगे वि त्ति) आहारप्रत्याख्यानापेक्षया महत्तरकेऽपि बृहत्तरेऽपि महत्तरत्वं च तस्य यावजीवितया त्रिविधं त्रिविधेन च प्रतिपत्तेः। न नैव, इह प्रत्याख्यानाधिकारे, प्रज्ञप्ताः प्ररुपिताः, महत्तर एव विषयेतेप्ररुपयितव्या भवन्तीति हृदयम्। भणिताश्च प्ररुपिताः पुनरल्पतरेऽष्यतिशयतुच्छेऽपि, अपिशब्दोऽवाऽऽहारप्रत्याख्यानस्याऽल्पतरत्वेनाऽऽकारभणनायोभ्यतासंसूचनार्थः / हुशब्दो वाक्यालङ्कारार्थः / नमस्काराऽऽदौ नमस्कारसहितपौरुषीप्रभृतिक, तदैवं तुच्छमसारमिदं नमस्कारसहिताऽऽदायाकारभणने सति सामायिके तदभणनं युक्तिरहितत्वादिति गाथार्थः / / 16 / / अत्रोत्तरमाहसमभावे चिय तंज, जायइ सम्वत्थ आवकहियं च। ता तत्थ ण आगारा, पण्णत्ता किमिह तुच्छंत्ति? ||17||