________________ बंभदत्त 1276 - अभिधानराजेन्द्रः - भाग 5 बंभदत्त त्सितं शरीरं शरीरकमनयोस्तु विशेषणसमासः / (से) तस्य भवान्तरगतस्य सम्बन्धि चीयन्ते मृतकदहनाय इन्धनान्यस्था मिति चितिः काष्ठरचनाऽऽत्मिका, तस्यां गतं स्थितं चितिगतं दग्धवा, तुः पूरणे, पावके नाग्निना भार्या व पुत्रोऽपि च ज्ञातयश्च दातारमभिलषितवस्तुसम्पादयितारमन्यत्, अनुसंक्रामन्त्युष सर्पन्ति, ते हि गृहमनेनावरुद्धमास्त इति तद्वहिनिष्कास्य जनलज्जाऽऽदिना च भस्मसात्कृत्य कृत्या च लौकिककृन्यान्या क्रन्धु च कतिचिद्दिनानि पुनः स्वार्थतत्परतया तथाविधमन्य मेवाऽनुवर्तन्ते न तु तत्प्रवृतिमपि पृच्छन्ति, आस्तां तदनुममन मित्यभिप्राय इति सूत्रद्वयाऽर्थः। किंचउवणिज्जइ जीवियमप्पमायं, वण्णं जरा हरइ नरस्स राय ! / / पंचालराया! वयणं सुणाहि, मा कासि कम्माणि महालयाणि // 26 // उपनीयते ढौक्यते प्रक्रमात मृत्यवे तथाविधकर्मभिर्जीवित मायुरप्रमादं प्रमादं विनैव, आवीचिमरणतो निरन्तरमिस्यभिप्रायः, सत्यपिचजीविते वर्ण सुस्निग्धच्छाया ऽऽत्मकं जरा विश्रसा हरत्यपनयति नरस्य मनुष्यस्य राजन् ! चक्रवर्तिन् ! यतश्चैवमतः पञ्चालराज! पञ्चालमण्डलोद्भवनृपते!, वचनं वाक्यं शृण्वाऽऽकर्णय, किं तत्? मा कार्षीः कानि? कर्माण्यसदारम्भरूपाणि (महालयाणि त्ति) अतिशयमहान्ति महान्याऽऽलयः कर्माऽऽ'लेषो येषु तानि, उभयत्रा पञ्चेन्द्रिय व्यपरोपणकुणिमभक्षणाऽऽदीनीति सूत्राऽर्थः। एवं मुनिनोक्ते नृपतिराह-- अहं पि जाणामि जहेह साहू! जं ये तुमं साहसि वक्कमेयं / मोगा इमे संगकरा भवंति जे दुजया अजो! अम्हारिसेहिं॥२७॥ अहमपि न केवल भवान्नित्यपिशब्दाऽर्थः / जानाम्यवबुध्ये, तथेतिशेषः, यथा येन प्रकारेण इहास्मिन् जगति साधो! यत् (मे) मम त्वं साधयसि कथयसि, वाक्यमुपदेशरूपं वचः, एतत् यदनन्तरं भवतोक्तम्। तत् किं न विषयान्परित्यजसि? अत आह-भोगाः शब्दाऽऽदय इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति ये, यत्तदोश्च नित्याभिसम्बन्धात्ते दुःखेन जीयन्ते अभिभूयन्ते इति दुर्जया दुस्त्यजा इति यावत्। (अज्जो ति) आर्य! अस्मादृशैर्गुरुकर्मभिर्जन्तुभिरिति गम्यते! पठ्यते च -''अहं पिजाणामि जो एत्थ सारो, “पादत्रयं तदेव, अहमपि जानामि योऽत्र सारः-यदिह मनुजजन्मनि प्रधानं चारित्रधर्माऽऽत्मक, घस्य गम्यमानस्वाद्यच मे त्वं साधयसि, शेष प्राग्वदिति सूत्राऽर्थः। किंचहत्थिणपुरम्मि चित्ता! दटूर्ण नरवई महिड्डीयं / कामभोगेसु गिद्धेणं, नियाणमसुहं कडं // 28 // तस्स मे अपडिकंतस्स, इमं एयारिसं फलं। जाणमाणो विजं धम्मं, कामभोगेसु मुच्छिओ // 26 / / हस्तिनागपुरे (चित्ता इति) आकारोऽलाक्षणिकः, हे चित्रा ! चित्रनामन् मुने ! दृष्ट्वा नरपति सनत्कुमारानामानं चतुर्थचक्रवर्तिन महर्द्धिक सातिशयसंपद कामभोगेषूक्तरूपेषु गद्धेनाऽमिकाढावता निदानं जन्मान्तरे भोगाऽऽशंसाऽऽत्मकम शुभमशुभाऽनुबन्धि कृतं निर्वतितमिति // 28 // कदाचित्तत्र कृतेऽपि ततः प्रतिक्रान्तः स्यादत आह-(तस्स त्ति) सुव्यत्ययेन तस्मान्निदानात् (मे) ममाप्रतिक्रान्तस्याप्रति निवृत्तस्य, तदाहि त्वया बहुधोच्मानेऽपि न मचेतसः प्रत्यावृत्तिरभूदितीदर्मतादृशमनन्तरवक्ष्यमाणरूपं फलं कार्य, यत् कीदृगित्याह-(जाणमाणो वि ति) प्राकृतत्वाजानन्नप्यवबुध्यमानोऽपि यदहं धर्म श्रुतधर्माऽऽदिकं, कामभोगेषु सूञ्छितो गृद्धस्तदेतत्कामभोगेषु मूर्च्छनं मम निदानकर्मणः फलम्, अन्यथा हि ज्ञानस्य फलं विरतिरिति कथं न जानतोऽपि धर्माऽनुष्ठानावाप्तिः स्यादिति भावः / इति सूत्राद्वयाऽर्थः। पुनर्निदानफलमेवोदाहरणतो दर्शयितुमाह - नागो जहा पंकजलाऽवसण्णो, द₹ थलं नाभिसमेइ तीरं! एवं वयं कामगुणेसु गिद्धा, ण भिक्खुणो भग्गमणुव्वयामो // 30 // नागो हस्ती, यथेति दृष्टान्तोपदर्शकः, पङ्कप्रधान जल पङ्कजल यत्कलमित्युच्यते, तत्राऽवसन्नो निमग्नः पङ्कजलावसन्नः सन् दृष्ट्वाऽवलोक्यं स्थलं जलविकलभूतलं (न) नैवाभिसमेति प्राप्नोति तीर पारमपेर्गम्यमानत्वात्तीरमप्यास्तां स्थलमिति भावः। इत्येवंविधनागवत्, वयमित्यात्मनिर्देशे, कामगुणेषुत्करूपेषु गृद्धा मूर्छिता न भिक्षोः साधोर्गि पन्थानं सदाचारलक्षणम्, अनुव्रजामोऽनुसरा मः। अमी हि पङ्कजलोपमाः कामभोगाः, ततस्तत्परतन्त्रतया नतत्परित्यागतो निरपायतया स्थलमिव मुनिमार्गमवगच्छन्तो ऽपि पङ्कजलावमनगजवद्वयमनुगन्तुं शक्नुम इति सूत्राऽर्थः। पुनरनित्यतादर्शनाय मुनिराह - अच्चेइ कालो तुरंति राइओ, न यावि भोगा पुरिसाण निच्चा उवेच भोगा पुरिसं चयंती, दुमं जहा खीणफलं व पक्खी॥३१॥ अत्येति अतिक्रामिति, कालो यथाऽऽयुःकालः, कि मित्येव-मुच्यते? अत आह त्वरन्ति शीघ्रं गच्छन्ति रात्रयो रजन्यो, दिनोपलक्षणं चैतत्, ततोऽनेन जीवितव्यस्यानित्यत्वम्। उक्तं हि- "क्षणयामदिवसमासच्छलने गच्छन्ति जीवितदलानि / इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ? // 1 // ' अथवा 'अत्येति अतीव याति, कोऽसौ? कालो. कुत एतत् ? यतः त्वरन्ति रात्रयो, न चापि भोगाः पुरुषाणां नित्याः शाश्वताः अपेभिन्नक्रमत्वान्न केवलं जीवित मुक्तनीतितः न नित्यं, किं तु भोगा अपि, यत उपेत्य स्वप्रवृत्या, न तु पुरुषाभिप्रायेण भोगाः पुरुष त्यजन्ति परिहरन्ति, कमिव क इवेत्याह-द्रुमं वृक्ष यथा