________________ बंभदत्त 1278 - अभिधानराजेन्द्रः - भाग 5 बंभदत्त दृशौ?सर्वस्य लोकस्य जुगुप्सनीयौ हीलनीयौ, इहेत्यम्मिन् जन्मनि, तुः पुनरर्थस्तत इह पुनः कर्माणि शुभाऽनुष्ठानानि (पुरेकडाइं इति) पूर्वजन्मोपार्जितानि विशिष्ट जात्यादिनिबन्ध नानीति शेषः / तत उत्पन्नप्रत्ययैः पुनस्तदुपार्जन एव यत्नो विधेयो, न तु विषयाऽभिष्वङ्गव्याकुलितमानसैरेवं स्थेयमिति भाव इति। यतश्चैवमतः स इति यः पुरा संभूतनामा अनगार आसीदिदानीमस्मिन् काले 'सि त्ति' पूरणे, यद्वा(दाणिसिं ति) देशीयभाषयेदानी राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् दृष्टधर्मफलत्वेनाभिनिष्क्रमेति संबन्ध। अथवा सोपस्कारत्वाद्यत् स एव त्वमिदानी राजा महानुभागाताऽऽद्यन्वित इह जातस्तत्कर्माणि पुराकृतानीति पूर्वेण संबन्धः। कोऽर्थः? पुराकृतकर्मविजृम्भितमेवैतत्, कथमन्यथा तथाभूतस्यैवंविध-समृद्धयवाप्तिरिति भावः / यतश्चैवमतोऽभिनिष्क्रमेति संबन्धः / किं कृत्वेत्याह-त्यवत्वाऽपहाय भुज्यन्त इति भोगाद्रव्यनिचयाः कामा वा तानशाश्यताननित्यानादीयते सद्धिवे कैह्यते इत्यादानश्चारिधर्मस्तद्धेतोरभिनिष्कमाऽऽभिमुख्येन प्रव्रजितो भय, गृहस्थतायां हिन सर्वविरतिरूपचारित्रसम्भव इति भावः / पटन्ति च-"आयाणमेवा अणुचितयाहि इति / स्पष्टमिति सूत्रत्रयाऽर्थः। क एवमकरणे दोष इत्याह - इह जीविए राय! असासयम्मि, धणियं तु पुण्णाई अकुव्वमागो। से सोयई मधुमुहोवणीए, धम्म अकाऊण परम्मि लोए / 21 // इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन्नशाश्वतेऽस्थिरे (धणियं तु | त्ति) अतिशयेनैव न तु ध्वजपटप्रान्ताऽऽद्यन्या स्थिरवस्तुसाधारणतया पुण्यानिपुण्यहेतुभूतानि शुभाऽनुष्ठानान्यकुर्वाणः स इति पुण्यऽनुपार्जक: शोचते दुःखाऽऽतः पश्चातापं विधत्ते मृत्युरायुःपरिक्षयस्तस्त मुखभिव मुखं मृत्युमुखं शिथिलीभवद्वन्धनाऽऽद्यवस्था तदुपनीतस्तथा विधकर्मभिरुपढौकितो मुत्युमुखोपनीतः सन् धर्म शुभाऽनुष्ठानमकृत्वाऽननुष्ठाय (परम्म त्ति) चस्य गम्यमान त्वात् परस्मिंश्च लोके जन्मान्तररूपे गत इति शेषः / नरकाऽऽ दिषु सह्यासातवेदनाऽऽतिशरीरः शशिनृपतिवत् किं न मया तदैव सदनुष्ठानमनुष्ठितमिति खिद्यत एवाधर्मकारीति सूत्राऽर्थः / स्यादेतत्, मृत्युमुखोपनीतस्य परत्रा वा दुःखाभिहतस्य स्वजनाऽऽदयस्त्राणाय भविष्यन्तिः, ततो न शोचिष्यते इत्याशड्क्याऽऽहजहेह सीहो व मियं गहाय, मचू णरं णेइ हु अंतकाले। न तस्स माया व पिया व भाया, कालम्मि तम्मंऽसहरा भवंति / / 22 / / न तस्स दुक्खं विभयंति णायओ, न मित्तवग्गा ण सुया ण बंधवा। एगो सयं पचणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं / / 23 / / यथेत्यौपम्ये, इहेति लोके, सिंहो मृगपतिः, वेति पूरणे, यद्वा-वाशब्दोऽयं विकल्पाऽर्थे , ततो व्याघ्राऽऽदिर्वा मृगं कुरङ्ग गृहीत्वोपादाय प्रक्रमात म्वमुख परलोक वा नयतीति सम्बन्धः / एवं मृत्युः कृतान्तो, नरं पुरुष, नयति, हुरवधारणे, ततोनयत्येव, कदा? अन्तकाले जीवितव्याऽवसानसमये। किमुक्तं भवति? यथाऽसौ सिंहेन नीयमानो न तस्मै अलमेव मयमपि जन्तुर्मृत्युना, कदाचित् स्वजनस्ता साहाय्यं करिष्य त्यत आह-न तस्य मृत्युना नीयमानस्य माता वा पिता वा (भाय त्ति) वाशब्दस्येह गम्यमानत्वात् भ्राता वा काले तस्मिन् जीवितान्तरूपेऽश प्रक्रमाजी-वितव्यभागं धारयन्ति मृत्युना नीयमानं रक्षन्तीत्यंशधराः, यथा हि नृपाऽऽदौ स्वजनसर्वस्व मपहरति स्वदंविणदानतः स्वजनाऽऽदिभिस्तद्रक्ष्यते नेवं स्वजीवित - व्यांशदानतः तञ्जीवितं मृत्युना नीयमानम्। उक्तं हि.-" न पिता भ्रातरः पुत्राः, न भार्या न च बान्धवाः / न शक्ता मरणात्त्रातुं, शक्ताः संसारसागरे॥१॥" इति। अथवा--अंशो दुःखभागस्त हरन्त्यपनयन्ति येतेऽशहरा भवन्तीति इदमेवाभि व्यनक्तिआद्यव्याख्याने तु स्यादेतत्जीवितारक्षणेऽपि दुःखांशहारिणो भविष्यन्त्यत आह-नतस्य मृत्युना नीयमानस्य तत्काल भाविना दुःखेनात्यन्तपीडितस्य दुःखंशरीरं मानसं वा विभजन्ति विभागीकुर्वन्ति ज्ञातयो दूरवर्तिनः स्वजनाः न मित्रवर्गाः सुहृत्समूहा न सुताः पुत्राः, नबान्धवाः निकटवर्तिनः स्तजनाः, किंतु एकोऽद्वितीयः स्वयमात्मना प्रत्यनुभवति वेदयते दुःखं क्लेशं किमिति? यतः कर्तारमेवोपार्जथितारमेव, अनुयात्यनगुच्छति, किं तत् ?कर्म, येन तत्कृतं तस्यैव फलमुपनयतीति भाव इति सूत्राद्वयाऽर्थः। इत्थमशरणत्वभावनामभिधायैकत्वभावनामाह - चिचा दुपयं च चउप्पयं च, खेत्तं गिहं धणधण्णं च सव्वं / कम्मप्पबीओ अवसो पयाई, परं भवं सुंदर पावगं वा / / 24 // तमिक्कगं तुच्छसरीरगं से, चिईगयं दहिउं तु पावगेणं / मज्जा य पुत्तो वि य णायओ य, दायारमण्णं अणुसंकमंति।। 25 / / त्यक्त्वा-उत्सृज्य, द्विपदं च भावीऽऽदि, चतुष्पदं चहस्त्यादि, क्षेत्राम्इक्षुक्षेत्राऽऽदि, गृहं धवलगृहाऽऽदि (धण त्ति) धनं कनकाऽऽदि, धान्य शाल्यादि, चशब्दाद् वरखाऽऽदि च, सर्व निरवशेष, ततः किमित्याहकम्मैवाऽऽत्मनो द्वितीय-मस्येति कर्माऽऽत्मद्वितीयोऽवशोऽस्वतन्त्र, प्रकर्षण याति प्राप्रोति प्रयाति, कं? परमन्यभवं जन्म (सुदर त्ति) विन्दुलोपात सुन्दर स्वर्गाऽऽदि, पापकं वा नरकाऽऽदि स्वकृत कम्मानुरूपमिति भावः। तत्र किमन्यदर्शनिनामिव सशरीर एव भवाऽन्तरं यात्युतान्यथेति? उच्यते औदारिकशरीराऽपेक्षया ऽशरीर एव, तर्हि तत् त्यक्तत्वेत्यत्रा का वार्तेत्याह-(तदिति) यत्तेन व्यक्तम् एकमद्वितीय तद् द्वितीयस्य जन्तोरन्यत्र संक्रमणात् तुच्छमसारमत एव कु