________________ बंभदत्त 1276 - अमिधानराजेन्द्रः - भाग 5 बंभदत्त कृतानिविहितानि निदानप्रकृतानि, निदानवशनिबद्धानीतियोऽर्थः त्वया राजन्! विचिन्तितानीति, तद्धेतुभूताऽऽर्तध्याना ऽऽदिध्यानतः कर्माण्यपि तथोच्यन्ते तेषामेवंविध कर्मणां फलं चाऽसौ विपाकञ्च शुभाऽशुभंजनकत्वलक्षणाः फलविपाक स्तेन, यद्वा कम्ण्य नुष्ठानानि (णियाणपयडत्ति) निदानेनैव शेषशुभा-ऽनुष्ठानस्याऽऽच्छादितत्वात् प्राग्वत् प्रकटनिदानानि त्वया राजन! विचिन्तितानि कृतानीतिणावत्। तेषा फलंक्रमात् कर्म तद्विपाकेन विप्रयोग विरहमुपागती प्राप्तौ।किमुक्तं भवति? यत्तदा त्वयाऽस्मन्निवारितेनाऽपि निदानमनुष्ठितं तत्फलमेतद्यदावयोस्तथा भूतयोरपि वियोग इति सूत्राऽर्थः / इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाहसचसोयप्पगडा, कम्मा मए पुरा कडा। ते अञ्ज परिभुंजामो, किं नु चित्ते वि से तहा / / 6 / / सत्यं-मृषाभासापरिहाररूपं, शौचम्-अमायमनुष्ठानं, ताभ्यां प्रकटानिप्रख्यातानि कर्माणि प्रक्रमाच्छुभाऽनुष्ठानानि शुभप्रकृतिरूपाणि वा मया पुरा कृतानि, यानी ति गम्यते। तान्यद्य-अस्मिन्नहनि, शेषतद्भवकालोपलक्षणं चैतत् (परिभुंजामो त्ति) परिभुजे तद्विपाकोपनतस्त्रीरत्नाऽऽदिपरिभोग द्वारेण वेश्ये, यथेति गम्यते, किमिति प्रश्ने, नुइति वितर्के, चित्रोऽपि चित्रानामाऽपि, कोऽर्थो ? भवानपि (से इति) तानि तथा परिभुङ्क्ते? नैवभुङ्क्ते, भिक्षु१कत्वाद्भवतस्मथा च किमिति भवताऽपि मयैव सहोपार्जितानि शुभकर्माणि विफलानिजातानीत्याशय इति सूत्राऽर्थः1 मुनिराहसव्वं सुचिन्नं सफलं नराणं, कडाण कम्माण न सुक्खु अत्थि। अत्थेहिं कामेहि अ उत्तमेहिं, आया ममं पुण्णफलोववेओ / / 10 // जाणाहि संभूय! महाणुभागं, महिड्डियं पुन्नफलोववेयं / चित्तं पि जाणाहि तहेव रायं, इड्डी जुई तस्स वि अप्पभूया / / 11 / / महत्थरूवा वयणप्पभूया, गाहाऽणुगीया नरसंघमज्झे। जं भिक्खुणो सीलगुणोववेया, इहऽजयंते समणोऽम्हि जाओ।॥१२॥ सर निरवशेष, सुचीपर्णशोभनमनुष्ठितं, तपःप्रभृतीति गम्यते, दीर्घशब्दस्य सुचीर्णे प्रोषितव्रतम इत्यादि रूढितः साधुत्वं, सह फलेन वर्तत इति सफल, नराणामित्युपलक्षण त्वादशेषाणामपि प्राणिना, किमिति? यतः कृतेभ्योऽर्थादवश्यवेद्य तयोपरचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्तीति, ददति हितानि निजफलमवश्यमिति भावः। प्राकृतत्वाच सुप्व्यत्ययः, स्यादेतत्त्वयैव व्यभिचार इत्याह अर्थः-द्रव्यैरयैर्वा प्रार्थनीयैः वस्तुभिरिलि गम्यते / कामैश्च मनोज्ञशब्दाऽऽदिभिरुत्तमैः-प्रधानैः, लक्षणे तृतीया ततएतदुपलक्षितः सन् आत्मा मम पुण्यफलेनशुभकर्माफलेनोपपेतोऽन्वितः स पुण्यफलोपपेत इति।। 10 // यथा त्वं जानासि-- अवधारयसि संभूत! पूर्वजन्मनि संभूताभिधान! महानुभागं बृहत्माहात्म्यं महर्द्धिकं सातिशयविभूतियुक्तमत एव पुण्यफलोपेतं चित्रमपि जानीहि अवबुद्धयस्व तथैवाविशिष्टमेव राजन! नृप! किमित्येवमत आहऋद्धिः-संपत् द्युतिर्दीप्तिस्तस्याऽपीति जन्मान्तरनामतश्चित्राभिधानस्य, ममापीति भावः / चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता बह्रीत्यर्थः यद्वा-आत्मा मम पुण्यफलोपेत इत्यनेन चित्रा एवाऽऽत्मानं निर्देिशति, तथा जानीहि संभूत इत्यादावात्मेत्यनुवर्ततेऽर्थव शाच विभक्तिपरिणामः / ततश्चैवं योज्यते हे संभूत! यथा त्वमात्मानं महानुभागाऽदिविशेषणविशिष्ट जानासि तथा चिामपि जानीहि, चित्रनाम्नो ममापि गृहस्थभावे एवंविधत्वादेवेति भावः / शेषं प्राग्वत् 191 / / यदि तवाप्येवंविधा समृद्धिरासीत्तत्किमिति प्रव्रजित इत्याहमहानपरिमितोऽनन्त द्रव्यपर्यायाऽऽत्मकतया अर्थोऽभिधेयं यस्य तन्महार्थ रूप-स्वरूपं तु चक्षुह्यो गुणः, ततो महार्थ रूपं यस्याः सा तथा, महतो वाऽर्थान् जीवाऽऽदितत्वरूपान् रूपयति-दर्शयतीति महार्थरूपा, (वयणप्पभूय ति) वचनेनाप्रभूता अल्पभूता वा अल्पत्वं प्राप्ता वचनाल्पभूता वचनात् प्रभूता वा स्तोकाक्षरेति यावत्, केयमीदृशीत्याह-गीयत इति गाथा, सा चेहार्थाद्धम्मौभिधायिनी सूत्रपद्धतिः अन्विति-तीर्थकृद् गणधराऽदिभ्यः पश्चाद्गीता अनुगीता कोऽर्थः? तीर्थकाराऽऽदिभ्यः? श्रुत्वाप्रतिपादिता, स्थविरैरिति शेषः / अनुलोम वा गीताऽनुगीता अनेन श्रोत्रानुकूलैव देशना क्रियते इति ख्यापितं भवति / केत्याह-नराणां पुरुषाणां सङ्घ समूहस्तन्मध्ये, गाथामेव पुनर्विशेषयितुमाह-यांगाथां भिक्षवो मुनयः शीलं चारित्रं तदेव गुणो, बद्धागुणः पृथगेव ज्ञान, ततः शीलगुणेन शीलगुणाभ्यां वा चारित्रज्ञानाभ्यामुपेता-युक्ताः शीलगुणोपेताः इहारिमन् जगति (अजयंते त्ति) अर्जयन्ति-पठनश्रवणतदर्थानुष्ठाना ऽऽदिभिरावर्जयन्ति / यद्वा-"ज भिक्खुणो' इत्यत्र श्रुत्वेति शेषः / ततो यां श्रुत्वा (जयंत त्ति) इहास्मिन् जिनप्रवचने यतन्ते यत्नवन्तो भवन्ति, सोपस्कारत्वात्सा मयाऽप्याकर्णिता, ततः श्रमणस्तपस्वी अस्म्यहंजातो, नतुदुःखदग्धत्वादिति भावः। पठ्यते च-(सुमणो त्ति) सुमनाः शोभनमना इति सूत्रत्रयार्थः / / 12 / / इत्थं मुनिनाऽभिहिते ब्रह्मदत्तः स्वसमृद्ध्या निमन्त्रायितुमाह - उच्चोअए महु कक्के य बंभे, पवेइया आवसहा य रम्मा। इमं गिहं वित्तधणप्पमूयं, पसाहि पंचालगुणोववेयं / / 13 // नमुहिं गीएहि य वाइएहिं, नारीजणेहिं परिवारयंतो। भुंजाहि भोगाइँ इमाईं भिक्खू, मम रोयई पव्वा हु दुक्खं // 14 //