________________ बंभचेर 1261 - अभिधानराजेन्द्रः - भाग 5 बंभचेर थोदशद्वीपवर्ती प्रवरः, एवमिदं व्रतानां प्रवरमिति भावः / तथा ऐरावणः शक्रगजो यथा कुञ्जराणां प्रवर एवमिदं व्रतानाम्, सिंहो वा यथ मृगाणामाटव्यपशूनां प्रवरः प्रधानः एवमिदं व्रतानाम्, (पवगाणं चेव त्ति) प्रवकाणामिव प्रकमात् सुपर्णकुमाराणां यथा वेणुदेवः प्रवरस्तथा व्रतानां ब्रहाचर्यमिति प्रकृतम् / यथा धरणो पन्नगेन्द्राणां भुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवर एवमिदं व्रतानामिति प्रक्रमः / कल्पानामिव देवलोकानां यथा ब्रह्मलोकः पञ्चदेवलोकः तत् क्षेत्रस्य महत्वात्तदिन्द्रस्यातिशुभपरिणामत्वात् प्रवर एवमिदं व्रतानां सभासु च प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवं लक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवति प्रवरा तथेदं व्रताना मिति स्थितिषु आयुष्केषु मध्ये लवसप्तमाऽनुत्तरभव स्थितिर्वा शब्दो यथाशब्दार्थः / ततो यथा प्रवरा प्रधानातथेदं व्रतानामिति तत्रैकोनपञ्चाशत् उच्छवासानां लवो भवति / ब्रीह्यादिस्तम्बलवनं वा लवस्तत्प्रमाणः कालोऽपि लवः, तत्तो लवैः सप्तमैः-सप्तप्रमाणैः सप्तसंख्यैर्विवक्षताध्यवसाय विशेषस्य मुक्तिसम्पादकस्याऽपूर्यमाणैर्या स्थितिबध्यते सा लवसप्तमेत्यभिधीयते / तथा (दाणाणं चेव अभयदाणं ति) दानानां मध्ये अभयदानमिव प्रवरमिदं, तत्र दानानि ज्ञानधर्मोपग्रहाभयदानभेदात्वीणि (किमिरागो व्व कंबलाणं ति) कम्बलानां वासोविशेषाणां मध्ये कृमिराग इव कृमिरागत्क कम्बलमिव प्रवरमिदंव्रतानां तथा (संहणवेचेववारिसहे त्ति) संहननानां षण्णां मध्ये वज्रऋषभनाराचसंहननमिव प्रवरमिदं व्रतानामिति। (संठाणे चेव चउरंसे त्ति) शेषसंस्थानानां चतुरस्रसंस्थानमिवेदं प्रवरं व्रतानां, तथा ध्यानेषु च परमशुल्क ध्यानं शुल्कध्यानचतुर्थभेदरुपं यथा प्रवरमेवभिदं व्रतेष्विति गम्यम् ! (नाणेसु य परम केवल तु सिद्ध ति) ज्ञानेत्वाभिनि बोधिकाऽऽदिषु परमं च तत्केवलं परिपूर्ण विशुद्धं वा मतिश्रुता वधिमनः पर्यायापेक्षया परमकेवलं क्षायिकज्ञानमित्यर्थः, तरेवकारार्थः, सि....... प्रवरतया प्रसिद्धं यथा तथेदमपि व्रतेष्विति गमनीयम् / लेश्यासु च कृष्णाऽऽद्यासु परमशुल्कलेश्या शुल्कध्यानतृतीयभेदवर्तिनी यथा प्रवरा तथेदं व्रतेष्विति गम्यम्। तीर्थकर चैव यथा मुनीनां प्रवरस्तथैवेदं व्रतानां वर्षेषुक्षेत्रविशेषेषु यथा महाविदेहस्तथेदं व्रतेषु (गिरिराया चेव मंदरवरे त्ति) चेवशब्दस्य यथार्थत्वाद्यथा मन्दवरोजम्बूद्धीपमेरुर्गिरिराजस्तथेदंव्रतराजः, वनेषु भद्रशालनन्दसौमनसपण्डकाभिधानेषु मेरुसम्बन्धिषु यथा नन्दनवनं प्रवरमेवमिदिमिति द्रुमेषु तरुषु मध्ये यथा जम्बूः सुदर्शनेति सुदर्शनाभिधाना विश्रुतयशाः विख्याता एवमिदमिति / किंभूता जम्बूः?-यस्या नाम्नाऽयं द्वीपः जम्बूद्वीप इत्यर्थः, तथा तुरगपतिर्गजपतिः स्थपरिनरपतिर्यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतः पराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभिभावी भवतीति निगमयन्नाह - एवमुक्तक्रमेणानेके गुणाः प्रवरत्वबिश्रुतत्वाऽऽदयोऽनेक मिदर्शनाभिधेयाअहीना प्रकृष्टा अधीना च स्वाऽऽयुत्ता भवन्ति। केत्याहएकस्मिन् ब्रह्मचर्ये चतुर्थे व्रते। जम्मिय आराहियम्मि आराहियं वयमिणं सव्वं, सीलं तवो य विणओ य संजमो य खंत्ती गुत्ती मूत्ती तहे व इहलोइय पारलोइयजसे य कित्ती य पञ्चओ य तम्हा निहुएण, बंमचेरं चरियव्वं सव्वओ विसुद्धं जावञ्जीवाए० जाव सेयट्ठिसंजउ त्ति एवं भणियं बयं भगवया / तं च इमं"पंचमहव्वयसुव्वयमूलं, समणमणाइलसाहुसुत्तिण्णं। वेरविरामणपञ्जवसाणं, सव्वसमुद्दमहोदहितित्थं // 1 // तित्थकरेडि सुदेसियमग, नरगतिरिच्छविवज्जियमग्गं। सव्वपवित्तसुनिम्मियसार, सिद्धिविमाणअवंगुयदारं // 2 // देवनरिंदनमराियपूर्य, सव्वजगुत्तममंगलमर्ग। दुद्धरिस गुणनायकमेकं, मोक्खपहस्स बडिंसगभूयं / / 3 / / " तथायस्मिंश्च ब्रहाचर्य आराधिते पालिते आराधितं पालितं व्रतमिदं निन्थप्रव्रज्यालक्षणं सर्वम्-अखण्ड तथा शीलं समाधानं तपश्च विनयश्च संयमश्च क्षान्तिगुप्तिर्मुक्तिर्निर्लोभता सिद्धिर्वा, तथैवेति समुच्चये, तथा-ऐहलौकिकपारलौकिक यशांसि चकीर्तयश्च प्रत्ययश्च, आराधिता भवन्तीति प्रक्रमः / तत्रायशः पराक्रमकृतं, कीर्तिर्दानफलभूता। अथवा-सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्तिः, प्रत्ययः साधुरयम् इत्यादिरुपा जनप्रतीतिरिति। यतएवंभूतं तस्मान्निभृतेन इत्यादिरापा जनप्रतीतिरिति। यत एवंभूतं तस्मान्निभृतेन स्तिमितेन ब्रह्मचर्य चरितव्यमा सेवनीय, किंभूत? सर्वतो मनःप्रभृतिकरणत्रययोत्रायेण विशुद्ध निरवद्यं यावज्जीवया प्रतिज्ञया यावञ्जीवतया वा आजन्मेत्यर्थः / एतदेवाऽऽयावत् श्वेतास्थिसंयत इति श्वेतास्थिता च साधो म॒तस्य क्षीणमासांऽऽदिभावे सतीति इतिशब्दो व्यवस्थितवाक्यार्थसमाप्तौ, भङ्गयन्तरेण ब्रह्मचर्य व्रतं स्तोतुं प्रस्तावयति। एवं वक्ष्यमाणेन च वचनेन भणितं व्रतं ब्रह्मचर्यलक्षणं भगवता श्रीमहावीरेण, (तं च इम ति) तचेदं वचनं पद्यायप्रभृतिकम्-(पंचमहव्वयसुव्वयमूल) पञ्चमहाव्रतनामकानि यानि सुव्रतानि तेषां मूलमिव मूलं यत् / अथवापञ्चमहाव्रताः साधवस्तेषां सम्बन्धिनां शोभननियमानां मूलं यत्, अथवा-पञ्चाना महाव्रतानां सुव्रतानांवाऽणुव्रतानां मूलं यत्तत्तथा / अथवा-हे पञ्चमहायत! सुव्रत! मूलमिदं ब्रह्मचर्यमिति प्रकृतम् ! (समणमणाइलसाहुसुचिन्नं) (समण ति) सभाव यथा भवतीत्येवमनाविलैरकलुषैः शुद्धस्वभावैः साधुभिर्यतिभिः सुष्टु चरितमासेवितं यत्तत्तथा। (वेराविरमणपज्जवसाणं) वैरस्य परस्परानुशयस्य विरमणं विरामकरणमुपशमनयनं निवर्त्तनं पर्यवसानं निष्ठाफलं यस्य तत्तथा / (सव्वसमुद्दमहोदहितित्थ) सर्वेभ्यः समुद्रेभ्यः सकाशन्महानुदधिः स्वयंभूरमण इत्यर्थः, तद्वद्यदुर्निस्तरत्वेन तत्सर्वसमुद्रमहोदधिस्तथा तीर्थमिव तीर्थ पवित्रताहेतुर्यत्र तत्तथा / अथवासर्वसमुद्रमहोदधिः संसारोऽतिदुस्तरत्वासन्निस्तरणे तीर्थमिव तरणोपाय इव तत्तथेति वृत्ताऽर्थः॥१॥ (तित्थकरहिं सुदेसियमणं ति) तीर्थकरैर्जिनैः सुदेशितमार्गे सुष्टु दर्शितं गुप्त्यादि तत्पालनोपायं (निरयतिरिच्छविवनियमगं) नरकतिरश्यां संबन्धी विवर्जितो निषिद्धेमार्गोगतिर्यनतत्तथा। (सव्यपवित्तसुनिम्मियसारं) सर्वपवित्राणि समस्तपावनानि सुनिर्मितानि सुष्टु विहितानि साराणि