________________ बंभचेर 1260- अभिधानराजेन्द्रः - भाग 5 बंभचेर मित्यर्थः / तथा भव्यजनानुचरित निःशङ्कितम्-अशङ्कनीयं ब्रह्मचारी हि जनाना विषयनिस्पृहत्वादशङ्कनीयो भवति / तथा-निर्भयं ब्रह्मचारी हि अशङ्कनीयत्वान्निर्भयो भवति। निस्तुषमिव निस्तुषं विशुद्धतन्दुलकल्प, निरायासं-न खेदकारणं, निरुपलेपस्नेहवर्जित, तथा निवृत्तेःचित्तस्वास्थ्यस्य गृहमिव गृह यक्षत्तथा। आह च - "क्व यामः क नु तिष्ठामः, किं कुर्मः किं न कुर्महे? रागिणश्चिन्तयन्त्येव, नी रागाः सुखमासते॥१॥" नीरागाश्च ब्रह्मचारिण एव, तथा नियमेनाऽवश्यभावेन निष्प्रकम्पम्-अविचलं निरतिचारं यत्तत्तथा, व्रतान्तर हि सापवादमपि स्यादिदं च निरपवादमेवेत्यर्थः / आह च- "ण वि किंचि अणुन्नायं, पडिसिद्ध वावि जिणवरिदेहि। मोत्तुं मेहुणभावं, णतं विणा रागदोसेहिं / / १॥"ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियमनिष्प्रकम्पमिति भवति, तपः संयमर्योर्मूलदलिक मूलदलमादिभूतद्रव्यं तस्य (नेम्म ति) निभं-- सदृशं यत्तत्तथा, पञ्चानां महाव्रतानां मध्ये सुष्टु अत्यन्त रक्षितं रक्षणं पालनं यस्य तत्तथा, समितिभिरीसिमित्याभिर्गुप्तिभिर्मनोगुप्त्यादिभिर्वसत्यादिभिर्वा नवभिब्रह्मचर्यगुप्तिभिर्युक्तं गुप्तं वायत्तत्तथा, ध्यानवरमेवप्रधानध्यानमेव कपाट सुकृतं सुविरचितं रक्षणार्थे यस्य अध्यात्मैव च सद्भावनारूढं चित्तमेव (दिण्णो त्ति) दत्तो ध्यानकपाटहढीकरणार्थपरिघोऽर्गला रक्षणार्थमेव यस्य तत्तथा, सन्नद्ध इवबद्ध इव अवस्थगित इव (ओच्छाइय) आच्छादित इव निरुद्ध इत्यर्थः, दुर्गतिपथः दुर्गतिमार्गो येन तत्तथा, सुगतिपथस्य देशकं दर्शकं यत्तथा, तच लोकोत्तमं च व्रतमिदं दुष्करत्वात् / यदाह - "देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा / बंभचारि नमसंति, दुक्कर जंकरितिते॥१॥'' (पउमसरतलागपालिभूर्य ति) सरः-स्वतः संभयो जलाऽऽशयविशेषः तडागश्च स एव पुरुषाऽऽदिकृ तइति समाहारद्वन्द्वः / पद्मप्रधानं सरस्तडागंपद्मसरस्तडागमिव मनोहरत्वे नोपादेयत्वात् पदासरस्तडागं धर्मस्तस्य पालिभूतं रक्षकत्वेन पालीकल्पं यत्तत्तथा, तथा महाशकटारका इव महाशकटारकाः क्षान्त्यादिगुणास्तेषां तुम्बभूतमाधारसामा नाभिकल्पं यत्तत्तथा, महाविटपवृक्ष इव - अतिविस्तारभूरुह इव महाविटपवृक्षः आश्रितानां परमोपकारत्वसाधाद्धर्म स्तस्य स्कन्धभूतं तस्मिन् सति सर्वस्य धर्मशाखिन उपपद्यमा नत्वेन नालकल्पं यत्तत्तथा। (महानगरपागारकवाडफलिहभूयं ति) महानगरमिव महानगरं विविधसुखहेतुत्वसाधाधर्मः तस्य प्रकार इव कपाटमिव परिघमिव यत् तन्महानगरप्राकारकपाटपरिघभूतमिति, रज्जुपिनद्धइव इन्द्रकेतु रश्मिनियन्त्रितेवेन्द्र-यष्टिविशुद्धाऽनेकगुणसंपिनवं निर्मलबहुगुणपरिवृत्तं यस्मिश्च यत्रा च ब्रह्मचर्ये भग्नेविराधिते भवति सम्पद्यते सहसा अकस्मात् सर्व सर्वथा संभग्नं घट | इव मर्दितं मथितं दधीव विलोडितंचूर्णित चणक इवापष्ट कुशल्यितमन्तः | प्रविष्टतोमराऽऽदिशल्यशरीरमिव सजातदुष्टशल्यं (पल्लट्ट त्ति) पर्वतशिखराद गण्डशैल इव स्वाऽऽश्रयाचलितं पतितं प्रासादशिखराऽऽदे: कलशाऽऽदिरिवाधो निव्रतितं खण्डितं दण्डइव विभागेन छिन्नंपरिशटिन कुष्ठाऽऽधुपहताङ्गमिव विध्वस्तविनाशितं च भस्मीभूतं पवनविकीर्ण दार्विव निस्सत्ताकतां गतम्। एषां समाहारद्वन्द्वः कर्मधारयो वा। किमेवंविधं भवतीत्याह-विनयशीलतयोनिय मगुणसमूह विनयशीलतपोनियम लक्षणानां गुणानां वृन्दम्। इहच समूहशब्दस्य छान्दसत्वान्नपुंस कनिर्देशः / तं बंभं भगवंतं गहगण्णणक्खत्ततारगाणं वा जहा उडुपती मणिघुत्तसेलप्पबालरत्तरयणागराणं च जहा समुद्दोवेरुलिओचेव जहा मणीणं जह मउडो चेव भूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चेव पुप्फजेटुं गोसीसं चेव चंदणाणं हिमवंतो चेव ओसहीणं सीतोदा चेव निन्नगाणं उदहीसु जहा सयंभूरमणो रुयगवरो चेव मंडलिकपव्वयाण पवरे एरावण इव कुंजराणं सीहो व्व जहा मिगाणं पवरे पवगाणं चेव वेणुदेवे धरण्णो जहा पण्णगई दराया कप्पाणं चेव बंभलोए संभासु यह जहा भवे सुहम्मा ठिइसु लवसत्तम व्व पवरा दाणाणं चेव अभयदाणं किमिराओ चेव कं बलाणं संघयण्णे चेव वञ्जरिसमे संठाणे चेव समचठरंसे झाणेसु य परमसुक्कज्झाणं नाणेसु य परमकेवलं तु सिद्धं लेसासु य परमसुक्कलेस्सा तित्थकरे चेव जहा मुणीणं वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वणेसु जहा णंदणवणं पवरं दुमेसु जहा जंबू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो तुरगवती गयवती रहवती नरवती जह विस्सुते चेव राया रहिए चेव जहा महारहगते एवमणेगा गुणा अहीणा भवंति एक्कम्मि बंभचेरे। (2) / (तमिति) तदेवभूतं ब्रह्मचर्य भगवन्तं भट्टारकं तथा गृहगणनक्षत्रतारकाणां वा यथा उडुपतिश्चन्द्रः प्रवर इति योगस्तथेद व्रतानामिति शेषः / वाशब्दः पूर्वविशेषणापेक्षया समुचये। तथा-मणयश्चन्द्रकान्ताऽऽद्या मुक्ता मुक्ताफलानि शिला प्रवालानि विदुमाणि रक्तरत्नानि पद्मरागाऽऽदीनि तेषामाकरा उत्पत्तिभूमयो ये ते तथा तेषां वा, यथा समुद्रः प्रवरस्तथेदं व्रतानामिति शेषः सर्वत्र दृश्यः। वैडूर्य चैव रत्न विशेषो यथा मणीनां मुकुट चैवं भूषणानां वस्त्राणामिव क्षौमयुगलं कार्यासिक वस्त्रस्य प्रधानत्वात्। इह चेवशब्दो यथार्थो द्रष्टव्यः (अरविंद चेव त्ति) अरविन्दं पदां यथा पुष्पज्येष्ठमेवमिदं व्रतानां (गोसीस चेव त्ति) गोशीर्षाभिधानं चन्दनं यथा चन्दनानां (हिमवन्तो चेव त्ति) हिमवानिव औषधीना यथा हिमवान् गिरिविशेष औषधीनासद्भुतकार्यकारिवनस्पतिविशेषाण मुत्पत्तिस्थानवमेवं ब्रह्मचर्यमौषधीनामामझैषध्यादीनामागमप्रसिद्धानामुत्पत्तिस्थानमिति भावः। (सीतोदा चेव ति) शीतोदेव निम्नगाना नदीना, यथा नदीनां शीतोदा प्रवरा तथेदं व्रताना-मित्यर्थः / उदधिषु यथा स्वयंभूरमणोऽन्तिमसमुद्रो महत्वे प्रवर एवमिदं व्रताना प्रवरमिति (रुयगवरे चेव मण्डलिए पव्वयाण पवरे त्ति) यथा माण्डलिकपर्वताना मानुषोत्तरकुण्डल वररुचकवराऽभिधानाना मध्ये रुचकवरस्त्र