________________ बंधहेउ 1255 - अभिधानराजेन्द्रः - भाग 5 बंधहेउ वृत्तिरित्यर्थः / उपलक्षणत्वात् पञ्चेन्द्रियवधाऽऽदिपरिग्रहः / यन्न्यगादि "पञ्चेन्द्रियप्राणिवधो, बहारम्भपरिग्रहौ। निरनुग्रहता मांसभोजनं स्थिरवैरता / / 1 / / रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता। कृष्णनील कपोताश्च, लेश्या अनृतभाषणम्॥२॥ परद्रव्यापहरण, मुहुमैथुनसेवनम्। अवशेन्द्रियता चेति, नरकाऽऽयुष आश्रवाः // 3 // " इति / / 56 / उक्ता नरकाऽऽयुषो वन्धहेतवः। इदानी तिर्यगायुषस्तानाहतिरियाउगूढहियओ, सढो ससल्लो तहा मणुस्साउ। पयइई तणुकसाओ, दाणरुई मज्झिमगुणो य॥५७ // तिर्यगायुर्वध्नाति जीवः / किंविशिष्ट इत्याहगूढहृदय उदायिनृपमारकाऽऽदिवत्तथाऽऽत्माभिप्राय सर्वथैव निगृहति यथा नापरः कश्चिद्वेत्ति / शठोवचसा मधुरः परिणामे तु दारुणः / सशल्योरागाऽऽदिवशाऽऽचीनकव्रतनियमाति चारस्फुरदन्तः शल्योऽनालोचिताप्रतिक्रान्तः। तथाशब्दादुन्मार्गदेशनाऽऽदिपरिग्रहः उक्तं च"उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता। आर्तध्यानं सशल्यत्वं, मायारम्भपरिग्रहौ // 1 // शीलवते सातिचारोनीलकापोलेश्यता। अप्रत्याख्यानकषायास्तिर्यगायुष आश्रवाः॥२॥" उक्तास्तिर्यगायुर्बन्धहेतवः / / अथ मनुष्याऽऽयुषस्तानाह''मणुस्साउ'' इत्यादि। मनुष्याऽऽयुर्जीवो बध्नाति। किंविशिष्ट इत्याहप्रकृल्यास्वभावेनैव तनुकषायो रेणुराजिसमानकषायः दानरुचिर्यत्र तत्रा वा दानशीलः, मध्यमास्तदुचिताः केचिद् गुणाः क्षमामार्दवाऽर्जवाऽऽदयो यस्य स मध्यमगुणः। अधमगुणस्य हि नरकाऽऽयुः संभवादुत्तमगुणस्यतु सिद्धेः सुरलोकाऽऽयुषो वा सम्भवादिति भावः / चशब्दादल्प परिग्रहाल्पाऽऽरम्भादिपरिग्रहः / उक्ता मनष्याऽऽयषो बन्धहेतवः। आहच"अल्पौ परिग्रहाऽऽरम्भौ, सहजे मार्दवार्जवे। कापोतपीतलेश्यात्वं, धर्मध्यानाऽनुरागिता // 1 // प्रत्याख्यानकषायत्वं, परिणामश्च मध्यमः। सविभागविधायित्वं, देवतागुरुपूजनम्॥२॥ पूर्वाऽऽलापप्रियाऽऽलापौ, सुखप्रज्ञापनीयता / लोकयात्रासु माध्यस्थ्यं, मानुषाऽऽयुष आश्रवाः // 3 // " इति / / 57 // सम्प्रति देवायुऽऽषस्तानाहअविश्यमाइ सुराउं, बालतवोकामनिज्जरो जयइ। सरलो अगारविल्लो, सुहनामं अन्नहा असुइं // 58 / / अविरत:-अविरतसम्यग्दृष्टिः सुराऽऽयुर्देवाऽऽयुष्कं जयतिबध्नाति। आदिशब्दाद्देशविरतसरागसंयतपरिग्रहः। वीतराग संयतस्त्वतिविशुद्धत्वादायुर्न बध्नाति, घोलणापरिणाम एवं तस्य बध्यमानत्वात् / बालं तपो यस्य स बालतपाः, अनधिगत परमार्थस्वभावो दुःखगर्भमोहगर्भवैराग्योऽज्ञानपूर्वक निर्वर्विततपः प्रभृतिकष्टविशेषो मिथ्यादृष्टिः, सोऽप्यात्मगुणानुरूपं किञ्चिदसुराऽऽदिकाऽऽयुर्बध्नाति। यदाह भगवान् भाष्यकार:-"बालतवे पडिबद्धा, उक्कडरोसा तवेण गारविया। वरेण य पडिबद्धा, मरि असुरेसु जायंति॥१॥" अकामस्या निच्छतो निर्ज कर्मविचटनलक्षणा यस्यासावकामनिर्जरः / इदमुक्तं भवति "अकाम तण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीयायवदंसमसगअण्हाणगसेयजल्लमलपंकपरिग्गहेणं दीहरोगवारगनिरोहबंधणयाए गिरितरुसिहरनिवडणयाए जलजलणपवेसअणसणाईहिं'- उदकराजिसमानकषायस्तदुचितशुभपरिणामः कश्चिद्व्यन्तराऽऽदिकाऽऽयुर्बध्नाति / उपलक्षणत्वात् कल्याणमित्रसंपर्कमानसो धर्मश्रवणशील इत्यादिपरिग्रहः / यदाहुः "सरागसंयमो देशसंयभोऽकामनिर्जरा। कल्याणमित्रासंपर्को , धर्मश्रवणशीलता / / 1 // पात्रो दानं तपः श्रद्धा, रत्नत्रयाविराधना। मृत्युकाले परिणामो, लेश्ययोः पद्मपीतयोः // 2 // बालं तपोऽग्नितोयाऽऽदि-साधनोल्लम्बनानि च। अव्यक्तसामायिकता, देवस्याऽऽयुष आश्रवाः॥३॥" उक्ता देवाऽऽयुषो बन्धहेतवः। संप्रति नामकर्म यद्यपि द्विचत्वारिंशदादिभेदादनेकधा तथापि शुभाशुभविवक्षया विविध मित्यस्य द्विविधस्यापि बन्धहेतूनाह - "सरलो" इत्यादि, सरल:- सर्वत्रा मायारहितः। गौरवाणि ऋद्धिरससातलक्षणानि विद्यन्तेयस्यस गौरववान्, न गौरववान् अगौरववान "आल्विल्लोल्लालवंतमतेत्तेरमणामतोः" ||8|2|156 / / इति प्राकृतसूत्रोण मतोः स्थाने इल्लादेशः। उपलक्षणत्वात् संसार भीरुः, क्षमामार्दवाऽऽर्जवाऽऽदिगुणयुक्तः शुभं देवगतियशः-कीर्तिपञ्चेन्द्रियजात्यादिरूपं नामकर्म बध्नाति। अन्यथोक्त विपरीतस्वभावः / तथाहिमायावी, गौरववान, उत्कटक्रोधाऽऽदिपरिणामोऽशुभं नरकगत्ययशः कीत्ये केन्द्रियाऽदिजातिलक्षणं नामकर्मार्जयतीति / उक्तं च - "मनोवाकायवक्रत्वं, परेषां विप्रतारणम्। मायाप्रयोगो मिथ्यात्वं, पैशुन्यं चलचित्तता / / 1 / / सुवर्णाऽऽदिप्रतिच्छन्दकरणं कूटसाक्षिता। वर्णगन्धरसस्पर्शान्यथोपपादनानि च // 2 // अङ्गोपाङ्गच्यावनानि, यन्त्रपज्जरकर्म च। कूटमानतुलाकर्माऽन्यनिन्दाऽऽत्मप्रशंसनम्॥ 3 // हिंसाऽनृतस्तेयाब्रह्ममहारम्भपरिग्रहाः। परुषासभ्यवचनं, शुचिवेषाऽऽदिना मदः // 4 // मौखर्याक्रोशौ सौभाग्योपघाताः कार्मणक्रियाः। परकौतूहलोत्पादः, परहास्यविडम्बने।।५। वेश्याऽऽदीनामलङ्कारदानं दावाग्निदीपनम्। देवाऽऽदिव्याजागन्धाऽऽदिचौर्यतीव्रकषायता // 6 // चैत्यप्रतिश्रयाऽऽरामप्रतिमानां विनाशनम्। अङ्गाराऽऽदिक्रिया चेत्यशुभस्य नाम्न आश्रवाः // 7 // एत एवान्यथारूपास्तथा संसारभीरुता। प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च / / 8 // दर्शने धार्मिकाणां च, संभ्रमः स्वागतक्रिया। परोपकारसारत्वमाश्रवाः शुभनामनि।।६।।" इति // 58 // उक्ता नाम्नो बन्धहेतवः। सम्प्रति गोत्रस्य द्विविधस्याऽपि तानाहगुणपेही मयरहिओ, अज्झयणज्झावणरुई निचं / पकुणइ जिणाइभत्तो, उचं नीयं इयरहा उ / / 16 / / गुणपेक्षीयस्य यावन्तं गुणं पश्यति, तस्य तमेव प्रेक्षते पुरस्करोति, दोषेषु सत्स्वप्युदास्त इत्यर्थः / मदरहितोवि