________________ बंधसामित्त 1252 - अभिधानराजेन्द्रः - भाग 5 बंधसामित्त केवलिदुगि दो चरमा-जवाइ नव मइसुओहिदुगे॥१८॥ मनापर्यायज्ञाने सप्त यातऽऽदीनि-प्रमत्तसंयताऽऽदीनि क्षीण मोहन्तीनि। | तत्र सामान्यत आहारकद्धिकसहिता त्रिषष्टिर्जाता पञ्चषष्टिः ६५,प्रमत्ते 63, इत्यादियावत् क्षीणमोहे 1, केवलसातबन्धः। सामायिक क्षेदोपस्थापने चचत्वारि यताऽऽदीनि क्षुणस्थानानि तत्रा सामान्यतः पञ्चषष्टिः 65, प्रमत्ते 63 त्रिषष्टिरित्यादि भागवत्। सूक्ष्मसंपरायगुण स्थानकाऽऽदौ तु सूक्ष्मसंपरायाऽऽदिचारित्राऽभावात्। तथा द्वेगुणस्थानके प्रमत्ताप्रमत्तरूपे परिहारविशुद्धिचारिको नोत्तराणि, तस्मिंश्चारित्र वर्तमानस्य श्रेण्यारोहणप्रतिषेधात् तत्रा सामान्यतः 65, प्रमत्ते 63, अप्रमत्ते 56, अष्टपश्चाशद्वा / वेचलद्विककेवलज्ञानकेवलदर्शनरूपे द्वे चरमे-अन्तिमे सयोविके वल्ययोगि-केवल्याख्ये गुणस्थानके भवतः। अत्रौधे एकव्य सातस्य बन्धः सयोगिनि च अयोगिनि शून्यं, तथा मतिश्रुतयोरवधिद्विके चावधिज्ञानाऽवधिकदर्शनलक्षणेऽयताऽऽदीनि अविरतसम्यग्-दृष्टयादीमि क्षीणमोहपर्यवसाननि नव गुणस्थानकानि भवन्ति / सयोग्यादी केवलोत्पत्या मत्यादेरभावात् तत्रौघतोऽप्रमत्ता-ऽऽदेर्मत्यादिमत आहारकद्विकस्यापि बन्धसंभवादेकोनाशीतिः 76, विशेषचिन्तायामविरताऽऽदिगुणस्थानकेषु कर्मस्तवोक्तः सप्तसप्तत्यादिमितो बन्धो द्रष्टव्यः / / 18|| अड उवसमि चउ वेयगि, खइए इक्कार मिच्छतिगि देसे। सुहुमि सठाणं तेरस, अहारगि नियनियगुणोहो // 16 / / इहाऽयताऽऽदीति पदं सर्वत्र योज्यते / ततोऽयताऽऽदीनि उपशान्तमोहान्तान्यष्टौ गुणस्थानान्यौपशमिकसम्यक्त्वे भवन्ति, ता सामान्यत औपशमिकसम्यक्त्वे वर्तमानानां देवमनुजाऽऽयुषोर्बन्धाभावात् 75, अविरतेऽपि 75, देशे सुराऽऽयुरबन्धात् 66, प्रमत्ते 62, अप्रमते 58, इत्यादि यावदुपशान्ते ? वेदके क्षायोपशमिकाऽपरपर्यायऽयताऽऽदीन्य प्रमत्तान्तानि चत्वारि गुणस्थानकानि, तत्रौघे 76 अविरते 77 देशे 67, प्रमत्ते 63 अप्रमत्ते 56-58 वा, अतः परमुपशमश्रेणावीपशामिक क्षपकश्रेणौ पुनः क्षायिकं, क्षायोपशमिकसम्यक्त्वं तूदीर्णमिथ्यात्वक्षयेऽनुदीर्णमिथ्यात्वो पशमे च भवतीति। उक्तं च - "मिच्छत्तं जमुइण्णं, तं स्वीणं अणुइयतु उवसंत। मीसीभावपरिणयं, वेइज्जतं खओवसमं / / 1 / / " तथा क्षायिकसम्यक्वेऽयता-ऽऽदीन्ययोगिकेवलिपर्य वसानान्येकादश गुणस्थानकानि। तत्रौघे 76 अविरते७७ देशे 67 इत्यादि यावदयोगिनि शून्यम् / क्षायिकसम्यक्त्व स्वरूपमिदम्- "खीणे दसणेमोहे, तिविहम्मि वि भवनियाण भूयम्मि। निप्पचवायमउलं, संमत्तस्वाइयं होइ।।१।।' तथा मिथ्यात्वत्रिके-मिथ्यादृष्टिसात्वादनमिश्रत्वाक्षणे देसे-देशविरते सूक्ष्मे सूक्ष्मसम्पराये स्वस्थानं निजस्थानम्। अयमर्थः-मिथ्यात्वमार्गणास्थाने मिथ्यादृष्टिगुणस्थानं सासादनमार्गणास्थाने सासादनं गुण स्थान मिश्रमार्गणास्थाने मिश्रगुणस्थानं देशसंयममार्गणास्थाने देशविरतगुणस्थानं सूक्ष्मसंपरासंयमे सूक्ष्मसंपरायगुणस्थानम्। अत्र च स्वस्वगुणस्थानीयो बन्धः यथा मिथ्यात्ये ओघतो विशेषतश्च 117, एवं सासादने 101, मिश्र७४, देशे६७, सूक्ष्मे 17 आहारकद्वारे त्रायोदश गुणस्थानानि मिथ्यादृष्टयादीनि सयोगिकेवल्यन्तानि आहारकेजीवे , लभ्यन्तेऽयोगी त्वनाहारकस्तत्रौघतः 120, मिथ्यात्वे 117 इत्यादि यावत्सयोगिनि सातरूपैका प्रकृतिबन्धे भवति / एवं वेदाऽऽदिषु मार्गणास्थानेषु गुणस्थानकान्युपदी संप्रतितेषुबन्धातिदेशमाह - (नियनियगुणोहो ति) निजनिजगुणोषः एतेषु वेदाऽऽदिषु यानि स्वस्त्रगुणस्थानानितेष्वोधः कर्मस्तवोक्तो बन्धो द्रष्टव्य इत्यर्थः स च यथास्थान भावित एव / / 16 / / यश्च प्रागुक्तमष्टौपशमिकसम्यक्त्वे गुणस्थानानीति तत्रा कञ्चिद्विशेषमाह - परमुवसमि वटुंता, आउ न बंधति तेण अजयगुणे! देवमणुआउहीणो, देसाइसु पुण सुराउ विणा / / 20 / / सर्वत्र वेदाऽऽदिषु निजनिजगुणोघो वाच्य इत्युक्तम् परमौपशमिकेऽयं विशेष--औपशमिके वर्तमाना जीवा आयुर्न बध्नन्ति तेनाऽऽयतगुणस्थानके देवमनुजाऽऽयुर्यो हीन ओघो वाच्यो, नरकतिर्यगायुषोः प्रागेव मिथ्यात्वसासादनयौर पनीतत्वान्न तद्धीनता। तथा देशाऽऽदिषुदेशविरतप्रमत्ताप्रमत्तेषु पुनरोधः सुराऽऽयुर्विना ज्ञेयः। औपशुमिकसम्यक्त्वे तूपशमश्रेण्या प्रथमसम्यक्त्वलाभेवा भवति जीवस्या उक्तं च - "उवसामगसेडिगयस्स होइ उवसामियं तु सम्मत्तं / जो वा अकयतिपुंजो, अववियमिच्छो लहइ सम्मं // 1 // " ननु क्षायोपशमिकौपशमिकसम्यक्त्वोः कः प्रतिविशेषः? उच्यते-क्षायोपशमिके मिथ्यात्वदलिकवेदनं विपाकतो नास्ति, प्रदेशतः पुनर्वेद्यते। औपशमिके तु प्रदेशतोऽपि नास्तीति विशेषः / उक्तं वेदाऽऽदिषु बन्धस्वामित्वम्। अथ लेश्याद्वारमुच्यतेओहे अट्ठारसयं, आहारदुगूण आइलेसतिगे। तं तिच्छोणं मिच्छे, साणाइसु सव्वहिं ओहो / / 21 / / आद्यलेश्यात्रिके-कृष्णनीलकापोतलेश्यात्राये वर्तमाना जीवा ओघे सामान्येन विंशत्युत्तरशतमाहारकद्विकोनं जातमष्टादशाधिकशतं तद्वधनन्ति, आहारकद्धिकस्य शुभलेश्याभिर्बध्यमानत्वात्।तदष्टादशाधिकशतं तीर्थकरनामोनं सप्तदशोत्तरशतं मिथ्यात्वगुणस्थानके बध्नन्ति / सासादनाऽऽदिषु गुणस्थानकेषु पुनः सर्वत्र लेश्याषट्केऽप्योधः सामान्यबन्धो द्रष्टव्यः / ततोऽत्रा सासादनमिश्राविरतेष्वोधः कर्मस्तवोक्तः / / 21 / / तेऊ नरयनवृणा, उज्जोयचउ नरयबार विणु सुक्का। विणु नरयबार पम्हा, अजिणाहारा इमा मिच्छे / / 22 / / विंशत्युत्तरशतं नरकत्रिकाऽऽदिप्रकृतिनवकोनं तेजोलेश्यायामोघत एकादशोत्तरं शत बध्यते, कृष्णाऽऽद्यशुभलेश्या प्रत्यय-त्वान्नरकत्रिकाऽऽदि प्रकृतिनवकबन्धस्य। इदमेवैकादशोत्तरशतं जिननामाऽऽहारकद्विकरहितं शेषमष्टेत्तरशतं मिथ्यात्वे बध्यते / सासादनाऽऽदिषु षट्सु गुणरस्थानकेषु ओघः विंशत्युत्तरशतमध्यादुद्द्योताऽऽदिसतुष्कं नरकत्रिका दिद्वादशकं च मुक्त्वा शेषं चतुरूत्तरशतमोघतः शुक्ललेश्याया बध्यते, उद्योताऽऽदिप्रकृतीनां तिर्यग्नरकप्रायोग्यत्वेन देवनरप्रायोग्यबन्धर्के: शुक्ललेश्यावद्भिरबध्यमानत्वात् / एतदेव चतुरुत्तरं शतं जिननामाऽऽहारकद्भिरहितं शेषमेकांत्तरशतं मिथ्या--