________________ बंधसामित्त 1251 - अभिधानराजेन्द्रः - भाग 5 बंधसामित्त गुणस्थानकायोपतस्य लभ्यते। उक्तं च - "मिच्छेसासाणो वा, अविरयसंमम्मि अहव गहियम्मि। जंति जिया परलोए, सेसिक्कारसगुणे मुत्तु !!1!" तथा सयोगिनः केचलिसमुद्घाते तृतीयचतुर्थपञ्चमसमयेषु चेति गुणस्थानकचतुष्टये एव कार्मण काययोगो नाऽन्यत्रा। ततो विशत्युत्तरशतमध्यादाहारकषट्क तिर्थनराऽऽयुः प्रकृतीर्मुक्त्वा शेषस्य द्वादशोत्तरशतस्य सामान्येन कार्मणकाययोगो बन्धस्तदेय द्वादशोत्तरशतं जिनाऽऽदिपञ्चकं विना शर्ष सप्तोत्तरशतं कार्मणकाययोगे मिथ्यादृशो बध्नन्ति तदेव सप्तोत्तरशतं सूक्ष्माऽऽदित्रयोदश प्रकृतिर्मुक्त्वा शेषां चतुर्नवति कार्मणयोगे सा साहवा बध्नन्तिः। चतुर्नवतिरेचानन्तानुबन्ध्यादिचतुविशतिप्रकृतीविना जिननामाऽऽदिप्रकृतिपञ्चकसहिता च पञ्चसप्ततिस्ता कार्मण योगेऽविरता बध्नन्ति / सयोगिनस्तु कार्म ......काययोगे सातमेवैकं बध्नन्ति। तथा आहारककाययोगश्चतुर्दशपूर्वविदः आहारकमिश्रकाययोगश्च तस्यैवाऽऽहारकशरीरस्य प्रारम्भसमये परित्यागसमये च औदारिकेण सह द्रष्टव्यः। तत आहारकद्विक आहारकशरीरतन्मिश्रलक्षणे योगद्वये ओद्यः कर्मस्तवोक्तः प्रमत्तगुणस्थानवर्ती त्रिषष्टिप्रकृतिबन्धरूपः / एतत्काययोगद्वयं हि लब्ध्युपजीवनात्ममत्तस्यै च न त्वप्रमत्तस्य / / 15 // सुरओहो वेउव्ये, तिरियनराउरहिओ य तम्मिस्से / चेयतिगाइम विय तिय-कसाय नव दुचउ पंच गुणे / / 13 / / / सुरौघः सामान्यदेवबन्धो वैक्रियकाययोगे द्रश्व्यः। तद्यथा-सामान्येन चतुरगशतम् 104, मिथ्यात्वे व्युत्तरशतं 103, सासादने षण्णवतिः 66, मिश्रे सप्ततिः 70, अविरते द्विसप्ततिः 72, / तथा तन्मिश्रे वैक्रियमिश्रे स एव सुरौघस्तिर्यनराऽऽयुष्करहितो वाच्यः। इह देवनारका निजाऽऽयुः षण्मासावशेषा एवाऽऽयुर्बध्नन्ति, अतो वैक्रियमिश्रयोगे उत्पत्ति प्रथम-समयादनन्तरमपर्याप्तावस्था संभविनि आयुयबन्धाभावः / तथा चागौघे द्वघुत्तशतं 102, मिथ्यात्वे एकोत्तरशतं 101, सासादने चतुर्नवतिः 64, अविरते एकसप्ततिः 71 / वैक्रियमिश्रयोगो मिश्रता चास्यात्रा कार्मणकायेनैव सह मन्तव्या। अयमपिंच मिथ्यात्वसा सादनाऽविरतगुणस्थानकत्रय एव लभ्यते, नान्यत्र। यद्यपि देशविरतस्याम्बडाऽऽदेः प्रमत्तस्य तु विष्णुकुमाराऽऽदेवैक्रिय कुर्वतो वैक्रियमिश्रवैक्रियसंभवः श्रूयते, परं स्वभावस्थस्य वैक्रिययोगस्यात्रा गृहीतत्वाद्, अथवा-रवल्पत्वादन्यतो वा कुतोऽपि हेतोः पूर्वाऽऽचार्यैः स नोक्तः / एवं योगेषु बन्धत्वामित्व मुक्तम् / अथ वेदाऽऽदिषु तदभिधित्सुः प्रथम गुणस्थानकानितेष्वाह-(वेयतिगेत्यादि) वेदत्रिके-स्त्रीवेदषुवेदनपुंसक वेदरूपे नवनवसंख्याकानि (संजलणेत्यादि) अग्रेतनयाथास्थ पढ़मेति' पदस्याऽत्रापि संबन्धात्प्रथम नि मिथ्यात्वाऽऽदीनि अनिवृत्तिबादरान्तानि गुणस्थानकानि भवन्ति, ततः परं वेदानामभावात् / एतेषु यः कर्मस्तवोक्तः सामान्यबन्धः। सद्रष्टव्यः / तद्यथा-सामान्यतो नानाजीवापेक्षया विशन्युत्तर शतम् 120, मिथ्यात्वे सप्तदशोत्तरशतम् 117 सासादने एकोत्तरशतम् 101, मिश्रे चतुःसप्ततिः७४, अविरतेसप्तसप्ततिः 77, देशविरते सप्तषष्टिः 67, प्रमत्ते त्रिषष्टिः 63, अप्रमत्ते एकोनषष्टिः | 56, अष्टपञ्चाशद्वा 58, निवृत्तिबादरे प्रथमभागेऽष्टपञ्चाशत् 55, भागपञ्चके षट्पञ्चाशत् 56, सप्तमभागे षड्विंशतिः 26. अनिवृत्तिबादरे आधे भागे द्वाविंशतिः 22 / एवमन्यत्रापि गुणस्थानकेषु यथासम्भव कर्मस्तवोक्तो बन्धो वाच्यः / कषायद्वारे आद्येऽनन्तानुबन्धि क्रोधमानभायालोभरुपे कषायचतुष्के द्वे प्रथमे मिथ्यात्वसासादनाऽऽख्ये गुणस्थानके, तत्र तीर्थङ्करबन्धस्य सम्यक्त्वप्रत्ययत्वादाहारकद्विकबन्धस्य च संयमहेतुत्वा दनन्तानुबन्धिषु तदभावात्सामान्येन सप्तदशोत्तरशतम् 117, मिथ्यात्वे सप्तदशोत्तरशतम् 117, ससादने एकोत्तरशतम् 101, द्वितीयेऽप्रत्याख्यानाऽऽख्ये कषायचतुष्के चत्वारि प्रथमानि मिथ्यात्वसासादनामिश्राऽविरतनामकानि गुणस्थानकानि, तत्राऽऽहारकद्विकबन्धाभावेन सामान्येन अष्टादशोत्तरशतम् 118, मिथ्यात्वे सप्तदशोत्तरशतम् 117, सासादने एकोत्तरशतम् 101, मिश्रे चतुःसप्ततिः 74, अविरते सप्ततिः 77. तृतीये प्रत्याख्यानाऽऽवरणाऽऽरव्ये कषायचतुष्के पञ्च आद्यानि मिथ्यात्वाऽऽदीनि देशविरतान्तानि गुणस्थानकानि, देशविरते सप्तषष्टिः, शेषाणि तथैव // 6 // संजलणतिंगे नव दस, लोभे घउ अजइ दुति अनाणतिगे। वारस अचक्खुचक्खुसु, पढमा अहक्खाय चरमचऊ॥१७॥ संज्वलनत्रिके--संज्वलनक्रोधमानमायारूपे नवाऽऽद्यानि गुणस्थानकानिता सामान्यबन्धान्निवृत्तिबादरं यावद्वेदत्रिकन्यायेन विंशत्युत्तरशताऽऽदिको बन्धः अनिवृत्तिबादरे तु प्रथमे भागे द्वाविंशतिः 22, द्वितीये पुंवेदरहिता एकविंशतिः२१, तृतीये संज्वलनक्रोधरहिता विंशतिः 20, चतुर्थे संज्वलनमानरहिता एकोनविंशतिः 16, पञ्चमे संज्वलनमायारहिता अष्टादश 18, संज्वलनलोभस्य तु सूक्ष्म सम्परायेऽपि भावात्तत्र दश प्रथमानि गुणस्थानानि, तत्रा नव तथैव, दशमे तु सूक्ष्मसम्पराये सप्तदश प्रकृतयः / संयमद्वारे अयतेऽसंयते चत्वारि आद्यानि गुणस्थानानि, तत्र सामान्यतोऽविरतसम्यग्दृष्टेरपि संगृहीतत्वाजिननामक्षेपात्सप्त दशोत्तरशतं जातमष्टादशोत्तरशतम् 118, मिथ्यात्ये सप्तदशोत्तरशतम् 117, सासादने एकोत्तरशतम् 101, मिश्रे चतुःसप्ततिः 74, अविरते सप्ततिः 77 / ज्ञानद्वारे- अज्ञानत्रिके-मत्यज्ञानश्रुताऽज्ञानविभङ्गरूपे द्वे, मिथ्यात्वासासादनेत्रीणि वा गुणस्थानकानि मिश्रेण सह, अयमाशयः-मिश्रे ज्ञानाशोऽज्ञानांशश्चास्ति, तत्र यदाऽज्ञानांशप्राधान्यं विवक्ष्यते तदा-अज्ञानत्रिके गुणस्थत्रकद्वयमेव, ज्ञानांशप्राधान्यविवक्षायां तु तृतीय मिश्रमपि, तत्रौघे सप्तदशोत्तरशतम् 117, मिथ्यात्वे सप्तदशोत्तरशतम् 117, सासादने एकोत्तरशतम् 101. मिश्रे चतुःसप्ततिः 74 / दर्शनद्वारे-चक्षुरचक्षुर्दर्शनयोः प्रथमानि द्वादश गुणस्थानानि, परतस्तु चक्षुरचक्षुषोः सतोरप्यनुपयो गित्वेनाव्यापारात्। तत्रौघे विंशत्युत्तरशतम् 120, मिथ्यात्वे सप्तदशोत्तरशतम् 117, इत्यादि यावत् क्षीणमोहे सातबन्धः 11 यथाख्याते चरमगुणस्थानकचतुष्कं, तत्र सामान्यतः 1. उपशान्तमोहे 1, क्षीणमोहे 1, सयोगिनि 1, अयोगिनि। 17 // मणनाणि सग जयाई, समइयच्छेय चउ दुन्नि परिहारे /