________________ बंधसामित्त १२५०-अभिधानराजेन्द्रः - भाग 5 बंधसामित्त न्द्रियष्टध्वीजलतणविकलयेषु द्रष्टव्यम् / अयमर्थः-विंशत्युत्तर- | शतमध्यात् जिननामाऽऽोकादश प्रकृतीभुक्त्वा शेषं नवोचरशतमेकेन्द्रिया विकलेन्द्रियाः पृथ्वीजलवनस्पति कायाश्च सामान्यपदिनो | मिथ्यादृशश्च बध्नन्ति॥११॥ अर्थतेषामेव सासादनगुणस्थाने बन्धमाहछनवइ सासाणि विणु, सुहुमतेर केइ पुण बिंति चउनवई। तिरियनराऊहिं वि-णा तणुपजत्तिं न ते जंति / / 2 / / प्रागुक्तं नवोत्तरशतं सूक्ष्मत्रिकाऽऽदिप्रकृतित्रयोदशकं मिथ्यात्वे एवं व्यवच्छिन्नबन्धमिति कृत्वा तद्विना षण्णवतिः सासादने एकेन्द्रियविकलेन्द्रियपृथ्वीजलवनस्पतिकायानां भवति। केचित्युनराचार्या ध्रुवते-- चतुर्नवति, तिर्यनराऽऽयुष्काभ्यां विना, यतस्ते एकेन्द्रियविकलेन्द्रियाऽऽदयः सासोदनाः सन्तस्तनुपर्याप्तिं नयान्त्यतस्ते तिर्यग्नराऽऽयुरबन्धकाः-अयं भावार्थः-तिर्यग्रराऽऽयुषोस्तनुपर्याप्तया पर्याप्तैरेव बध्यमानत्यात्। पूर्वमतेनशरीर पर्याप्त्युत्तरकालमपिसासादनमा वस्येष्टत्वादायुर्वन्धोऽभिप्रेतः। इह तुप्रथममेव तन्निवृत्तेर्नेष्ट इतिपण्णवतिः। तिर्यग्नराऽऽयुषो विना मतान्तरेण चतुर्नवतिः / 12 / / उक्तः एकेन्द्रियाऽऽदीनां बन्धः / अथ पञ्चेन्द्रियाणां त्रसकायिकानां च तमाहओहपणिंदितसे गइ-तसे जिणिकार नरतिगुचविणा। मण्णवयजोगे ओहो, उरले नरभंगु तम्मिस्से / / 13 / / ओधो विंशत्युत्तरशताऽऽदिलक्षणः कर्मस्तवोक्तः पञ्चेन्द्रियेषु त्रसकायिकेषु चाऽवगन्तव्यः / तद्यथा-सामान्यतो विंशत्युत्तरशतम् 120, मिथ्यात्वे सप्तदशोत्तरशतम् 117, सासादने एकोत्तरशतम् 101, मिश्रे चतुःसप्ततिः 74, अविरते सप्ततिः 77. देशेसप्तषष्टिः 67, प्रमत्ते त्रिषष्टिः 63, अप्रमत्तं एकोनषष्टिः 56, अष्टपञ्चाशद्वा 58, निवृत्तियादरे प्रथमभागे ऽष्टपञ्चाशत् 58, भागपञ्चके षट्पञ्चाशत् 56, सप्तमभागे षड्विंशतिः 26, अनिवृत्तिबादरे आधे भागे द्वाविंशतिः 22, द्वितीये एकविंशतिः 21, तृतीये विंशतिः 20, चतुर्थे एकोनविंशतिः 16, पञ्चमेऽष्टादश 18, सूक्ष्मेसप्तदश 17, शेषगुण स्थानत्राये सातस्यैकस्य बन्धः 1, अयोगिनि बन्धाऽभावः। गतित्रसास्तेजोवायुकायास्तेषु जिनानाभाऽऽद्येकादश प्रकृती रत्रिकमुच्चैर्गोत्रांच विना विंशत्युत्तरशतं शेष पञ्चोत्तरशतं बन्धेलभ्यते, सासादनाऽऽदि भावस्तुनैषां सम्भवति यत उक्तम् - "न हु किंचि लभिज्ज सुहुमतसा।" सूक्ष्मासास्तेजीवायुकायजीवा इति। एव मुक्त इन्द्रियेषु कायेषु च बन्धः। संप्रति योगेषुतं प्रतिपादयन्नाह -(मणवयजोगे इत्यादि) सूचकत्वात् सूत्रास्य सत्यादिमनोयोगचतुष्के तत्पूर्वक सत्यादिवाग्योगचतुष्के च ओध बन्धो विंशत्युत्तरशता ऽऽदिलक्षणः कर्मस्तवोक्तो ज्ञेयः। तत्रा सत्याऽऽदिस्वरुपं त्विदम्-सत्यं यथाऽस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुतत्वचिन्तनपरं सत्यम्। विपरीतं त्वसत्यम् / मिश्रस्वभावं सत्यासत्यम्, यथा ध दिरपलासा ऽऽदिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमिति विकल्पनापरमा तथा यन्न सत्यं नापि मृषा तदसत्यामृषा इह विप्रतिपत्तौ सत्यां यद्वस्तु प्रतिष्ठाऽऽशया सर्वज्ञमतानुसारेण विकल्पये, यथाऽस्ति जीवः सदसद्रूपइत्यादि तत्किल सत्वं परिभाषितम्। यत्पुनर्विप्रतिपत्तौ सत्वां वस्तुप्रतिष्ठाऽऽशया सर्वज्ञमत्तोत्तीर्ण विकल्प्येत, यथा नास्तिजीव एकान्तनित्यो वेत्यादि' / तदसत्यम् / यत्पुनर्वस्तुप्रतिष्ठाऽऽशामन्तरेव स्वरूपमात्रपालोचनपरं यथा हे देवदत्त ! घटमानय, गां देहिमामित्यादिचिन्तनपरंतदऽसत्यामृषा, इदं स्वरूपमात्रा पर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं भवति, नापि मृषेति / इदमपि व्यवहारनयमतेन द्रष्टव्यम् / निश्चयनयमतेन तु विप्रतारणाऽऽदिबुद्धिपूर्वकमसत्येऽन्तर्भवति, अन्यथा तुसत्ये। (उरले त्ति) मनोवाग्योगपूर्वक औदारिककाययोगे नरभङ्गः "इह चउगुणेसु वि नरा'' इत्यादिना प्रागुक्तस्वरूपः / यथा ओघे विंशत्युत्तरशतम् 120, मिथ्यात्वे सप्तदशोत्तरप्रशतम् 117, सासादनेएकोत्तरशतम् 101, मिश्रेएकोनसप्ततिः 66, अविरतेएकसप्ततिः 71, इत्यादि मनोरहितवाग्योगे विकलेन्द्रियभङ्ग / केवल-काययोगे त्वेकेन्द्रियभङ्गः (तम्भिस्से त्ति) तन्मिश्रे-औदारिकमिश्रयोगे॥१३॥ सम्प्रतिबन्ध उच्यतेआहारछग विणोहे, चउदससउ मिच्छि जिणपणगहीणं। सासणि चउनवह विणा, नरतिरियाऊ सुहुमतेर।।१४।। विंशत्युत्तरशतमाहारिकाऽऽदिप्रकृतिप्रट्कं विना शेष चतुर्दशाधिकशत पोघबन्धे प्राप्यते। अयं भावार्थः औदारिकमिभं कार्मणेन सह, तचापर्याप्तावस्थायां केवलिस मुद्घातावस्थायां वा, उत्पत्तिदेशे हि पूर्वभवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनैव केवलेनाऽऽहारयति। ततः परमौदा रिकस्याप्यारब्धत्वादौदारिकेण कार्मणमिश्रेण यावच्छरीरस्य निव्यत्तिः केवलिसमुद्धातावस्थायां द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकामिति। अपर्याप्ताऽवस्थायां च नाहारका ऽऽदिषट्कं बद्धयते इति तन्निषेधः / केवलिसमुद्धातावस्थायां पुनरेकस्य सातस्यैव बन्धोऽभिधास्यते। एतदेव चतुर्दशोत्तर शतमौदारिक-मिश्रकाययोगी मिथ्यात्वे जिननामाऽऽदिप्रकृति पञ्चकहीनं शेषं नवोत्तरशतं बध्नाति। सरवसासादने चतुर्नवतिंबध्नाति, नवोत्तरशतमध्यान् मुक्त्वा नरतिर्यगायुषी सूक्ष्मत्रिकाऽऽदित्रायोदशप्रकृतीश्च नरतिर्यगायुषोरपर्याप्तत्वेन सासादने बन्धाभावात् सूक्ष्मत्रिकाऽऽदित्रयोदशकस्य तु मिथ्यात्व एव व्यवच्छिन्नबन्धतया च / / 14 / / अणचउवीसाइविणा, जिणपणजय सम्मि जोगिणो सायं / विणु तिरिनराउ कम्मे, वि एवमाहारदुगि ओहो।।१५।। प्रागुक्ता चतुर्नवतिरनन्तानुबन्ध्यादिचतुर्विशति प्रकृतीविना जिननामाऽऽदिप्रकृतिपञ्चकयुता च पञ्चसप्ततिस्तामौदारिक मिश्रककाययोगी सम्यक्त्वे बध्नाति। तथासयोगिन औदारिकमिश्रस्थाः केवलिसमुद्घाते द्वितीयषष्ठसप्तमसमयेषु सातमेवैकं बध्नन्ति / एवं गुणस्थानकचतुष्ठक एवौदारिकमिश्रयोगो लभ्यते नान्यत्र / अथ कार्मणयोगाऽऽदिषु बन्धः प्रतिपाद्यते-(विणु तिरीत्यादि) यथौदारिकमिश्रे बन्धविधिरोघतो विशेषतश्चोक्तः, एवं कार्मणयोगेऽपि तिर्यग्रराऽऽयुषी बिना वाच्यः, कार्मणकाययोगे तिर्यग्नरायुषोर्बन्धभावात। कार्मणकाययोगो ह्यपान्तरालगतावुत्पत्तिप्रथमसमये च जीवस्य मिथ्यात्वसासादनाऽविरत