________________ बंधमोक्खसिद्धि 1247 - अभिधानराजेन्द्रः - भाग 5 बंधसामित्त सो समणोपव्वइओ, अद्ध द्विहि सह खंडियसएहिं / / 1963 / व्याख्यापूर्ववत्, नवरम् अर्द्धचतुर्थे : शिष्यशतैः सह प्रव्रजितोऽयमिति / / 1863 / / विशे० / आ० म०। कर्म० / तत्र मिथ्यात्वाऽऽदिभिर्बन्धहेतुभिरजनचूर्णपूर्ण समुद्रकवन्निरन्तरं निश्चिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनः क्षीरनीवसहव्ययः पिण्डबद्वाऽन्योन्यानुगमभेदाऽऽत्मकः सम्बन्धो बन्धः। कर्म०५ कर्म०। पं० सं०। साइन्ख्य प्रतिबन्धसिद्धिःनानाऽऽश्रयायाः प्रकृतेरेव बन्धमोक्षौ, संसारश्च, न पुरुषस्येति, तदप्यसारम्, अनादिभवपरम्पराऽनुबद्धया प्रकृत्या सहयः पुरषस्य विवेकाऽग्रहणलक्षणोऽविष्वग्भावः स एव चेन्न बन्धस्तदा को नामाऽन्यो बन्धः स्यात? प्रकृतिः सर्वोत्पत्तिमता निमित्तमिति च प्रतिपद्यमानेनाऽऽयुष्मता संज्ञाऽन्तरेण कर्मैव प्रतिपन्नं, तस्य चैवस्वरूपत्वादचेतनत्वाच्च / यस्तु प्राकृतिकवैक्रियकारिक दाक्षिणभेदात्रिविधो बन्धः। तद्यथा-प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीः पुरुषबुद्धयोपासते तेषां वैकारिकः / इष्टाऽऽपूर्वे दाक्षिणः। पुरुषतत्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बद्धयते इति "इष्टाऽऽपूर्त मन्यमाना वरिष्ठ, नान्यत् श्रेयो येऽभिनन्दन्ति मूढाः / नाकस्य पृष्ठे ते सुकृतेन भूत्वा, इमं लोकं हीनतरं वा विशन्ति।।१।।" "इतिवचनात / स निविधोऽपि कल्पनामात्रं कथञ्चिन्मिथ्यादर्शनाविरति प्रमादकषाययोगेभ्योऽभिन्नस्यरुपत्वेन कर्मबन्धहेतुष्वेवान्त भर्भावात्। बन्धसिद्धौ च सिद्धस्तस्यै च निर्याधः संसारः / बन्धमोक्षयोपच्चैकाधिकारणत्वाद्य एव बद्धः स एव मुच्यते इति / स्या० 15 श्लो०। बंधमोक्खोववत्ति स्त्री० (बन्धमोक्षोपपत्ति) मिथ्यात्वाऽऽदिहे तुभ्यो जीवस्य कर्मपुरलानां च वययःपिण्डयोरिव वा परस्परमविभागपरिणामेनावस्थानरूपस्य बन्धस्य सम्यदर्शन ज्ञानचारित्रेभ्य कर्मणामत्यन्तोच्छेदलक्षणस्य मोक्षस्य घटनायाम, ध०१ अधि०। बंधव पुं० (बान्धव) मातृपित्रादिषु, उत्त० 188 / सूत्रा० स्वज्ञातिषु भ्रातृपितृव्येषु, "पुत्तदारं च बंधवा।" उत्त०१८ अ०। आचा०। निकटवर्तिषु स्वजनेषु, उत्त०१३ अ०। बंधविहा स्त्री० (बन्धविधा) विधानानि विधा-भेदाः बन्धस्य विधा बन्धविधाः / बन्धस्य प्रकृतिस्थित्यनुभागप्रदेशरूपेषु, प्रकारेषु कर्म०५ कर्म०। बृ०॥ बंधविहि पुं० (बन्धविधि) बन्धस्य विधिर्बन्धविधिः / बन्ध प्रकारे, पं० सं०१ द्वार। बंधसामित्तन० (बन्धस्वामित्व) बन्धकत्वे, (कर्मणां बन्धकत्वम् 'कम्म' शब्दे तृतीयभागे उक्तम्) ('बन्ध' शब्दे च गत्यादिद्वाराण्यश्रित्य सूत्राणि प्रदर्शितानि / इह तु सगृह्य प्रदृर्श्यते) मार्गणास्थानेषु बन्ध-"सम्यग् बन्धस्वामित्वदेशकं बर्द्धमानमानम्य / बन्धस्वामित्वस्य, व्याख्येय लिख्यते किं चित् / / 1 / / '' इह स्वपरोपकाराय यथार्थाभिधानं बन्ध स्वामित्वप्रकरणमारिप्सुराचार्या मङ्गलाऽऽदिप्रतिपाऽऽदिकां गाथामाहबंधविहाणविमुक्कं, वंदिय सिरिवद्धमाणजिणचंदं। गइआईसुं बुच्छं, समासओ बंधसामित्तं / / 1 / / इह प्रथमार्द्धन मङ्गल द्वितीयार्द्धनाभिधेयं साक्षा दुक्त प्रयोजन संबन्धी तु सामर्थ्यगम्यौ। तच बन्धः कर्मपरमाणूनांजीवप्रदेशैः सह संबन्धस्तस्य विधानं मिथ्यात्वाऽऽदिभिर्बन्धहेतुभि निर्वर्तनं बन्धविधानं तेन विमुक्तः स तथा तं बन्धविधानविमुक्तं वन्दित्वा श्रीवर्द्धमानजिनचन्द्रम् / वक्ष्येऽभिधास्ये समासतः-संक्षेपतो न विस्तरेण / किमित्याह-बन्धस्वामित्वं बन्धः कर्माऽणूनां जीवप्रदेशैः सह संबन्धस्तस्य स्वामित्वमाधिपत्यं जीवानामिति गम्यते / केचु ? (गईयाईसुति) गतिरादिर्येषां तानि गत्यादीनि, आदिशब्दादिन्द्रियाऽऽदिपरिग्रहः / तेषु गत्यादिषुमार्गणास्थानेषु / कर्म 3 कर्म०। (तानि मग्गणाठाण' शब्दे वक्ष्यामि) तत्र बन्धं च प्रतीत्य विंशन्युत्तरं प्रकृतिशतमधि क्रियते। तथाहि-ज्ञानाऽऽवरणे उत्तरप्रकृतयः पञ्च, दर्शनाऽऽवरणे नव, वेदनीय द्वेमोहे सम्यक्त्वमिश्रवर्जा षड्विशतिः आयुषि चतस्त्रः नाम्नि भेदान्तरसम्भवेऽपि सप्तषष्टिः, गोत्रे द्वे, अन्तराये पञ्च, सर्वमीलने विंशत्युत्तरशत मित्येतच प्राक सविस्तर कर्मविपाके भावितमेव। सम्प्रति विंशत्युत्तरशतमध्यगतानामेव वक्ष्यमा णार्थों पयोगित्येन प्रथमं कियतीनामपि प्रकृतीनां संग्रह पृथक्करोतिजिण सुरविउ वाहारदु, देवा उय नरयसुहुमविगलतिगं। एगिदि थावरायव, नपु मिच्छ हुण्ह छेवटुं।।२।। अण मज्झागिइसंघयण, कुखग निय इस्थि दुहगथीणतिगं / उज्जोय तिरियदुर्ग, तिरिनराउ नरउरलदुगरिसह / 3 (युग्मम्) जिननाम 1 सुरद्विकं-सुरगतिसुरानुपूर्वी रूपं 3, वैक्रियद्विकं वैक्रियशरीरंवैक्रियाङ्गोपागलक्षणम् 5 / आहारकद्विकमाहार कशरीरं तदङ्गोपाङ्गं च 7 / देवाऽऽयुष्कं च 8 / नरकत्रिकं नरकगतिनारकानपूर्वीनरकाऽऽयुष्करूपं 11, सूक्ष्मत्रिकं सूक्ष्मापर्याप्तसाधारणलक्षणम् 14 / विकलत्रिकं द्वित्रिचतुरिन्द्रिय जातयः 17 / एकेन्द्रियजातिः 18, स्थावरनाम 16, आतपनाम 20, नपुंसकवेदः 21, मिथ्यात्वं 22, हुण्डसंस्थानं 23 सेवार्तसंहननम् 24 (अण त्ति) अनन्तानु बन्धिक्रोधमानमाया लोभाः 28 मध्याऽऽकृतयो मध्यमसंस्थानानि न्यग्रोधमण्डलं सादि वामनं कुब्जं चेति 32 मध्यमसंहननानि ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका चेति 35 (कुखग त्ति) अशुभविहायोगतिः 37 नीचैर्गोत्र, स्वीवेदः 36 दुर्भगत्रिक दुर्भगदुःस्वराऽनादेयरुपं 42 स्त्यानर्द्धित्रिकं निद्रानिद्राप्रचलाप्रचलास्त्यानद्धिलक्षणम् 45, उद्योतनाम 46 तिर्यद्विकं तिर्यग्गतितिर्यगानुपूर्वी रूपम् ४८तिर्यगाऽऽयुः 46 नराऽऽयुः 50 नरद्विकंनरगतिनरानुपूर्वी लक्षणम् 52 औदारिकद्विकमौदारि कशरीरमौदारिकाङ्गोपाङ्गनामच 54 वज्रऋषभनाराचसंहननम्५५ / इति पञ्चपञ्चाशत् प्रकृतिसङ्ग्रहः। अर्थतस्य प्रकृतिसंग्रहस्य यथास्थानमुपयोगं दर्शयन्मार्गणास्थानानां प्रथमं गतिमार्गणास्थानमाश्रित्य बन्धः प्रतिपाद्यतेसुरइगुणवीसवजं, इगसउ ओहेण बंधहिं निरया।