________________ बंधमोक्खसिद्धि 1246 - अभिधानराजेन्द्रः - भाग 5 बंधमोक्खसिद्धि ततः किमित्याह - निरणुग्गहणत्तणाओ, न गई परओ जलादिव झसस्स। जो गमणाणुग्गहिया, सो धम्मो लोगपरिणामो / / 1854 / / ततो लोकात्परतोऽलोके जीवपुगलानां न गतिः, निरनुग्रह त्वात्, तत्र गत्यनुग्रहकर्तुरभावादित्यर्थः। यथा जलात्परतो झषस्य मत्स्यस्य गतिर्न भवत्युपग्राहकाभावादिति।यश्चात्र जीवपुरलगतेरनुग्रहकर्ता सलोकपरिमाणो धर्मास्तिकाय इति॥१८५४।। तत्र प्रयोगमाहअत्थि परिमाणकारी, लोगस्स पमेयभावओऽवस्सं / नाणं पि व नेयस्सा--लोगत्थित्ते न सोऽवस्सं // 1855 / / अस्ति लोकस्य परिमाणकारि, प्रमेयत्वात्, ज्ञानमिव शेयस्य / अथवा-जीवाः पुद्रलाश्च लोकोऽभिधीयते, ततोऽस्ति तत्परिमाणकारी, प्रमेयत्वाद्यथा-शाल्यादीनां प्रस्थः यश्चेह परिमाता स धर्मास्तिकायः, सचावश्यमलोकस्यास्तित्व एव युज्यते, नान्यथा आकाशस्य सर्वत्राऽविशिष्टत्वात्त स्माल्लोकाग्रे सिद्धस्वावस्थानमिति प्रस्तुतम् / / 1855 / / अथ प्रकारान्तरेणऽऽक्षेपपरिहारौ प्राऽऽह - पयणं पसत्तमेवं, थाणाओ तं च नो जओ छट्ठी। इह कत्तिलक्खणेयं, कत्तुरणत्थंतरं थाणं / / 1856 // ननु स्थीयतेऽस्मिन्निति स्थानमित्यधिकरणसाधनोऽयं शब्दस्ततश्च सिद्धस्य स्थान सिद्धस्थानमिति समासस्ततश्चैवं सति सिद्धस्य पतन प्रसक्तं, स्थानात्पर्खतपादपाऽऽद्यग्रस्थितदेवदत्तस्येव, फलस्येव वा। यस्य किल काऽपि पर्वतादवस्थानं, तस्य कदाचित् कस्याऽपि पतनमपि दृश्यते, अतः सिद्धस्याऽपि तत्कदाचित्प्रापोतीति भावः। तच न, यतः सिद्धस्य स्थानमितीयं कर्तरि षष्ठी / ततश्च सिद्धस्य स्थानमिति कोऽर्थः? सिद्धः तिष्ठति, नतु तदर्थान्तरभूतं स्थानमस्तीति॥१८५६।। अथवानहनिच्चत्तणओ वा, थाणविणासपयणं न जुत्तं से। तह कम्माभावाओ, पुणकियाभावओ वा वि।।१८५७।। अर्थान्तरत्वेऽपि स्थानस्य न पतनं सिद्धस्य यतोऽर्थान्तरं स्थानं नभ एव, तस्य च नित्यत्वाद्विनाशो नयुक्तस्तदभावे च कुतः पतनं मुक्तस्य? कर्मचाऽऽत्मनः पतनाऽऽदिक्रियाकारणं, मुक्तस्य च कर्माभावात् कुतः पतनक्रिया? या च समयमेकमस्याप्यूर्द्ध गतिक्रिया, तस्याः कारणम् "लाउयएरंडफले'' इत्यादिना दर्शितमेव। पुनः क्रिया च मुक्तस्य नास्ति, कारणाभावान्निजप्रयत्नप्रेरणाऽऽकर्षणविकर्षण गुरुत्वाऽऽदयो हि पतनकारणम्, तत्सम्भवश्च मुक्तस्य नास्ति, हेतोरभावादितिकुतोऽस्य पतनमिति? // 1857 // किं च स्थानात् पतनमित्यनैकान्तिकमेवेति दर्शयतिनिचत्थाणाओवा, वोमाईणं पढणं पसज्जेजा। अह न मयमणेगंतो, थाणाओऽवस्सपडणं ति॥१८५८ / / ननुच स्थानात्पतनमिति स्ववचनविरुद्धमिदम्, अस्थानादेव पतनस्य युज्यमानत्वाद्। अथ स्थानादपि पतनमिष्यते, तर्हि नित्यमेव स्थानाद् / व्योमाऽऽदीनां पतनं प्रसज्येत। अथ न तत्तेषां मत, तर्हि स्थानात्पतनमित्यनैकान्तिकमेवेति / / 1858|| अथान्येन प्रकारेण प्रेर्यमाशङ्कय परिहरन्नाह - भवओ सिद्धो त्ति मई, तेणाइमसिद्धसंभवो जुत्तो। कालाणाइत्तणओ, पढमसरीरं व तदजुत्तं // 1856 / / अथ स्यान्मतिः परस्य-यतो भवात्सोरात्सर्वोऽपि मुक्ताऽऽत्मा सिद्धस्तेनततः सर्वेषामपि सिद्धानामादिमत्त्वादवश्यमेव केनाप्यादिसिहेन भवितव्यम्। तदयुक्तम् / यतो यथा सर्वाण्यपि शरीराण्यहोरात्राणि च सर्वाण्यादियुक्तान्येव, अथ च कालस्याऽनादित्वाद् नाद्यशरीरम्, आधाऽहोरानं वा किमपि ज्ञायते, तथा कालस्यानादित्वात्सिद्धोऽपि नाद्यः प्रतीयत इति // 1856 / / - अथान्यदपि प्रेर्य परिहारं चाऽऽहपरिमियदेसेऽणंता, किह माया मुत्तिविरहियत्ताओ। निययम्मि व नाणाई, दिट्ठीओ वेगरूवम्मि॥१८६०॥ आह-परिमितदेशमेव सिद्धिक्षेत्र, तत्र कथमनादिकावर्तिनोऽनन्ताः सिद्धा मान्ति? अत्रोत्तरमाह-अमूर्त्तत्वात्सिद्धाः परिमितेऽपि क्षेत्रोऽनन्तास्तिष्ठन्ति, यथा प्रतिद्रव्यमेव अनन्तानि सिद्धानां सम्बन्धीनि केवलज्ञानकेवल दर्शनानि सम्पतन्ति, दृष्टयो वा यथैकस्यामपि नर्तक्यां सहस्त्रशः प्रपतन्ति, परिमितेऽपि वाऽपवरकाऽऽदिक्षेत्रो बलयोऽपि प्रदीपप्रभा मान्ति, एवभिहामूर्ताः सिद्धाः कथं परिमितक्षेत्रोऽनन्ता नमास्यन्ति, मूर्तानामपि प्रदीपप्रभाऽऽदीनां बहूनामेकत्रावस्थानं दृश्यते, किमुताऽमूर्त्तानामिति भावः / / / / 1860 / / तदेवं युक्तिभिः सप्रसङ्गौबन्धमोक्षौ व्यवस्थाप्य वेदवावक्य द्वारेणाऽपि तद्व्यवस्थामाह - न हवइ ससरीरस्स, प्पियाऽप्पियाबहतिरेवमाईणं। वेयपयाणं च तुमं, न सदत्थं मुणसि तो संका।।१८६१।। तुह बंधे मोक्खम्मि य, सा य न कज्जा जओ फुडो चेव। ससरीरेयरभावो, नणु जो सो बंध मोक्खे त्ति / / 1862 / / व्याख्या-" न हि वै सशरीरस्य प्रियाऽप्रिययोरपहतिरस्त्य शरीरं वा वसन्तं प्रियाऽप्रिये न स्पृशतः।" इत्यादीनां च वेदपदानां सदर्थ त्वं (न मुणसि) न जानासि, ततो बन्धे मोक्षे च तव सौम्य! शङ्का, सा च न कार्या, यतो ननुयः सशरीरेतरभावः स स्फुट एव बन्धो मोक्षश्चेति कथं शड्का युज्यते? एतदुक्तं भवति-सशरीरस्येत्यनेन बाह्याऽऽध्यामि कानादिशरीरसन्तानस्वरूपो बन्धः प्रोक्तः तथा अशरीरं वा बसन्तमित्यनेन त्वशेषशरीरापगम-स्वभावो मोक्षः प्रतिपादितः। "तथा स एष विगुणो विभुर्न बध्यते' इत्यादीन्यपि पदानि संसारिजीवस्य बन्धमोक्षभावप्रतिपादकानित्वं मन्यसे / तच्चायुक्तम् / मुक्तजीवविषयत्वात्तेषाम्। मुक्तस्य च बन्धाऽऽद्यभावेऽविप्रतिपत्तिरेवेति। तदेवं भगवता छिन्नस्तस्य संशयः // 1861 / 1862 / / ततः किमित्याहछिन्नम्मि संसयम्मी, जिणेण जरमरणविप्पमुक्केणं /