________________ बंधमोक्खसिद्धि 1245 - अभिधानराजेन्द्रः - भाग 5 बंधमोक्खसिद्धि यथोक्तम् -निष्क्रियो मुक्ताऽऽत्मा, अमूर्तत्वात्तदनैकान्तिकमेव, प्रतिबन्धाभावादिल्याह। अथवा मुक्ताऽमुक्तविशेषमपहाय सामान्येनाऽऽत्मनः सक्रित्वं साधयन्नाह - कत्ताइत्तणओ वा, सक्किरिओऽयं मओ कुलालो व्व। देइप्फंदणओ वा, पचक्खं जंतपुरिसो व्व / / 1846 / / अथवा-सक्रियोऽयमात्मा, कर्तृत्वात्कुलालवदादिशब्दाद् भोक्तृत्वादित्यादि वाच्यम्। अथवा-सक्रिय आत्मा, प्रत्यक्षत एव देहपरिस्पन्ददर्शनाद्यन्त्रापुरुषवदिति / / 1846|| पराऽऽशङ्का प्रतिविधानं चाऽऽह - देहप्फंदणहेऊ, होज पयत्तो त्ति सो वि नाकिरिए। होज्जादिट्ठो व सई, तदरुवत्ते नण्णु समाणं / / 1847 / / रूवित्तम्मि स देहो, वचो तप्फंदणे पुण्णो हेऊ। पइनिययपरिप्फदण - मचेयणाणं न वि य जुत्तं / / 1547 / / अथैवं द्रूवे-देहपरिस्पन्दहेतुरात्मनः प्रयत्नो नतु क्रिया, अतोनाऽऽत्मनः सक्रियत्वसिद्धिरित्यभिप्रायः। अत्रोत्तरमाहसोऽपि प्रयत्नो नभसीवा - ऽक्रिय आत्मनि न संभवल्यतः सक्रिय एवाऽसौ। अमूर्तस्य च प्रयत्नस्य देहपरिस्पन्दहेतुत्वे कोऽन्यो हेतुरिति वाच्यम्? अन्यहेतुनिरपेक्षः स्वतएवायं परिस्पन्दहेतु रिति चेत् यद्येवम्, आत्माऽपि तद्धेतुर्भविष्यति, कमन्तर्गडुना प्रयत्नेन? अथादृष्टः कोऽपि देहपरिस्पन्दहेतुः नत्वात्मा, निष्क्रियत्वात्।। ननु सोऽप्यदृष्टः किं मूर्तोऽमूर्तो वा? यद्यमूर्त स्तात्माऽपि देहपरिस्पन्दहेतुः किं नेप्यते, अमूर्त्तत्वाविशेषात्? अथ मूर्तिमानदृष्टः, तर्हिस कार्मणशरीर लक्षणो देह एव, नान्यः संभवति। तस्यापि च वहिर्दृश्यदेह परिस्पन्दहेतुतया व्याप्रियमाणस्य परिस्पन्दो द्रष्टव्यः तस्य चान्यो हेतुर्वाच्यस्तस्याप्यन्यस्तस्याऽपि चान्य इत्यनवस्था। अथ स्वभावादेवाऽदृष्टस्य कार्माणदेहस्य परिस्पन्दः प्रवर्तते, तर्हि बहिर्दृश्यस्याऽपि देहस्य तत एव तत्प्रवृत्तिर्भविष्यति, किमदृष्टकार्मणदेहपरिकल्पनेन? अस्त्वेवमिति चेत् तदयुक्तम्, अचेतनानामेवंभूतप्रतिनियतविशिष्टपरिस्पन्दनस्य स्वभाविक त्वानुपपत्तेः, "नित्यं सत्वमसत्त्वं वा, हेतोरन्यानपेक्षणाद् / " इत्यादिदोषप्रसंगात्तस्मात्कर्मविशिष्ट आत्मैव प्रतिनियतदेह परिस्पन्दनहेतुत्वेन व्याप्रियत इति सक्रियोऽसाविति ||1847 // 1848|| भवतु तर्हि भवस्थस्य सकर्मणो जीवस्य क्रिया, मुक्तस्य तु कथमसावित्याथशड्क्य परिहरन्नाह - होउ किरिया भवत्थ-स्स कम्मरहितस्स किं नितित्ता सा? नणु तग्गइपरिणामा, जह सिद्धत्तं तहा सा वि॥१८४६ / / पूर्वार्द्धनाक्षेपः पश्चार्द्धन तुपरिहारः,प्राग्व्याख्यातार्थ एवेति / / 1846 / / / अपरस्त्वाहकिं सिद्धलपपरओ, न गई धम्मत्थिकायविरहाओ। सो गइउवग्गहकरो, लोगम्मि जमत्थि नालोए / / 1850 / / यद्युक्तन्याऐन मुक्तस्य गतिक्रियया सक्रियत्वमिष्यते, तर्हि सिद्धाऽऽ लयात्-सिद्धावस्थितिक्षेत्रात् परतोऽलोकेऽपि किमित तस्य गतिर्न प्रवर्तते? अत्रोच्यते-परतोधा स्तिकायविरहात्। तद्विरहोऽपि कुतः? इत्याह-यद्यरमाद सौधर्मास्तिकायो लोक एव समस्ति, नालोके / मा भूदसावलोके किं तेन प्रस्तुतानुपयोगिना कर्त्तव्यं, तद्विरहेऽपि भवतु मुक्तस्य तत्रा गतिः, नियमाभावात्? तदयुक्तं, यतो जीवानां पुद्गलानां च गतेर्गमनस्योपग्रह उपष्टम्भस्तत्कारी स एव धर्मास्तिकायो नान्यस्ततस्तस्याऽलोकेऽभावात्कथ लोकात्परतोऽर्लोकऽपि मुक्ताऽऽत्मनां गतिः प्रवर्तते? इति / / 1850 // कथं पुनरेतदवसीयते यदुत-लोकादन्योऽप्यलोकपदार्थः कश्चिदस्तीत्याशड्क्याऽऽहलोगस्स त्थि विवक्खो,सुद्धत्तणओ घङस्स अघडो व्व / सधडाइ चिय मई, न निसेहाओ तदणुरूवो // 1841 / / अस्ति लोकस्य विपक्षो, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वा दियह व्युत्पतिमत्ता शुद्धपदेनाभिधीयते तस्य विपक्षो दृष्टो यथा घटस्याघटः, यश्च लोकस्य विपक्षः सोऽलोकः / अथ स्यान्मतिर्न लोकोऽलोक इति यो लोकस्य विपक्षः स घटाऽऽदि पदार्थानामन्यतम एव भविष्यति, किमिह वस्त्वन्तरप परिकल्पनया? तदेतन्न, पर्युदासनञा निषेधान्निषेध्यस्यैवानु रुपोऽा विपक्षोऽन्वेषणीयः, न लोकोऽलोक इत्यत्रा च लोको निषेध्यः, स चाऽऽकाशविशेषः, अतोऽलोकेनाऽपि तदनुरुपेण भवितव्यं, यथेहा पण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एव पुरुषविशेषो गम्यते, नाऽचेतनो घटाऽऽदिः, एवमिहापि लोकानुरुप एवालोको मन्तव्यः / उक्त च -"नमयुक्तभिवयुक्तं वा, यद्धि कार्य विधीयते। तुल्याधिकरणेऽन्यस्मिंल्लोकेऽप्यर्थगतिस्तथा // 1 // " नलव युक्तमन्यसदृशाधि करणे तथा ह्यर्थगतिः।" तस्माल्लोकविपक्षत्वादस्त्यलोक इति / / 1851 / / अथालोकास्तित्वादेव धधिमास्तिकायौ साधयन्नाह - तम्हा धम्माऽधम्मा, लोयपरिच्छेयकारिणो जुत्ता। इहरागासे तुल्ले, लोगोऽलोगो त्ति को भेओ !||1852 / / लोगविभागाऽभावे, पडिघायाभावओऽणवत्थाओ। संववहाराभावो, संबंधाभावओ होजा।।१८५३॥ यस्मादुक्तप्रकारेणास्त्यलोकः, तस्मादलोका स्तित्वादेवावश्यं लोकपरिच्छेदकारिभ्या धर्माधर्मास्तिकाया भ्यां भवितव्यम्, अन्यथाssकाशे सामान्ये सत्ययं लोकोऽयं चालोक इति कृतोऽयं विशेषः स्यात्? तस्माद् यत्रा क्षेत्रो धम्मधिर्मास्तिकायौ वर्तेते, तल्लोकः, शेषं त्वलोक इति लोकाऽलोकव्यवस्थाकारिणो धाऽधर्मास्तिकायौ विद्यते इति / (लोगेल्यादि) यदि हि धर्माधर्माभ्यां लोकविभागो न स्याप्ततो लोकविभागाभावेऽवशिष्ट एव सर्वस्मिन्नप्याकाशे गतिपरिणताना पुद्रलानां च प्रतिघाताभावेन तद्गत्यवस्थाना भावादलोकेऽपिगमनात्तस्य चानन्तत्वात्तेषा परस्पर संबन्धो न स्यात् / ततश्च औदारिकाऽऽदिकार्मणवर्गणापर्यन्तपुरलकृतो जीवानां वन्धमोक्षसुखदुः खसंभवसंसरणाऽऽदिव्यवहारो न स्याज्जीवस्य च जीवेन सहान्योऽन्यमीलनाभावात् तत्कृतोऽनुग्रहोपघाताऽदिव्यवहारो न स्यादिति / / 1852 / / 1853 / /