________________ बंधसामित्त 1248 - अभिधानराजेन्द्रः - भाग 5 बंधसामित्त तित्थ विणा मिच्छि सयं, सासणि नपुचउ विणा छनुइ।४। "जिणं सुरविउ वाहरित्यादि "गाथोक्ताः क्रमेण सुरद्विकाऽद्यकोनविंशतिप्रकृतीवर्जयित्वा शेषमेकोत्तरशतमोघेन नारका बघ्नन्ति / अयमत्राभिप्रायः-एता एकोनविंशतिप्रकृतीर्बन्धाधि-कृतकर्मप्रकृतिविंशत्युत्तरशतमध्यान्मुक्त्वा शेषस्यैकोत्तरशतस्य नरकमती नानाजीवापेक्षया सामान्यतो बन्धः / सुरद्विकाऽऽद्येकोनविंशतिप्रकृतीनां तु भवप्रत्ययादेव नारकाणामबन्धकल्वात् / सामान्येन नरकगतौ बन्धमभिधाय सम्प्रति तस्यामेव मिथ्यादृष्ट्यादिगुणस्थानचतुष्टयविशिष्ट तं दर्शयति-"तित्थ विणेत्यादि " प्रागुक्तभेकोत्तरशतं तीर्थकरनाम विना मिथ्यादृष्टिगुणस्थानके शतं भवति / एतच शतं नपुंसकवेदमिथ्यात्वहुण्डसंस्थानसेवार्त्तसंहननप्रकृतिवतुष्कं विना सासादनगुणस्थानके षण्णवतिनरिकाणां बन्धे // 4 // विणु अणछवीस मीसे, विसयरि समम्मि जिणनराउजुया। इय रण्णाइसु भंगो, पंकाइसु तित्थयरहीणो।। 5 / / प्रागुक्ता षण्णवतिरनन्तानुबन्ध्यादिषड्विशतिप्रकृतीविना मिश्रगुणस्थाने सप्ततिः / सैव जिननामनराऽयुर्युता सम्यगदृष्टिगुणस्थानके द्विसप्ततिः / इत्येवं बन्धमाश्रित्य भङ्गो, रत्नाऽऽदिषु रत्नप्रभाशर्कराप्रभावालुकाप्रभाभिधानप्रथमनरकपृथिवीत्रये द्रष्टव्यः / पङ्कप्रभाऽदिषु पुनरेष एव भङ्गस्तीर्थकरनामहीनो विज्ञेयः / अयमर्थः-पडप्रभाधूमप्रभातमःप्रभासु सम्यक्त्वसद्भावेऽपि क्षेत्रमाहात्म्येन तथाविधाऽध्यवसायाऽभावात्तीर्थकरनामबन्धो नारकाणां नास्तीति / ततस्तत्र सामान्येन शतं. मिथ्यादृशां च शतं, सासादनानां षण्णवतिः, मिश्राणां सप्ततिः, अविरतसम्यग्दृष्टीनामेकसप्ततिः। इह सामान्यपदेऽविरतसम्यग्दृष्टिगुणस्थाने च रत्नप्रभाऽऽदिभङ्गस्तीर्थकरनाम्ना हीन उक्तो, मिथ्यादृष्टिसासादनमिश्रेषु त्रिषु गुणस्थानकेषु पुनस्तस्य प्रागेवाऽपनीतत्वात्तदवस्थ एव // 1 // अजिणमणुआउ ओहे, सत्तमिए नरदुगुचविणुमिच्छं। एगनवइ सासाणे, तिरिआउ नपुंसचउवजं / / 6 / / रत्नप्रभाऽऽदिनरकत्रयसामान्यबन्धाधिकृतकोत्तरशतमध्यात् जिननाममनुजायुऽऽषी मुक्त्वा शेषा नवनवतिरोघबन्धे सप्तपृथिव्या नारकाणां भवति / सैव नवनवतिर्नरगतिनरानुपूर्वीरूपनरद्विकोचैर्गोत्रैर्विना षण्णवतिर्मिथ्यादृष्टिगुणस्थाने भवति / सैव षण्णवतिस्तिर्यगायुर्नपुंसकवेदमिथ्यात्वहुण्डसंस्थानसेवार्तसंहननवर्जिता एकनवतिः सासादने सप्तम्यां नारकाणाम्।।६।। अणचउवीसविरहिया, सनरदुगुच्चा स सयरि मीसदुगे। सतर सओ ओहि मिच्छे, पज्जतिरिया विणु जिणाहारं। 7 / प्रागुक्तैकनवतिरनन्तानुबन्ध्यादिचतुर्विशतिप्रकृतिभिर्विरहिता नरद्विकोचैर्गोत्राभ्यां च सहिता सप्ततिर्भवति। सा च (मीसदुगे त्ति) मिश्राऽ- | विरतगुणस्थानद्वये द्रष्टव्या / इह सप्तम्यां नराऽऽयुस्तावन्न बझ्यते एव, तद्वन्धाभावेऽपि च मिश्रगुणस्थानकेऽविरतगुणस्थानके च नरद्विक बध्यते / अयमर्थोनरद्विकस्य नराऽऽगुणः सह नाऽवश्यं प्रतिबन्धो, यदुत यत्रैवाऽऽयुर्बध्यते तत्रैव गत्यानुपूर्वीद्वयमपि तस्याऽन्यदाऽपि बन्धात्। मिथ्यात्वसासादनयोस्तु कलुषाध्य बलायत्वेन प्रतिषाद्याऽच तिर्यग्गतौ तदाह-" सतर सओ" इत्यादि विंशत्युत्तरशतं जिननाम आहारकद्विकं च विना शेषं सप्तदशोत्तरशतमोघे मिथ्यादृष्टिगुणस्थाने च पर्याप्तास्तिर्यचो बध्नस्ति / अत्रौघे तिरश्चां सत्यपि सम्यक्त्वे भवप्रत्ययादेय तथाविधाध्यवसायाऽमावात्तीर्थकरनाम्नः संपूर्णसंयमाभावादाहारकद्विकस्य च बन्धो नास्तीति हृदयम्॥७॥ विलु नरयसोल सासणि, सुराउ अण एगतीस विणु मीसे। ससुराउ सयरि सम्मे, वीयकसाए विणा देसे // 8 // प्रागुक्तं सप्तदशोत्तरशतं नरकत्रिकाऽऽदिषोडशप्रकृतीविनाएकोत्तरशत सासादने पर्याप्ततिरश्वाम् / एतदेवैकोत्तरशतं सुराऽऽयुरनन्तानुबन्ध्याऽऽद्यकत्रिंशत्प्रकृतीश्न विना एकोन सप्ततिः, सा मिश्रगुणस्थाने बध्यते। अयं भावार्थ:-" सम्मामिच्छद्दिट्टी, आउबंधं पिन करेइ।'' इति वचनादत्र सुरनराऽऽयुषोरबन्धः, अनन्तानुबन्ध्यादयश्च फञ्चविंशतिप्रकृतयः सासादन एव व्यवच्छिन्नबन्धाः, तथा-मनुष्यास्तिर्यश्चश्व मिश्रगुणस्थानकस्था अविरतसम्यग्दृष्टिवद्देवाहमेव बध्नन्ति / तेन नरद्विकौदारिकद्विकवजऋषभनाराचानामपि बन्धाभावः / एषैव एकोनसप्ततिः सुराऽऽयुषा सहिता सप्ततिः सम्यक्त्वेऽविरतगुणस्थानके भवति। सा सप्ततिर्द्वितीयकषायैरप्रत्याख्यानक्रोधमानमायालोभैर्विना षट्षष्टिर्देशविरतगुणस्थाने बध्यते।।८।। अथ तिर्यग्गतिबन्धाधिकार एव ग्रन्थलाधवार्थ मनुष्यग तावपिबन्धं दर्शयतिइय चउगुणेसु वि नरा, परमजया सजिण ओहु देसाई। जिणएक्कारसहीण्णं, नवसउ अपज्जत्ततिरियनरा।।६।। यथा पर्याप्ततिरश्वां चतुर्षु मिथ्यादृष्टिसासादनमिश्राविरतिगुणस्थानेषु सप्तदशोत्तरशताऽऽदिको बन्ध उक्त इत्येवं पर्याप्तनरा अपि चतुर्यु मिथ्यादृष्टिसासादनमिश्राविरतिगुणस्थानेषु सप्तदशोत्तरशताऽऽदिबन्धस्वामिनो गन्तव्याः। परमयता अविरतसम्यग्दृष्टयः पर्याप्तनराः। (सजिण ति) अविरतसम्यग-दृष्टिपर्याप्ततिर्यग्बन्धयोग्यसप्ततिर्जिननामसहिता एकसप्ततिस्ता बध्नन्ति, जिननामकर्मणोऽपिबन्धकत्वात्तेषाम् / (ओहु देसाइति, देशविरताऽऽदिगुणस्थानकेषु गुणस्थानकानाश्रयणे च पर्याप्तनराणां पुनरोधः सामान्यो बन्धोऽवसेयः। स च कर्मस्तवोक्त एव, यतः कर्मस्तवग्रन्थे सामान्यतो गुणस्थानकेषु बन्धः प्रतिपादितो, न पुनः किशन गत्यादिमार्गणास्थानमश्रित्य / स चात्र बहुषु स्थानेषूपयोगीति मूलतोऽपि दर्शाते " अभिनवकम्मग्गहणं, बंधो ओहेण तत्थ वीससयं। तित्थयराहारगदुग-वजं मिच्छम्मि सतरसयं॥१॥ नरयतिग३जाइ३थावर-चउपहुंडायवच्छिवट्ठनपुमिच्छं। सोलतो इगहियसव, सासणि तिरि 3 थीण 3 दुहगतिग 3 // 2 // अण मज्झ गिइ४संघ यण४चउ निउज्जोय कुखगइस्थिति। पणवीसेता मीसे, चउसयरि दुआउय अबंधा / / 3 / /