________________ बंधमोक्खसिद्धि 1242 - अभिधानराजेन्द्रः - भाग 5 बंधमोक्खसिद्धि तथाहि - अण्णयरमणिय्वत्तिय-कलं बीयंकुराण जं विहयं / तत्थ हओ संताणो, कुक्कुडिअंडाइयाणं च / / 1818 / / जह देह कंचणोवल-संजोगोऽणाइसंतइगओ वि। वोच्छिन्नइ सोवायं, तह जोगो जीव-कम्माणं / / 1816 / / बीजाऽडरयोर्मध्येऽन्यतरदनिर्वतितकार्यमेव यद् विहितं व्यवच्छिन्नं तत्रानयोर्हतोव्यवच्छिन्नः सन्तानः। एवं कुछुट्याण्डकयोः, पितापुत्रायोरपि च वक्तव्यम् / यथा वा काश्चनोपल्योरनादिकालप्रकृत्तसन्तानभावगतोऽपि संयोगः सोपायम्-अग्नितापाऽऽद्युपायाद्व्यवच्छिद्यते, तथा जीवकर्मणोरपि संयोगोऽनादिसन्तानगतोऽपि तपः-संयमाऽऽद्युपायाद् व्यवच्छिद्यते, इति न मोक्षाभाव इति!|१८१८॥१८१६।। अत्र परस्य प्रश्नमुपन्यस्योत्तरमाह - तो किं जीवनहाण व, अह जोगो कंचणोवलाणं व ? | जीवस्सय कम्मस्सय, भण्णइ दुविहो विन विरुद्धो।।१९२०। पढमोऽभव्वाणं चिय, भव्वाणं कंचणोवलाणं व। जीवत्ते सामण्णे, भव्योऽभव्वो त्ति को भेओ? ||1821 // आह-जीवस्य कर्मणश्च योऽयं परस्परं योगः सोऽनादिः सन् किं जीवनभसोरिवानन्तः, अथ काञ्चनो-पलयोरिव सान्तोऽपि स्यात्? उभयथाऽपि दर्शनात् किमत्रा प्रतिपद्यामहे? / भण्यतेऽत्रोत्तरम् - द्विधाऽप्ययमविरुद्धः, ता प्रथमोऽनाद्यनन्त-रुपोऽभव्यानां द्रष्टव्यः / यस्तु काञ्चनो पलयोरिवाऽनादिः सान्तोऽसौ भव्यानां विज्ञेयः / आह ननु जीवत्वसाम्येऽपि' अयं भव्यः' 'अयं चाऽभव्यः' इति किं कृतोऽयं विशेषः? न च वक्तव्यम् यथा जीवत्वे समानेऽपि नारकतिर्यगादयो विशेषास्तथा भव्याऽभव्यत्वविशेषोऽपि भविष्यतीति, यतः कर्मजनिता एव नारकाऽऽदिविशेषाः, न तु स्वाभाविकाः, भव्याऽभव्यत्वविशेषोऽपि यदि कर्मजनितस्तदा भवतु को निवारयिता? न चैवमिति॥१८२०॥ 1821 / / एतदेवाऽऽहहोउ द जइ कम्मकओ, न विरोहो नारगाइभेउ व्व। भणाइ य भव्वाऽभव्वा, सभावओ तेण संदेहो।।१८२२।।। भवतु वा यदि कर्मकृतोऽयं भव्याऽभव्यत्वविशेषो जीवाना मिष्यते, नाऽत्र कश्चिद् विरोधः, नारकाऽऽदिभेदवत्, न चैत दस्ति, यतो भव्याऽभव्याः स्वभावत एव जीवा न तु कर्मतः' इति यूयं भणथ, तेनाऽस्माकं संदेह इति। // 1822 // परेणैवमुक्ते सत्याहदव्वाइत्ते तुल्ले, जीवनहाणं सभावओ भेओ। जीवाऽजीवाइगओ, जह तह मव्वेयरविसेसो॥१५२३॥ यथा जीवनभसोर्द्रव्यत्वसत्व प्रमेयत्व-ज्ञेयत्वाऽऽदौ तुल्येऽपि जीवाऽजीवत्वचेतनाऽचेतनत्वाऽऽदिस्वभाषतो भेदः, तथा जीवानामपि जीवत्वसाम्येऽपि यदि भव्याऽभव्यकृतो विशेषः स्यात् तर्हि को दोषः? इति / / 1823 // इत्थं संबोधितो भव्यत्वाऽऽदिविशेषमभ्युपगम्य दूषणान्तरमाह एवं पि भव्वभावो, जीवत्तं पि व सभावजाईओ। पावइ निश्चो तम्मि य, तदवत्थे नत्थि निव्वाणं / / 1824 / / नन्वेवमपि भव्यभावो नित्योऽविनाशी प्राप्नोति, स्वभावजातीयत्वात्स्वाभाविकत्वाज्जीवत्ववद्व्यत्वमिति चेत्, तदयुक्तम्-यतस्तस्मिन् भव्यभावे तदवस्थे नित्यावस्थायिनि नास्ति निर्वाणम्-"सिद्धो न भव्यो नाप्यभव्यः" इति वचनादिति // 1824 // नैवं कुत इत्याहजह घडपुव्वाभावो-- ऽनाइसहावो वि सनिहणो एवं / जइ भव्वत्ताभावो, भवेज किरियाएँ को दोसो // 1825 / / यथा घटस्य प्रागभावोऽनादिस्वभावजातीयोऽपिघटोत्पत्तौ सनिधनोविनश्वरोदृष्टः,एवं यदि भव्यत्वस्यापि ज्ञानतपः सचिवचरणक्रियोपायतोऽभावः स्यात्तर्हि को दोषः संपद्यते, न कश्चिदिति। आक्षेपपरिहारौ प्राऽऽह - अणुदाहरणमभावो, खरसिंग पि व मई न तं जम्हा। भावो चिय स विसिट्ठो, कुंभाणुप्पत्तिमेत्तेणं // 1826 / / स्यान्मतिः परस्य-नन्वनुदाहरणमसौ प्रागभावः, अभावरुप तयैवावस्तुत्वात्, खरविषाणवत् / तन्न, यस्माद्भाव एवाऽसौ घटप्रागभावः, ततकारणभूतानादिकालप्रवृत्तपुरलसंघातरुप, केवल घटानुत्पत्तिमात्रेण विशिष्ट इति // 1826 / / भवतु तर्हि घटप्रागभाववद्रव्यत्वस्य विनाशः, केवलमित्थं सति दोषान्तरं प्रसजति। किमित्याहएवं भव्वुच्छेओ, कोट्ठामारस्स वा अवचउत्ति। तं नाणंतत्तणओs-णागयकालंबराणं व // 1827 / / नन्वेवं सति भव्योच्छे दो-भव्यजीवैः संसारः शून्यः प्राप्नोति, अपचयात् / कस्य यथा समुच्छेदः? इत्याह - स्तोकस्तोकाऽऽकृष्यमाणधान्यस्य-धान्यभृतकोष्ठागारस्य। इदमुक्तं भवति कालस्याऽऽनन्त्यात्षण्मासपर्यन्ते चावश्यमेकस्य भव्यस्य जीवस्य सिद्धिगमनात्क्रमेणापचीय मानस्य धान्यकोष्ठागारस्येव सर्वस्याऽपि भव्यराशेरुच्छेदः प्राप्नोतीति / अत्रोत्तरमाह-तदेतन्न, अनन्तत्वाद्भव्यराशेः, अनागतकालाऽऽकाशवदिति। इह यद् बृहदनन्तकेनानन्तं, तत् स्तोकस्तोकतयाऽपचीयमानमपि नोच्छिद्यते, यथा प्रतिसमयं वर्तमानतापत्याऽपचीयमानोऽप्यनागतकालसमयराशिः प्रतिसमयं बुद्धया प्रदेशापहारेणापचीयमानः सर्वनभः प्रदेशराशिर्वा, इति न भव्योच्छेदः॥१८२७॥ कुतः? इत्याह - जंचातीताणागय-काला तुल्ला जओ य संसिद्धो। एक्को अणंतभागो, भव्वाणमईयकालेणं / / 1828 / / एस्सेण तत्तिउ चिय, जुत्तो जं तो वि सव्वभव्वाणं / जुत्तो न समुच्छे ओ, होज मई कहमिणं सिद्धं // 1826 / / मव्वाणमणंतत्तण-मणंतभागो व किह व मुक्कोसिं।