________________ बंधमोक्खसिद्धि 1243- अभिधानराजेन्द्रः - भाग 5 बंधमोक्खसिद्धि कालाद ओ व मंडिय ! मह वखणाओ वि पडिवजा / / 1830 / / / यस्माश्चातीतानागतकालौ तुल्यावेव, यतश्चातीतेनाऽपि कालेनैक एव निगोदानन्ततमो भागोऽद्यापि भव्यानां सिद्धः, एव्यताऽपि-भविष्यत्कालेन तावन्मात्रा एव भव्यानन्तभागः सिद्धि गच्छन् युक्तो घटमानको, नहीनाधिको, भविष्यतोऽपिकालस्यातीततुल्यत्वात् तत एवमपि सति न सर्वभव्यानामुच्छेदो युक्तः, सर्वेणाऽपि कालेन नदनन्तभागस्यैव सिद्धिगमनसंभवोपदर्शनात्। अथ परस्य मतिर्भवत्-तत्कथमिदं सिद्ध यदुत-अनन्ता भव्यास्तदनन्तभागस्य सर्वेणैव कालेन सेत्स्यतीति? अत्रोच्यते-कालाऽऽदय इयानन्तास्तावद् भव्याः तदनन्त भागस्य च मुक्तिगमनात्कालाऽऽकाशयोरिव, न सर्वेषामुच्छेद इति प्रतिपद्यस्व, मद्वचनाद्वा मण्डिक! सर्वमैव अद्धेहीति।।१८२८||१८२६॥१८३०॥ कथं पुनस्त्वद्वचनात्सर्वमेतत् सत्यतया प्रतिपद्यामहे? इत्याहसब्भूयमिणं गिबहसु, मह वयणाओऽवसेसवयणं व / सव्वण्णुताइओ वा, जाणय मज्झत्थवयणं वा // 1831 // मण्णसि किइ सव्वण्णू, सव्वेसिं सव्वसंसयच्छेया। दिटुंताभावम्मि वि, पुच्छउ जो संसओ जस्स।।१८३२॥ सद्भूतमिदमनन्तरोक्तं सर्वमपीति गृहाण त्वं, मद्वचनत्वाद्यथा त्वत् संशयाऽऽदिविषयमवशेष मद्वचनं, सर्वज्ञत्वादित्यादिभ्यो वा हेतुभ्यः, आदिशब्दावीतरागत्वाऽऽदिपरिग्रहः, ज्ञायकमध्य स्थवचनवदित्ययमत्र दृष्टान्त इति। अथैव भन्यसे-कथमिव सर्वज्ञस्त्वम्? अत्रोच्यते--सर्वेषां सर्वसंशयच्छेदात्। अन्यस्य सर्वसंशयच्छेत्तुः कस्याप्यदर्शनात्कोऽत्रा दृष्टान्तो? न कश्चिदिति / अत्रोच्यते-किमत्रा दृष्टान्तान्वेषणेन? तदभावेऽपि हि यो यस्य संशयः स तं सर्वमपि पृच्छतु. येन स्वप्रत्ययसिद्ध एव मयि सर्वज्ञत्वनिश्चयो भवतीति / / 1831 / / 1832|| अत्र प्रेरकः प्राहभव्वा वि न सिज्झिस्सं-ति केइ कालेण जइ वि सव्वेण। नणु ते वि अभव्व चिय, किं वा भव्वत्तणं तेसिं // 1833 // ननु भव्या अपि सन्तो यदि सर्वेणापि कालेन सर्वेऽपि न सेत्स्यन्ति, तर्हि येषां सिद्धिर्न भविष्यति, अभव्या एवते किं न व्यपदिश्यन्ते? केन वा विशेषेण तेषां भव्यत्वम्? इति निवेद्यतामिति // 1833 / / अत्रोत्तरमाह -- भण्णइ भव्वो जोग्गो, न य जोग्गत्तेण सिज्झए सव्वो। जइ जोग्गम्मि वि दलिए, सव्वम्मिन कीरए पडिमा / / 1834 / / भण्यते अत्रोत्तरम-किम्? इत्याह--भव्योऽत्र सिद्धिगमनयोग्योऽभिप्रेतो, नतु यः सिद्धिगति यास्यत्येव, नच योग्यत्वमस्तीत्येतावतैव सर्वः सिध्यति, किंतु गमनसापमग्रीसम्भवे सति। दृष्टान्तमाह-यथा हेममणिपाषाणचन्दनकाष्ठाऽऽदिके योग्येऽपि प्रतिमाऽहेऽपि दलिके न सर्वस्मिन् प्रतिमा विधीयत, किं तु यौव तन्निष्पत्तियोग्या सामग्री सम्भवति तत्रवासी क्रियते। न च तद् सम्भवमात्रोण प्रतिमाविषये अयोग्यता भवति / नियमचह नैव विधीयते यदुत-प्रतिमायोग्ये वस्तुनि प्रतिमा भवत्येवेति, किं तु यदा तदा वा तद्योग्य एव सा भवति, नान्यत्रोति / एवमिहापि न भव्यः इत्येतावन्मात्रेणैव सर्वः सिद्ध्यति, किं तु सामग्रीसंपत्ती, न च तदसम्पत्तावपि तस्याभव्यता भवति, किंतुयदा तदावा भव्यस्यैव मुक्तिभिव्यस्येति / / 1834 // दृष्टान्तान्तरमाहजह वा स एव पासा-णकणगजोगो विओगजोग्गो वि। न विजुज्जइ सव्वो चिय, स विजुज्जइ जस्स संपत्ती // 1835 / / किं पुण जा संपत्ती, सा जोग्गस्सेव न उ अजोग्गस्स। तह जो मोक्खो नियमा, सो भव्वाणं न इयरेसिं // 1836 // यथा वा स एव पूर्वोक्तः सुवर्णपाषाणकनकयोोगो वियोग योन्यताऽन्वितोऽपि सर्वो न वियुज्यते, किंतु स एव वियुज्यते, यस्य वियोगसाभग्रीसम्प्राप्तिरिति / किं पुनः? एतद्दुजमुत्क्षिप्य ब्रूमः-या वियोगसामग्रीसम्प्राप्तिः सा वियोगयोग्यस्यैव सुवर्णो पलस्य भवति, न तु तदयोग्यस्य, तथा तेनैव प्रकारेण यः सर्वकर्मक्षयलक्षणो मोक्षः स नियमाद्भत्र्या नामेव भवति, नेतरेषामभव्यानामितिभव्याऽभव्ययोर्विशेष इति॥१८३५॥१८३६॥ अथ प्रकारान्तरेणाऽऽक्षेपपरिहारौ प्राऽऽहकयगाइमत्तणाओ, मोक्खो नियो न होइ कुंभो व्य / नो पद्धसागावो, भुवि तद्धम्मा विजं निचो॥१८३७ / / अणुदाहरणमभावो, एसो वि मईन तं जओ नियओ। कुंभविणासविसिट्ठो, भावो चिय पोग्गलमओ य॥१८३८ / / ननु मोक्षो नित्यो न भवति, किं त्वनित्यो विनाशी कृतकत्वादा दिशब्दात्प्रयत्नानन्तरीयकत्वाऽऽदिपरिग्रहः, कुम्भवदिति दृष्टान्तः / अत्रोच्यते-अनैकान्तिकता हेतूनां, विपक्षेऽपि गमनाद्यस्मादिह घटादिप्रध्वंसाभावः कृतकाऽऽदिस्वभावोऽपि नित्य एव, तदनित्यत्वे घटाऽऽदेस्तद्रूपतयैवोन्मजनप्रसङ्गादिति / अथैवं परस्य मतिर्न केवलं पूर्वोक्तः प्रागभावः किं त्वेषोऽपि प्रध्वंसाभावोऽभावत्वेनावस्तुत्वादनुदाहरणमेव / तदेतन्न, यतो-यस्मानियतो-निश्चितः कुम्भविनाशविशेषेण विशिष्टः पुद्रला-ऽऽत्मको भाव एवायमपि प्रध्वंसाभावः। अतो युक्तमेतदुदाहरणमिति / एतच्च मोक्षस्य कृतकत्वमभ्युपगम्योक्तम्।।१८३७॥१८३८।। यदिवा-न भवत्येव कृतको मोक्ष इति दर्शयन्नाह - किं वेगतेण कयं, पोग्गलमत्तविलयम्मि जीवस्स। किं निव्वत्तियमहियं, नभसो घडमेत्तविलयम्मि? ||1836 / / किमिह पुद्रलमात्राविलये सति समस्तकमपुद्गलपरिशाटसमये जीवस्याऽऽत्मनः स्वतत्वे वृत्तिमादधत एकान्तेन कृतं-विहितं, येन कृतकोमोक्षः स्यात् ? एतदुक्तं भवति-इहाऽऽत्मकम्र्मेपुरलवियोंगो मोक्षोऽभिप्रेतः / तत्र तपः संयम प्रभावतो जीवात्कर्माणि पृथग्जायमाने किमात्मनः क्रियते येन कृतकत्वादनित्यत्वं मोक्षस्य प्रतिपाद्यते? अथ सएवाऽऽत्म कर्मवियोगः क्रियमाणत्वात्कृतकः, ततोऽनित्य इ